CBSE Sample Papers for Class 10 Sanskrit Paper 2 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 2.

CBSE Sample Papers for Class 10 Sanskrit Paper 2

Board CBSE
Class X
Subject Sanskrit
Sample Paper Set Paper 2
Category CBSE Sample Papers

Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 2 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.

समय: होरात्रयम्
पूर्णाङ्काः 80

निदेशाः

  1. प्रश्नपत्रं चत्वारः खण्डाः सन्ति
    • खण्ड: (क) अपठित-अवबोधनम्     10 अङ्कः
    • खण्ड: (ख) रचनात्मकं-कार्यम्        15 अङ्काः
    • खण्ड: (ग) अनुप्रयुक्तव्याकरणम्     25 अङ्काः
    • खण्डः (घ) पठित-अवबोधनम्         30 अङ्काः
  2. सर्वे प्रश्नाः अनिवार्याः।
  3. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
  4. प्रश्नसंख्या अवश्यमेव लेखनीया।
  5. उत्तराणि संस्कृतेनैव लेखनीयानि।

खण्डः ‘क’ – अपठित-अवबोधनम्

प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
कालिदासस्य नाम को न जानाति । महाकवेः न केवलं भारतवर्षे अपितु समस्ते भूतले महती प्रसिद्धिः। अयं हि कविकुलगुरुः कथ्यते। आंग्ल देशवासिनः तं ‘‘शेक्सपीयर” इति कथयन्ति। इटली देशवासिनः तस्य तुलनां स्वकीय दान्ते सह कुर्वन्ति। जर्मनी देशवासिनः तु तम् विश्वकविं स्वीकुर्वन्ति।

एषः कविः कदा कुत्र च अभवत् इति स्पष्टरूपेण कथयितुं न शक्नुमः। परमेतत् कथ्यते यत् अयम् महाराजस्य विक्रमादित्यस्य नवरत्नेषु सर्वश्रेष्ठः कविः आसीत्। अस्य महाकवेः विषये एका जनश्रुतिः श्रुती यत् सः जन्मना महामूर्खः आसीत्। केचित् धूर्ताः पण्डिताः तस्य विवाह कयापि विदुष्या राजकन्यया सह अकारयन्।

अस्य कृतीनां भाषा तु अतीव सरला, सुकोमला स्वाभाविकी चास्ति। कालिदासः संस्कृतभाषायाः गौरवम्, भारतस्य कवीनां गौरवम् भारतीय संस्कृतेः च गौरवम् अस्ति।

(I) एकपदेन उत्तरत – (1 × 2 = 2)

  1. के कालिदास ‘शेक्सपीयर’ इति कथयन्ति?
  2. कालिदासः कस्य नवरत्नेषु गण्यते?

(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)

  1. कालिदासस्य कृतीनां भाषा कीदृशी अस्ति?
  2. महाकवेः विषये कीदृशी जनश्रुतिः वर्तते ?

(III) प्रदत्तविकल्पेभ्यः शुद्धम् उत्तरं चित्वा निर्देशानुसारम् लिखत। (1/2 × 4 = 2)
1. ‘अकारयन्’ इति क्रियापदस्य किं कर्तृपदम्?
(क) आंग्लदेशवासिनः
(ख) इटलीदेशवासिनः
(ग) पण्डिताः
(घ) विक्रमादित्यः

2. ‘प्रसिद्धिः’ इति पदस्य किं विशेषणपदं गद्यांशे किम् प्रयुक्तम्?
(क) कालिदासः
(ख) संसारे
(ग) गौरवम्
(घ) महती

3. किंवदन्ती’ इति पदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम् ?
(क) स्वीकुर्वन्ति
(ख) कथयन्ति
(ग) जनश्रुतिः
(घ) प्रसिद्धिः

4. ‘अयम् महाराजस्य ………..’ इति वाक्ये ‘अयम्’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) विक्रमादित्याय
(ख) भारतदेशाय
(ग) नवरत्नेभ्यः
(घ) कालिदासाय

(IV) अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत। (2)

खण्ड’ख’- रचनात्मक कार्यम्

प्रश्न 2:
तव मित्रेण अमितेन रचिता प्रतिकृतिः ( मॉडल) अन्तर्राष्ट्रिय-विज्ञान-प्रदर्शन्याम् प्रथमं स्थानं लब्धवती। तं प्रति लिखितं वर्धापन-पत्रं मञ्जूषायां प्रदत्तानि पदानि चित्वा रिक्त-स्थानानि पूरयित्वा पुनः लिखत। (1/2 × 10 = 5)
स्नेह-नगरम्
पाटलिपुत्रात्
दिनाङ्कः ……/ ……./ …….
प्रियः (1)…………. अमित,
सस्नेहं नमोनमः।
अत्र कुशलम् तत्रास्तु । मया ज्ञातम्, यत् त्वया रचिता (2)………. अंतर्राष्ट्रिय-विज्ञान-प्रदर्शन्याम् चयिता । अस्याम् प्रतियोगितायाम् तव (3) ………… स्थानं ज्ञात्वा मम महान् (4) ………….. जातः। त्वं दत्तचित्तेन (5) ……………. च इमाम् कारितवान् । इदं तव कठोर परिश्रमस्य (6) ……………. अस्ति। पत्रस्यान्ते अहं ते (7) ……………… वर्धापनं कामये। (8) ……… मम प्रणामाः (9) ……….
तव अभिन्नं (10) ……….
अमरः
मञ्जूषा- मित्रम्, मित्र, परिणामः, प्रतिकृतिः, भूयोभूयः, सन्तोषः, परिश्रमेण, पितृचरणेषु, निवेद्यन्ताम्, प्रथम

