CBSE Sample Papers for Class 10 Sanskrit Paper 3 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 3.

CBSE Sample Papers for Class 10 Sanskrit Paper 3

Board CBSE
Class X
Subject Sanskrit
Sample Paper Set Paper 3
Category CBSE Sample Papers

Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 3 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.

समय: होरात्रयम्
पूर्णाङ्काः 80

निदेशाः

  1. प्रश्नपत्रं चत्वारः खण्डाः सन्ति
    • खण्ड: (क) अपठित-अवबोधनम्    10 अङ्कः
    • खण्ड: (ख) रचनात्मकं-कार्यम्        15 अङ्काः
    • खण्ड: (ग) अनुप्रयुक्तव्याकरणम्    25 अङ्काः
    • खण्डः (घ) पठित-अवबोधनम्        30 अङ्काः
  2. सर्वे प्रश्नाः अनिवार्याः
  3. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
  4. प्रश्नसंख्या अवश्यमेव लेखनीया।
  5. उत्तराणि संस्कृतेनैव लेखनीयानि।

खण्डः ‘क’ – अपठित-अवबोधनम्

प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत (10)
जीवने सफलतायाः आधारः पुरुषार्थः एव। अस्य अभावेन नरः सुखसमृद्धिम् आप्तुम् असमर्थः भवति यश: च न प्राप्नोति। यदा यदा नरः पुरुषार्थम् अचिनोत् तदा-तदा तेन सफलता प्राप्ता। पुरुषार्थिनः एव संसारे विलक्षणप्रतिभाम् अर्जितवन्तः। अनेन एव ऐवरेस्टशिखरम् अजयत् अन्तरिक्षं च अगच्छत् नरः। देशसेवया समाजसेवया शिक्षाप्रसारेण च पुरुषार्थिभिः उल्लेखनीयानि कार्याणि कृतानि। अस्माकम् इतिहासे तेषां गौरवगानं विद्यते। आपत्काले येषां मनांसि विचलितानि न भवन्ति ते एव जीवने सफलतां प्राप्नुवन्ति। पुरुषार्थिनां कृते तु पुरुषार्थः एव उपासना अस्ति।

(I) एकपदेन उत्तरत – (1 × 2 = 2)

  1. नरः पुरुषार्थेन किम् शिखरम् अजयत् ?
  2. पुरुषार्थिभिः कीदृशानि कार्याणि कृतानि ?

(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)

  1. जीवने के सफलता प्राप्नुवन्ति ?
  2. पुरुषार्थस्य अभावेन नरः किं न प्राप्नोति ?

(III) यथानिर्देशम् उत्तरत – (1/2 × 4 = 2)
1. ‘प्राप्नोति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) पुरुषार्थः
(ख) पुरुषार्थी
(ग) नरः
(घ) ते

2. ‘लभन्ते’ इति पदस्य पर्यायपदं गद्यांशे किम् ?
(क) अचिनोत्
(ख) अर्जितवन्तः
(ग) प्राप्नुवन्ति
(घ) भवन्ति

3. उल्लेखनीयानि’ इति पदस्य विशेष्यपदं किम् ?
(क) विचलितानि
(ख) कार्याणि
(ग) संदर्भाणि
(घ) मनांसि

4. ‘आलस्यम्’ इति पदस्य विलोमपदं गद्यांशे किम् प्रयुक्तम् ?
(क) कार्यम्
(ख) विलक्षणम्
(ग) गौरवगानम्
(घ) पुरुषार्थः

(IV) अस्य गद्यांशस्य समुचितं शीर्षकं लिखते। (2)

