CBSE Sample Papers for Class 10 Sanskrit Paper 1 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 1.
CBSE Sample Papers for Class 10 Sanskrit Paper 1
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 1 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 1 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
अवधि: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’- अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
महात्मनो बुद्धस्य शिष्यः आनन्दः आसीत् एकदा स: ग्रीष्मकाले मार्गे गच्छति स्म। सूर्यस्य आतपः तीव्रः आसीत्। सः पिपासाकुलः जलपानार्थम् इतस्ततः पश्यति स्म। किंचिद् दूरे सः एकाम् कन्याम् अपश्यत् । सो कुपात् जलं निष्कासयति स्म। आनन्दः तस्याः समीपम् अगच्छत् जलं च अयाचत । मातङ्गी प्रत्यवदत् – “नाहं जलं पाययितुं शक्नोमि यतः अहम् अपवित्रा अस्मि।” आनन्दोऽवदत् – “नाहं पवित्र-अपवित्रकुलो गणयामि।” यतः सर्वे जीवाः ईश्वरस्य अंशभूताः भवन्ति। मातङ्गी प्रसन्नमनसा स्वकीयघटात् जलम् अस्रावयत् आनन्दः यथेष्टं जलं पीतवान्। मातङ्गी बुद्धस्य समीपम् अगच्छत् । भगवान् बुद्धः तस्यै अमृततुल्यवचनैः उपदेशम् अयच्छत् । मातङ्गी ज्ञानं लब्धवा अभूतपूर्वी शान्तिं प्राप्तवती । नूनं कर्मणा एवं नरः उच्चः नीचः वा भवति।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- महात्मनः बुद्धस्य शिष्यस्य नाम किम् आसीत् ?
- आनन्दः काम् अपश्यत् ?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
- आनन्दः कुत्र अगच्छत् किं च अयाचत ?
- मातङ्गी किम् प्राप्तवती ?
(III) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा निर्देशानुसारम् लिखत। (1/2 × 4 = 2)
1. ‘अपश्यत्’ इति क्रियापदस्य किं कर्तृपदम् अत्र प्रयुक्तम् ?
(क) आनन्दः
(ख) मातङ्गी
(ग) बुद्धः
(घ) सूर्यः
2. ‘भानोः’ इति अर्थे किम् पदम् अत्र प्रयुक्तम् ?
(क) मार्गे
(ख) दूरे
(ग) बुद्धस्य
(घ) सूर्यस्य
3. नूनं कर्मणा एव नरः उच्चः नीचः वा भवति’।
अत्र ‘नरः’ पदस्य क्रिया पदम् किम् ?
(क) कर्मणा
(ख) भवति
(ग) उच्चः
(घ) नीचः
4. ‘आनन्दः तस्याः समीपम् अगच्छत् अत्र ‘तस्याः’ पदम् कस्मै प्रयुक्तम् ?
(क) कन्यायै
(ख) शिष्याय
(ग) बुद्धाय
(घ) नराय
(IV) अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (2)
खण्डः ‘ख’- रचनात्मक कार्यम्
प्रश्न 2:
भवान् नितिनः । मुम्बईदर्शनार्थम् अगच्छत् । पितरं प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तैः उचितपदैः पूरयित्वा पुनः लिखत। (1/2 × 10 = 5)
मुम्बईतः
दिनाङ्कः ……/ …../ ……
परमादरणीयाः पितृमहाभागाः
(1) ……….