प्रश्न 3:
मजूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखत। (2 x 5 = 10)
CBSE Sample Papers for Class 10 Sanskrit Paper 2 Q.3
मजूषा- ग्राम्यजीवनम्, खटिका, त्रयः बालाः, शिरसि, माता, जलमानेतुम् उद्यता, कुटीरम्, कठिनम् जीवनम्, अशिक्षिताः, निर्धनाः, कलशम् अवधार्य, ग्रामीणपरिवारः, संघर्षमय

अथवा

‘कन्याकुमारी’ इति विषयम् अधिकृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृते लिखत।
मञ्जूषा- दर्शनीयस्थलम्, कन्याकुमारीमन्दिरम्, विवेकानन्दस्मारकः, दर्शकाः, प्रसिद्ध-पर्यटन-क्षेत्रेषु, द्रष्टुम्, अन्यतमम्, द्रष्टव्यः, दृश्यन्ते, नारिकेल-कदली-वृक्षाः

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्.

प्रश्न 4:
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिविच्छेदं सन्धिं वा कृत्वा लिखत। (1 × 4 = 4)

  1. दुष्टबुद्धिः तस्य सत् + वचनानि तिरस्कृत्य ग्रामाभिमुखं प्राचलत्।
  2. सर्वथा जागरुको + अहम् छात्राणां कृते आदर्शः एव।
  3. अस्य पिता किं तपः तेपे इत्युक्तिः तत्कृतज्ञता।
  4. सदैव सत्यं वद।

प्रश्न 5:
अधोलिखित रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
1. शिशिरः च वसन्तः च पुनरायातौ।
(क) शिशिरवसन्तः
(ख) शिशिरवसन्तौ
(ग) शिशिरवसन्ताः
(घ) शिशिरवसन्तम्

2. कथम् अहं मन्दभाग्या धैर्यं धारयामि।
(क) मन्दः भाग्या
(ख) मन्दं भाग्यं सा
(ग) मन्दम् भाग्यम् यस्याः सा
(घ) मन्दा भाग्या

3. जीवनं निर्विघ्नं भवेत्।
(क) विघ्नानां अभाव:
(ख) निर्गतम् विघ्नं यस्मात् सः
(ग) निर्गतं विघ्नं तम्।
(घ) निः विघ्नं यस्मात्

4. व्याघ्रात् भीतः नरः धावति।
(क) व्याघ्रभीत:
(ख) व्याघ्रभीत:
(ग) व्याघ्रभीताः
(घ) भीतव्याघ्रः

प्रश्न 6:
उचितानि प्रत्यययुक्तपदानि प्रकृतिं प्रत्ययं च चित्वा वाक्यानि पूरयत। (1 × 4 = 4)
1. पवनेन (कम्प् + शानच्) ………. वृक्षाः शोभन्ते।
(क) कम्पमाना
(ख) कम्पमानः
(ग) कम्पमानाः
(घ) कम्पमानम्

2. (श्रीमान् + ङीप्) …………. वन्दिता कक्षायां पाठयति।
(क) श्रीमति
(ख) श्रीमती
(ग) श्रीमता
(घ) श्रीमन्ती

3. सर्वे भवन्तु (सुख + इनि) ………… ।
(क) सुखी
(ख) सुखिनः
(ग) सुखीन:
(घ) सुखनी

4. भीमः (बलवान्) …………. आसीत्।
(क) बल + मतुप्
(ख) बल + वतुप्
(ग) बल + मान्
(घ) बलवान्

प्रश्न 7:
मजूषातः उचित अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत। (1 × 4 = 4)

  1. त्वं ………… आपणं गच्छसि ?
  2. भवन्तः व्यर्थं ………….. भ्रमन्तु।
  3. ………….. जलं भवति तत्र पक्षिणः स्वयम् आयान्ति।
  4. …………. अहं गृहकार्याणि करोमि।

मञ्जूषा– मा, सम्प्रति, कदा, यत्र

प्रश्न 8:
वाच्यपरिवर्तनम् कृत्वा वाक्यानि पुनः लिखत – (1 × 3 = 3)