खण्ड’ख’- रचनात्मक कार्यम्

प्रश्न 2:
विद्यालयस्य-वार्षिकोत्सव-दर्शनाय स्वमातरं प्रति लिखितं निमन्त्रणपत्रं मञ्जूषापदसहायतया पूरयित्वा उत्तरपुस्तिकायां पुनः लिखत। (1/2 × 10 = 5)
गच्ची बावली
हैदराबादतः
दिनाङ्कः ……/ ……../ ………
(1) ……….. मातः,
सादरं चरणस्पर्शः।
गतसप्ताहे भवत्याः पत्रं प्राप्तम् । अहं भवत्याः (2) ……… चिन्तिता अस्मि । मम पठनं नियमितम् अस्ति। आगामि नवम्बर मासे मम (3) ……….. वार्षिकोत्सवः अस्ति। अयं वार्षिकोत्सवः (4) ………… कृते अतिमहत्त्वपूर्णः अस्ति। अस्मिन् उत्सवे प्रधानाचार्यः मह्यम् (5) ………. दास्यति। अतएव अहम् इच्छामि भवती अपि (6) ………… इमम् उत्सवं पश्यतु येन मम उत्साहवर्धनम् (7) …………। अतः पित्रा सह मम (8) ………. अवश्यमेव आगच्छतु भवती।
भवद्भ्यां (9) ……….. प्रणामाः अग्रजाय च नमोनमः।
(10) ………… पुत्री
मानसी
मञ्जूषा- विद्यालयस्य, अत्रागत्य, परमपूज्ये, चरणेषु, स्वास्थ्यविषये, मम, भविष्यति, पुरस्कारम्, भवत्याः, विद्यालयं

प्रश्न 3:
मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखत। (2 × 5 = 10)
CBSE Sample Papers for Class 10 Sanskrit Paper 3 Q.3
मञ्जूषा- आतप-पत्रम्, द्विचक्रिका, पादत्राणम्, बालिके उपविशतः, मार्गम्, वृक्षम्, हस्ते, शाटिका, अग्रे, पत्नी, पतिः, धारयतः, हस्ते स्यूतः, सम्पूर्णपरिवारः, भवनानि

अथवा

मञ्जूषायां पदानि चित्वा मम प्रातराशः’ इति विषयम् अधिकृत्य प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृते लिखते।
मञ्जूषा- दुग्धम्, नवीनतम्, मिष्ठान्नम्, पायसम्, कदलीफलम्, ऋतु-अनुसारं, फलानि, सेवफलम्, खादाम, पिबामि, स्वास्थ्यवर्धकानि, सर्वेषां कृते आवश्यकम्, शारीरिक-मानसिक वृद्धि:, प्रात:काले, माता

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

प्रश्न 4:
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिविच्छेदं वा कृत्वा लिखत। (1 × 4 = 4)

  1. परमापत् + गतेन अपि त्वया इदं न प्रयोक्तव्यम्।
  2. सर्वदा विद्यमानोऽस्य कार्यकलापं पश्यामि।
  3. रात्रौ रजनीश: उदेति।
  4. विधि + एनम् त्वं वैरिणम्।

प्रश्न 5:
रेखाङ्कितपदेषु समासम् अथवा विग्रहं विकल्पेभ्यः चित्वा उत्तरपुस्तिकायां लिखत। (1 × 4 = 4)
1. पीतानि अम्बराणि यस्य सः अर्जुनस्य सारथिः आसीत्।
(क) पिताम्बरः
(ख) पीतम्बरः
(ग) पीताम्बरः
(घ) पीतबर:

2. यथाशक्ति कृतं कार्यं फलं ददाति।
(क) शक्तिम् अतिक्रम्य
(ख) शक्तिम् आतिक्रम्य
(ग) शक्तिम् अनातिक्रम्य
(घ) शक्तिम् अनतिक्रम्य

3. अये कथं युधिष्ठिरः च अर्जुनः च?
(क) युधिष्ठिरार्जुनः
(ख) युधिष्ठिरार्जुनाः
(ग) युधिष्ठिरार्जुनौ
(घ) युधिष्ठिरार्जुने

4. पङ्कजम् राष्ट्रपुष्पं वर्तते।
(क) पङ्के जायते इति
(ख) पङ्के जीवति इति
(ग) पङ्के जीवनं यस्य
(घ) पङ्केन जोर्वात इति