वयं ह्यः एव (2)………… मुम्बईनगरं प्राप्तवन्तः । (3)………….. अपि मया प्रथमवारं दृष्टम् । सागरस्य (4) ………….. पुनः पुनः आगत्य तटं स्पृश्यते । सर्वत्र जलमेव दृश्यते । जले (5)……….. पोताः नौकाः च क्रीडनकानि इव प्रतीयन्ते। परश्वः (6) ………….. महाबलेश्वरं गमिष्यामः । इदं मुम्बईनगरस्य पर्वतस्थलं वर्तते । अस्माकं अध्यापकाः अति (7)…………. सन्ति । स्वानुभवान् तत्रागत्य एव (8)……… । जनन्यै (9)……….. च सादरं प्रणामः ।
भवताम् प्रियः पुत्रः
(10)………
मञ्जूषा – वाष्पयानेन, वयम्, तरन्तः, अग्रजाय, नमोनमः, स्नेहशीला:, लहरीभिः, श्रावयिष्यामि, नितिनः, समुद्रतटम्
प्रश्न 3:
मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखत। (2 × 5 = 10)
मञ्जूषा- क्रीडाप्रतियोगिता, निर्णायकः, दर्शकाः, तिष्ठन्ति, अग्रे बालिकाः, द्वारे, धावन्ति, करतलध्वनिना, उत्साहवर्धनम्, शिक्षिका, काचित्
अथवा
‘मम मातृभूमिः’ इति विषयम् अधिकृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृते लिखत।
मजूषा- पोषणम्, स्वर्गादपि, सत्यम्, मातृभूमिः, वन्दनीया, यच्छति, अहम्, माता, अस्माभिः, नमामि, सागरः, हिमालयः, रक्षति, चरणौ, प्रक्षालयति
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत। (1 × 4 = 4)
- उभौ + एव मित्रे आस्ताम्।
- वर्षर्ती मेघाः गर्जन्ति।
- भवत् + मनोरथं पूरयित्वा आत्मानम् अनुगृहीतं कर्तुम् इच्छामि।
- मम अर्थिनस्तु धनलाभमात्रेण संतोष भजन्ते।
प्रश्न 5:
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
1. सर्वेषामेव महत्त्वं विद्यते समयम् अनतिक्रम्य।
(क) अनतिक्रम्य समयेन
(ख) समयानुसारेण
(ग) यथासमयम्
(घ) यथासमयात्
2. अये! कथं श्रीकृष्णार्जुनौ युधिष्ठिरः च।
(क) श्रीकृष्णः च अर्जुनः च
(ख) श्रीकृष्णौ अर्जुनौ च
(ग) श्रीकृष्णः अर्जुनौ च
(घ) श्रीकृष्णम् अर्जुनं च
3. दुष्टा बुद्धिः यस्य सः सर्वचनानि तिरस्कृत्य प्राचलत्।
(क) दुष्टाबुद्धिः
(ख) बुद्धिरहितः
(ग) बुद्धिमन्तः
(घ) दुष्टबुद्धिः
4. स: वाचि पटुः नेता अस्ति।
(क) वाच्पटुः
(ख) वाणिपटुः
(ग) वाक्पटुः
(घ) वाचिपटुः
प्रश्न 6:
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं लिखत। (1 × 4 = 4)
- तौ मार्गे क्रीड् + शतृ बालकान् अपश्यताम्।
- प्रयतमानाः जनाः साफल्यं प्राप्नुवन्ति।
- काव्यस्य मधुरत्वम् सहृदयाः जानन्ति।
- अस्याः अनुज + टाप् दीपिका अस्ति।
प्रश्न 7:
मजूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत। (1 × 4 = 4)
भाविकः – यूयं सर्वे : ……………… गच्छ थ?
भव्या – वयं गृहात् ………… गच्छामः।
भाविकः – तत्र …………….. गच्छथ?