प्रश्न 6:
रेखाङ्कितपदानां ‘प्रकृतिप्रत्ययः’ पृथक् संयोगो कृत्वा विकल्पेभ्यः शुद्धं उत्तरं चित्वा उत्तरपुस्तिकायाम् लिखत। (1 × 4 = 4)
1. छात्रै: अनुशासनं ……………………… (पाल + अनीयर्)
(क) पालनीयः
(ख) पालनीयम्
(ग) पालनीया
(घ) पालनीयर

2. छलेन अधिगृह्य ……… (क्रूर + तल्) भक्षयसि।
(क) क्रूरतया
(ख) क्रूरतेन
(ग) क्रूरता
(घ) क्रूरताः

3. अधुना ………….. (रमणीय + टाप्) हि सृष्टिरेषा।
(क) रमणीयाः
(ख) रमणीयान्
(ग) रमणीया
(घ) रमणीयाम्

4. कष्टानि सहमानाः वीराः यशः प्राप्नुवन्ति।
(क) सह् + शानच्
(ख) सह + मानाः
(ग) सह + शानच्
(घ) सह + मान

प्रश्न 7:
अधोलिखितवाक्येषु मजूषायाम् प्रदत्तैः समुचितैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत। (1 × 4 = 4)
1. ये नित्यं सन्ध्यां कुर्वन्ति, तेषां चेतः …….. अस्थिरः न भवति।
(क) कदापि
(ख) बहिः
(ग) कुत्र
(घ) यदा

2. पठतः बालकान् ………. पीडय।
(क) इति
(ख) मा
(ग) यदा
(घ) कदा

3. …….. तु शिशवः अपि प्रबुद्धाः भवन्ति
(क) कदा
(ख) कुत्र
(ग) कुतः
(घ) सम्प्रति

4. त्वं ………. सत्संगतिः न इच्छसि ?
(क) यदा
(ख) तत्र
(ग) किमर्थम्
(घ) मा

प्रश्न 8:
वाच्यपरिवर्तनम् कृत्वा वाक्यानि पुनः लिखत ? (1 × 3 = 3)

  1. सर्पाः पवनं पिबन्ति।
  2. विद्या विनयं ददाति।
  3. जलं घटं पूरयति।

प्रश्न 9:
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संस्कृतपदैः समयं लिखत (1 × 2 = 2)

  1. सा (8.45) ………………. भोजनं पचति।
  2. सा (12.00) ………………. सत्सङ्गे गच्छति।

प्रश्न 10:
अधोलिखितवाक्येषु रेखाङ्कितपदं अशुद्धं अस्ति। प्रदत्तविकल्पेषु शुद्धं उत्तरं चित्वा वाक्यं पुनः उत्तरपुस्तिकायां लिखत। (1 × 4 = 4)
1. विद्यायै बुद्धिः उत्तमा।
(क) विद्यायाः
(ख) विद्या
(ग) विद्यायै
(घ) विद्यां

2. ये विचार्य कार्यं कुर्वन्ति ते एव सुखं लभते
(क) लभेते
(ख) लभन्ते
(ग) लभेतम्
(घ) लभेताम्

3. ग्रीष्मकाले ऊष्मया पर्णानि मलिनं भवन्ति।
(क) मलिनः
(ख) मलिनाः
(ग) मलिनानि
(घ) मलिना

4. पादपः सुखदु:खयोः अनुभूतिम् कुर्वन्ति।
(क) पादपं
(ख) पादपा
(ग) पादपान्
(घ) पादपाः

खण्डः ‘घ’- पठित-अवबोधनम्

प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि उत्तरपुस्तिकायाम् लिखत। (6)
अथ कदाचित् दानशालासु विचरन् स राजा बहुधनलाभेन सन्तुष्टानाम् अर्थिनां विरलसङ्ख्यां विलोक्य अचिन्तयत् ‘मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते । नूनं ते दानवीराः सौभाग्यशालिनः यान् याचकाः शरीरस्य अङ्गानि अपि याचन्ते ।’ एवं राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय सकलं ब्रह्माण्डं व्याकुलं सञ्जातम्।
(I) एकपदेन उत्तरत (1 × 2 = 2)

  1. कुत्र विचरन् राजा अचिन्तयत् ?
  2. के धनलाभमात्रेण सन्तोषं भजन्ते ?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
राजा किं विलोक्य अचिन्तयत् ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. ‘सन्तुष्टानाम् अर्थिनाम्’ अनयोः पदयोः किं विशेष्यपदम् ?
(क) सन्तुष्टानाम्
(ख) अर्थिनाम्
(ग) किमपि न

2. ‘भजन्ते’ क्रियायाः कर्ता कः ?
(क) अर्थिनः
(ख) मम
(ग) सन्तोष

3. ‘सम्पूर्णम्’ अस्मिन् अर्थे किं पदं गद्यांशे प्रयुक्तम् ?
(क) व्याकुलं
(ख) विज्ञाय
(ग) सकलम्

4. ‘दातारः’ पदस्य विलोमपदम् अत्र किम् ?
(क) अर्थिनाम्।
(ख) दानवीराः
(ग) अर्थिनः

(आ) श्लोकं पठित्वा प्रश्नान् उत्तरत।
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।।

(I) एकपदेन उत्तरत – (1 × 2 = 2)

  1. पिता पुत्राय विद्याधनं कदा ददाति ?
  2. पिता पुत्राय कीदृशं विद्याधनं यच्छति ?

(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
पुत्रः विद्यां प्राप्य किं अनुभवति ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. ‘विद्याधनं’ इति पदस्य विशेषणपदं श्लोकात् चित्वा लिखत।
(क) महत्
(ख) पुत्राय
(ग) महान्

2. ‘यच्छति’ इति क्रियापदस्य कर्तृपदं किं ?
(क) पुत्राय
(ख) महत्
(ग) पिता

3. ‘कृतघ्नता’ इति पदस्य किम् विलोमपदं अत्र प्रयुक्तम् ?
(क) कृतज्ञता
(ख) उक्तिः
(ग) तपस्तेपे

4. ‘अस्य’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) बाल्ये
(ख) पित्रे
(ग) पुत्राय

(इ) नाट्यांशं पठित्वा प्रश्नान् उत्तरत।
मयूरः    –   (प्रविश्य साट्टहासम्) सत्यं सत्यम्। अहमेव राष्ट्रपक्षी। को न जानाति तव ध्यानावस्थाम् ? मौनं धृत्वा वराकान् मीनान् छलेन अधिगृहय, क्रूरतया भक्षयसि । धिक् त्वाम् ! अवमानितं खलु सर्वं पक्षिकुलं त्वया।
काकः    –   रे सर्पभक्षक! नर्तनात् अन्यत् किम् अपरं जानासि?
मयूरः     –   श्रूयताम्, श्रूयताम् ! मम नृत्यं तु प्रकृतेः आराधना। पश्य! चारूवर्तुलचन्द्रिकाशोभितानाम् मम पिच्छानाम् अपूर्वं सौन्दर्यम् । मम केकारवं श्रुत्वा कोकिल: अपि लज्जते। मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एव अहं पक्षिराजः कृतः।

(I) एकपदेन उत्तरत – (1 × 2 = 2)

  1. कः राष्ट्रपक्षी ?
  2. किम् श्रुत्वा कोकिलः लज्जते ?