भव्या – अस्माकं मित्राणि …………. खेलन्ति तत्रैव वयं गच्छामः।
मञ्जूषा – कुत्र, यत्र, बहिः, किमर्थम्
प्रश्न 8:
वाच्यपरिवर्तनम् कृत्वा वाक्यानि पुनः लिखत – (1 × 3 = 3)
- सर्वे गीतां पठन्ति।
- जनैः तत्र स्थीयते।
- सिंहः उच्चैः गर्जति
प्रश्न 9:
अधोलिखितवाक्येषु अङ्कानां स्थाने संस्कृतपदैः समयं लिखत – (1 × 2 = 2)
- अहं प्रातः (6.30) ……….. उत्तिष्ठामि।
- अहं (7.15) …………… विद्यालयं गच्छामि।
प्रश्न 10:
विकल्पानां सहायतया अशुद्धवाक्यानां संशोधनं कृत्वा पुनः लिखत। (1 × 4 = 4)
1. श्वः मम विद्यालये उत्सवः आसीत्।
(क) अद्य
(ख) ह्यः
(ग) अधुना
(घ) परश्वः
2. अनेकानि अतिथयः आगच्छन्।
(क) अनेके
(ख) अनेकाः
(ग) अनेकम्
(घ) अनेकानि
3. ते कार्यक्रमं दृष्ट्वा प्रसन्नम् आसन्।
(क) प्रसन्नः
(ख) प्रसन्नाः
(ग) प्रसन्नौ
(घ) प्रसन्नम्
4. अहं मित्रैः सह तत्र अगच्छत् ।
(क) अगच्छन्।
(ख) अगच्छाम
(ग) अगच्छम्
(घ) अगच्छः
खण्डः ‘घ’-पठित-अवबोधनम्
प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि उत्तरपुस्तिकायाम् लिखत। (6)
पर्यटनाधिकारी – साधु पृष्टम् । अत्र अनेके प्रमुखोत्सवाः। ‘वाङ्चो’ जनजातीनां प्रमुख पर्व’ ओरिया’ इति अस्ति। एतत् तु ‘फरवरी’ इति मासे मान्यते। अस्मिन् अवसरे कृषिभूमिपूजन सेतुनिर्माणं च सामाजिक कार्य क्रियते। ‘मोपीन’ इति अपि कृषिपर्व अस्ति। देवानामपि देवः ‘मोपीन’ इति कथ्यते। ‘होली’ सदृशम् एव पर्व इदम्।
(I) एकपदेन उत्तरत – (1 x 2 = 2)
- ‘ओरिया’ केषां जनजातीनां प्रमुख पर्व अस्ति?
- ‘मोपीन’ पर्व कीदृशं पर्व वर्तते ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
‘ओरिया’ पर्वणि कानि सामाजिकानि कार्याणि क्रियन्ते ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. ‘अत्र अनेके प्रमुखोत्सवाः।’ इत्यस्मिन् वाक्ये ‘अत्र’ इति पदम् कस्मै प्रयुक्तः ?
(क) भारताय
(ख) विदेशाय
(ग) अरुणाचल प्रदेशाय
2. गद्यांशे ‘उत्सवः’ इति पदस्य कः पर्यायः अत्र प्रयुक्तः ?
(क) कार्यम्
(ख) पर्व
(ग) निर्माणम्
3. ‘अस्ति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) प्रमुखम्
(ख) वाचो
(ग) पर्व
4. गद्यांशे ‘कार्यम्’ इति पदस्य विशेषणपदं किम् ?
(क) सामाजिकम्
(ख) सेतुनिर्माणम्
(ग) भूमिपूजनम्
(आ) श्लोकं पठित्वा प्रश्नान् उत्तरत।
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- स्वाध्यायः अपि किम् ?
- अनुद्वेगकरं किं भवेत् ?
(II) पूर्णवाक्येन उत्तरत – (1 x 2 = 2)
कीदृशं वाक्यं वाङ्मयं तपः उच्यते ?
(III) निर्देशानुसारम् उत्तरत – (1/2 x 4= 2)
1. अस्मिन श्लोके ‘वाङ्मयम्’ पदस्य अर्थः अस्ति?
(क) साहित्यम्
(ख) वैदिकम्
(ग) वाचिकम्
2. ‘उद्वेगकरं’ अस्य विपर्ययः अत्र किम् ?
(क) वाक्यम्
(ख) अनुद्वेगकरम्
(ग) प्रियहितम्
3. ‘उच्यते’ क्रियायाः कर्तृपदं किम् ?
(क) तपः
(ख) वाह्नयं
(ग) अभ्यसनं
4. ‘प्रियहितं’ इति विशेषणपदस्य अत्र किम् विशेष्यपदं प्रयुक्तम् ?
(क) तपः
(ख) वाक्यम्
(ग) सत्यम्।
(इ) नाट्यांशं पठित्वा प्रश्नान् उत्तरत।
काकः – रे सर्पभक्षक! नर्तनात् अन्यत् किम् अपरं जानासि?