(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
विधात्रा मयूरः कथं पक्षिराजः कृतः ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. ‘लज्जते’ इति क्रियापदस्य कर्तृपदं किं ?
(क) कोकिलः
(ख) मन
(ग) केकारवं

2. ‘मम नृत्यं ……….’ इति वाक्यांशे ‘मम’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) कोकिलस्य
(ख) मयूराय
(ग) मयूरस्य

3. ‘वराकान्’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) त्वाम्
(ख) पक्षिराज:
(ग) मीनान्

4. ‘सर्पभक्षक’ इति पदस्य किम् पर्यायपदं अत्र प्रयुक्तम् ?
(क) काकः
(ख) मयूरः
(ग) पक्षिकुलं

प्रश्न 12:
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)

  1. अथ विस्मितः शक्रः अचिन्तयत्।
  2. भवान् मह्यम् द्रौणिम् अनुगन्तुम् अनुमतिं ददातु।
  3. राजा वैद्यान् आहूय अपृच्छत।
  4. चैत्रे मासे सूर्य उत्तरायणे भवति।

प्रश्न 13:
अधोलिखितश्लोकयोः अन्वयं श्लोकाभ्यां समुचितं पदं चित्वा पूरयत। (1/2 × 8 = 4)
(क) कस्य वशे प्राणिगण: ? सत्यप्रियभाषिणो विनीतस्य।
क्व स्थातव्यम् ? न्याय्ये पथि दृष्टादृष्टलाभाये।।
अन्वयः- कस्य वशे (1)………….? सत्यप्रियभाषिणः (2) …………., क्व (3) …………? दृष्ट-अदृष्टलाभाट्ये (4)…………पथि।

(ख) असंशयं महाबाहो! मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय, वैराग्येण च गृह्यते।
अन्वयः- महाबाहो! (1) ………….! असंशयं मनः (2) …………. चलम् (एतत्) तु (3) ……………… वैराग्ये ण च (4)…………………।।
मञ्जूषा – विनीतस्य, कौन्तेय, अभ्यासेन, प्राणिगणः, न्याय्ये, दुर्निग्रहं, स्थातव्यम, गृह्यते।

प्रश्न 14:
अधोलिखितानाम् पदानां उचितैः अर्थैः सह मेलनं क्रियताम्। (1 × 4 = 4)
1. सततम्
(क) एकशतम्।
(ख) एकलम्
(ग) निरनतरम्
(घ) स्थितम्

2. स्थितप्रज्ञः
(क) कथ्यते
(ख) पृथ्वीं
(ग) योगी
(घ) कल्याणम्

3. आहुः
(क) कल्याणाम्।
(ख) योगी
(ग) धरा
(घ) कथ्यते

4. केकारवं
(क) काकस्य स्वरः
(ख) मयूरस्य स्वरः
(ग) बकस्य स्वरः
(घ) राजहंसस्य स्वरः

उत्तराणि
खण्डः ‘क’ – अपठित अवबोधनम्

उत्तर 1:
(I) एकपदेन उत्तरत –

  1. एवरेस्टशिखरम्
  2. उल्लेखनीयानि

(II) पूर्णवाक्येन उत्तरत –

  1. आपत्काले येषां मनांसि विचलितानि न भवन्ति ते एव जीवने सफलता प्राप्नुवन्ति ।
  2. पुरुषार्थस्य अभावेन नरः सुखसमृद्धिम् आप्तुम् असमर्थः यशः च न प्राप्नोति।

(III) निर्देशानुसारम् उत्तरत –

  1. (ग) नरः
  2. (ग) प्राप्नुवन्ति
  3. (ख) कार्याणि
  4. (घ) पुरुषार्थः

(IV) शीर्षकः-
पुरुषार्थः (अन्यः कोऽपि)

खण्डः ‘ख’ – रचनात्मक कार्यम्

उत्तर 2:

  1. परमपूज्ये
  2. स्वास्थविषये
  3. विद्यालयस्य
  4. मम
  5. पुरस्कारम्
  6. अत्रागत्य
  7. भविष्यति
  8. विद्यालयं
  9. चरणेषु
  10. भवत्याः

उत्तर 3:
चित्रवर्णनम् –

  1. इदं राजमार्गस्य चित्रम् अस्ति।
  2. मार्गे एकः जनः द्विचक्रिकया गच्छति।
  3. द्विचक्रिकायाः अग्रे द्वे बालिके उपविशतः।
  4. द्विचक्रिकायाः पृष्ठे जनस्य पत्नी अस्ति।
  5. कन्यायाः हस्ते आतप-पत्रम् अपि अस्ति।