मयूरः – श्रूयताम् श्रूयताम् । मम नृत्यं तु प्रकृतेः आराधना। पश्य, मम केकारवं श्रुत्वा कोकिलः अपि लज्जते। चारुवर्तुलचन्द्रिकाशोभितानाम् मम पिच्छानाम् अपूर्वं सौन्दर्यम्। मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्री एव अहं पक्षिराजः कृतः।
कोकिलः – (प्रविश्य) रे मयूर ! अलं अतिविकत्थनेन। मधुमासे आम्रवृक्षे स्थित्वा यदा अहं पञ्चमस्वरेण गायामि तदा श्रोतारः कथयन्ति।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- कस्य शिरसि राजमुकुटम् इव शिखा भवति ?
- सर्पभक्षकः कः अस्ति?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
कोकिल: किमर्थम् लज्जते ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. ‘आत्मश्लाघया’ इति कस्य पदस्य पर्यायः अस्ति?
(क) आराधना
(ख) केकारवः
(ग) अतिविकत्थनेन
2. ‘गायामि’ इति क्रियापदस्य कर्तृपद किं ?
(क) कोकिलः
(ख) काकः
(ग) अहम्
3. ‘मम पिच्छानाम्’ अत्र ‘मम’ इति सर्वनामपदस्य स्थाने संज्ञापदं किम् भविष्यति ?
(क) मयूरः
(ख) कोकिलः
(ग) मयूरस्य
4. ‘निर्गत्य’ इति पदस्य विपरीतार्थकं पदं किं?
(क) स्थित्वा
(ख) प्रविश्य
(ग) गत्य
प्रश्न 12:
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)
- भीमः एकाकी एव द्रोणपुत्राय अलम्।
- एकस्मिन् वर्षे चतुर्विंशतिः पक्षाः।
- तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
- पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति।
प्रश्न 13:
मजूषायाः सहायता अन्वये उचितपदैः रिक्तस्थानपूर्तिः क्रियताम्। (1/2 × 8 = 4)
(क) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत् ।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।।
अन्वयः- पिता (1) ……….. बाल्ये महत् (2) ………. यच्छति। अस्य पिता किं (3) ………… इति (4) …………….. तत्कृ तज्ञता।
(ख) शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात्।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः।
अन्वयः- यः शरीरविमोक्षणात् (1) ……………. कामक्रोधोद्भवं (2) …………….। इह एव (3) …………शक्नोति, स: नरः (4) ………. सः सुखी (भवति)।
मञ्जूषा- विद्याधनं, प्राक्, युक्तः, पुत्राय, वेगं, सोढुं, तपः, उक्तिः।
प्रश्न 14:
रेखाङ्कितपदानां प्रसङ्गानुसारम् शुद्धम् अर्थं विकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
1. आपदां तरणिः धैर्यम्।
(क) तारकाः
(ख) नद्यः
(ग) नौका
2. समन्तात् वर्धमानाः अनलशिखाः आकाशं लिहन्ति।
(क) परितः
(ख) सामान्यतः
(ग) उभयतः
3. लोके चक्षुर्दानं दुष्करं एव।
(क) सरलम्
(ख) निर्दयम्
(ग) कठिनम्
4. आचार्यात् पादम् आदत्ते।
(क) चरणम्
(ख) पदम्
(ग) चतुर्थाशंम्
उत्तराणि
खण्डः ‘क’ – अपठित-अवबोधनम्
उत्तर 1:
(I) एकपदेन उत्तरत –
- आनन्दः
- कन्याम्
(II) पूर्णवाक्येन उत्तरत –
- आनन्दः कन्यायाः समीपम् अगच्छत्, जलं च अयाचत।
- मातङ्गी ज्ञानं लब्धवा अभूतपूर्वी शान्तिं प्राप्तवती।