अथवा
(मम प्रातराशः)

  1. अहं प्रतिदिनं प्रातराशम् करोमि।
  2. प्रातराशे अहं दुग्धम् पिबामि ऋतु-अनुसारफलानि खादामि।
  3. मम प्रातराशं प्रातः काले माता सञ्जीकरोति।
  4. प्रातराशं सर्वेषां कृते आवश्यकम् अस्ति।
  5. प्रातराशेन शारीरिक-मानसिक-वृद्धिः भवति।

खण्डः ‘ग’ – अनुप्रयुक्तव्याकरणम्

उत्तर 4:

  1. परमापद्गतेन
  2. विद्यामानः + अस्य
  3. रजनी + ईशः
  4. विद्ध्येनम् ।

उत्तर 5:

  1. (ग) पीताम्बरः
  2. (घ) शक्तिम् अनतिक्रम्य
  3. (ग) युधिष्ठिरार्जुनौ
  4. (क) पङ्के जायते इति

उत्तर 6:

  1. (ख) पालनीयम्
  2. (क) क्रूरतया
  3. (क) रमणीया
  4. (क) सह् + शानच्

उत्तर 7:

  1. (क) कदापि
  2. (ख) मा
  3. (घ) सम्प्रति
  4. (ग) किमर्थम्

उत्तर 8:

  1. सर्वैः पवनः पीयते।
  2. विद्यया विनय: दीयते।
  3. जलेन घट: पूर्यते।

उत्तर 9:

  1. पादोननववादने
  2. द्वादशवादने

उत्तर 10:

  1. (क) विद्यायाः
  2. (ख) लभन्ते
  3. (ग) मलिनानि
  4. (घ) पादपाः

खण्डः ‘घ’ – पठित अवबोधनम्

उत्तर 11:
(अ)
(I) एकपदेन उत्तरत –

  1. दानशाल्बासु
  2. अर्थिनः

(II) पूर्णवाक्येन उत्तरत –
राजा बहुधनलाभेन सन्तुष्टानाम् अर्थिनाम् विरलसंख्यां विलोक्य अचिन्तयत्।

(III) निर्देशानुसारम् उत्तरत –

  1. (ख) अर्थिनाम्
  2. (क) अर्थिनः
  3. (ग) सकलम्
  4. (ग) अर्थिनः

(आ)
(I) एकपदेन उत्तरत –

  1. बाल्ये
  2. महत्

(II) पूर्णवाक्येन उत्तरत – पुत्रः विद्यां प्राप्य कृतज्ञतां अनुभवति।

(III) निर्देशानुसारम् उत्तरत –

  1. (क) महत्
  2. (ग) पिता
  3. (क) कृतज्ञता
  4. (ग) पुत्राय

(इ)
(I) एकपदेन उत्तरत –

  1. मयूरः
  2. केकारवं

(II) पूर्णवाक्येन उत्तरत – मयूरस्य शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवं मयूरः पक्षिराजः कृतः।

(III) निर्देशानुसारम् उत्तरत –

  1. (क) कोकिलः
  2. (ख) मयूराय
  3. (ग) मीना
  4. (ख) मयूरः

उत्तर 12:
प्रश्ननिर्माणम्

  1. कीदृशः
  2. कस्मै
  3. कान्
  4. कस्मिन्

उत्तर 13:
अन्वयः
(क)

  1. प्राणिगणः
  2. विनीतस्य
  3. स्थातव्यम्
  4. न्याय्ये

(ख)

  1. कौन्तेय
  2. दुर्निग्रहं
  3. अभ्यासेन
  4. गृह्यते

उत्तर 14:
शुद्धम् अर्थम्

  1. (ग) निरन्नतरम्।
  2. (ग) योगी
  3. (घ) कथ्यते
  4. (ख) मयूरस्य स्वरः

We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 3 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 3, drop a comment below and we will get back to you at the earliest.