(II) निर्देशानुसारम् उत्तरत –
- (क) आनन्दः
- (घ) सूर्यस्य
- (ख) भवति
- (क) कन्यायै
(IV) शीर्षकः-
सर्वे जीवाः ईश्वरस्य अंशभूताः (अन्यः कोऽपि)
अथवा
नरः उच्चः नीचः वा कर्मणा एव भवति।
खण्डः ‘ख’ – रचनात्मक कार्यम्
उत्तर 2:
- नमोनमः
- वाष्पयानेन
- समुद्रतटम्
- लहरीभिः
- तरन्तः
- वयम्
- स्नेहशीलाः
- श्रावयिष्यामि
- अग्रजाय
- नितिनः
उत्तर 3:
चित्रवर्णनम् –
- इदं चित्रं विद्यालयक्रीडाक्षेत्रस्य अस्ति।
- अत्र धावनस्य क्रीडाप्रतियोगिता भवति।
- अत्र चतस्रः बालिकाः धावन्ति।
- निर्णायकः ताः बालिकाः ध्यानेन पश्यति।
- दर्शकाः करतलध्वनिना उत्साहवर्धनं कुर्वन्ति।
अथवा
( मम मातृभूमिः )
- भारतम् अस्माकं मातृभूमिः अस्ति।
- मातृभूमिः अपि माता इव वन्दनीया भवति।
- मातृभूमिः अस्माकं पोषणम् अपि करोति।
- हिमालयः अस्याः रक्षां करोति सागरः चरणौ च प्रक्षालयति।
- अस्माभिः प्राणपणेन अस्याः रक्षा करणीया।
खण्डः ‘ग’ – अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- उभावेव
- वर्षा + ऋतौ
- भवन्मनोरथं
- अर्थिनः + तु
उत्तर 5:
- (ग) यथासमयम्।
- (क) श्रीकृष्णः च अर्जुनः च
- (घ) दुष्टबुद्धिः
- (ग) वाक्पटुः
उत्तर 6:
- क्रीडतः
- प्र + यत् + शानच्
- मधुर + त्व
- अनुजा
उत्तर 7:
- कुत्र।
- बहिः
- किमर्थम्
- यत्र
उत्तर 8:
- सर्वे: गीता पठयते।
- जनाः तत्र तिष्ठन्ति।
- सिंहेन उच्चैः गर्जयते।
उत्तर 9:
- सार्धषड्वादने
- सपादसप्तवादने
उत्तर 10:
- (ख) ह्यः
- (क) अनेके
- (ख) प्रसन्नाः
- (ग) अगच्छम्।
खण्डः ‘घ’ – पठित-अवबोधनम्
उत्तर 11:
(अ)
(I) एकपदेन उत्तरत –
- वाङ्चो
- कृषिपर्व
(II) पूर्णवाक्येन उत्तरत – ओरिया पर्वणि कृषिभूमिपूजनं सेतुनिर्माणं च सामाजिकानि कार्याणि क्रियन्ते।
(III) निर्देशानुसारम् उत्तरत –
- (ग) अरुणाचल प्रदेशाय
- (ख) पर्व
- (ग) पर्व
- (क) सामाजिकम्
(आ)
(I) एकपदेन उत्तरत-
- तपः
- वाक्यं
(II) पूर्णवाक्येन उत्तरत – अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं वाङ्मयं तपः उच्यते।
(III) निर्देशानुसारम् उत्तरत –
- (ग) वाचिकम्
- (ख) अनुद्वेगकरं
- (क) तपः
- (ख) वाक्यम्
(इ)
(I) एकपदेन उत्तरत–
- मयूरस्य
- मयूरः
(II) पूर्णवाक्येन उत्तरत – मयूरस्य केकारवं श्रुत्वा कोकिल: लज्जते।
(III) निर्देशानुसारम् उत्तरत –
- (ग) अतिविकत्थनेन
- (ग) अहम्।
- (ग) मयूरस्य
- (ख) प्रविश
उत्तर 12:
प्रश्ननिर्माणम्
- कस्मै
- कति
- केन
- कदा
उत्तर 13:
अन्वयः
(क)
- पुत्राय
- विद्याधनम्
- तपः
- उक्तिः
(ख)
- प्राक्
- वेगम्
- सोढुम्
- युक्तः
उत्तर 14:
शुद्धम् अर्थम्
- (ग) नौका
- (क) परितः
- (ग) कठिनम्
- (ग) चतुर्थांशम्
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 1 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 1, drop a comment below and we will get back to you at the earliest.