  1. अशोकः लेखं लिखति।
  2. दिनेशः जनकं प्रणमति।
  3. अम्बी ओदनं पचति।

प्रश्न 9:
अधोलिखितवाक्येषु अङ्कानां स्थाने संस्कृतपदैः समयं लिखत – (1 × 2 = 2)

  1. सः (7.30) …………. दुग्धं पिबति ।
  2. सः (7.45) ………… विद्यालयं गच्छति।

प्रश्न 10:
प्रदत्तेषु उत्तरेषु शुद्धम् उत्तरं चीयताम्। (1 × 4 = 4)
1. भवान् कुत्र गच्छसि ?
(क) गच्छथ
(ख) गच्छन्ति
(ग) गच्छति
(घ) गच्छथः

2. अहं स्वकर्मं सदा निष्ठया करोमि।
(क) स्वकर्मणे
(ख) स्वकर्मः
(ग) स्वकर्म
(घ) स्वकर्मणः

3. सः बालिका मम पुत्री अस्ति।
(क) तत्
(ख) सा
(ग) ते
(घ) तस्याः

4. तस्याः प्रकृतिः चञ्चलः अस्ति।
(क) चञ्चलम्
(ख) चञ्चलिः
(ग) चञ्चली
(घ) चञ्चला

खण्डः ‘घ’ – पठित-अवबोधनम्

प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखते। (6)
अथ अन्यस्मिन् अहनि स मेषो यावत् महानसं प्रविशति तावत् सूपकारेण अर्धज्वलितकाष्ठेन ताडितः। ऊर्णाप्रचुरः मेष: वह्मिना जाज्वल्यमानशरीरः निकटस्थाम् अश्वशालां प्रविशति दाहवेदनया च भूमौ लुठति। तस्य क्षितौ प्रलुठतः तृणेषु वह्निज्वालाः समुत्थिताः।
(I) एकपदेन उत्तरत – (1 × 2 = 2)

  1. मेषः कीदृशः आसीत् ?
  2. सूपकारेण मेषः केन ताडितः ?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
मेषस्य क्षितौ प्रलुठतः किम् अभवत् ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
‘भूमौ’ पदस्य पर्याय अत्र किम् ?
(क) अश्वशाला
(ख) प्रलुठतः
(ग) क्षितौ

2. ‘लुठति’ क्रियाया कर्ता कः ?
(क) मेषः
(ख) ऊर्णाप्रचुरः
(ग) जाज्वल्यमानशरीरः

3. ‘रात्रौ’ पदस्य विलोमपदम् अत्र अस्ति –
(क) महानसं
(ख) अहनि
(ग) अन्यस्मिन्

4. ‘तस्य’ सर्वनाम कस्मै प्रयुक्तम् ?
(क) मेषाय
(ख) ऊर्णाप्रचुराय
(ग) अश्वशालायै

(आ) श्लोकं पठित्वा प्रश्नान् उत्तरत। (6)
भगवन्किमुपादेयम् ? गुरुवचनम्, हेयमपि च किम् ? अकार्यम्।
को गुरुः ? अधिगततत्त्वः शिष्यहितायोद्यतः सततम्।

(I) एकपदेन उत्तरत – (2)

  1. किं हेयं भवति ?
  2. कस्य वचनम् उपादेयं भवति ?

(II) पूर्णवाक्येन उत्तरत – (2)
गुरुः कः अस्ति?

(III) निर्देशानुसारम् उत्तरत – (2)
1. ‘निरन्तरम्’ इति अर्थे किं पदं श्लोके प्रयुक्तम् ?
(क) अधिगततत्त्वः
(ख) अकार्यम्
(ग) सततम्

2. ‘उपादेयम्’ पदस्य विलोमपदम् अत्र किम् ?
(क) उद्यतः
(ख) हेयम्
(ग) सततम्

3. ‘तत्परः’ पदस्य पर्यायपदम् अत्र किम् ?
(क) उद्यतः
(ख) तत्त्वः
(ग) वचनम्

4. ‘अधिगततत्त्व:’ विशेषणस्य विशेष्यपदम् अत्र किम्?
(क) गुरुवचनम्
(ख) गुरुः
(ग) उद्यतः

(इ) अधोलिखितां नाट्यांशं पठित्वा प्रश्नान् उत्तरत। (6)
(ततः पुत्रशोकसन्तप्ताः युधिष्ठिरः भीमः द्रौपदी च रणभूमौ प्रविशन्ति ।)
द्रौपदी      – (दीर्घ निश्वस्य) हा हन्त ! किम् इदं घोरम् आपतितम् । पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः। अग्निः इव दहति माम् अयं शोकः।
युधिष्ठिरः   – शुभे! धैर्यं धारय। नूनं तव पुत्राः वीरगतिम् एव प्राप्ताः। वीरजननी त्वं शोचितुं न अर्हसि।
द्रौपदी      – कथं मन्दभाग्या अहं धैर्यं धारयामि? यावत् असौ क्रूरकर्मा न दण्ड्यते तावत् अहम् इतः न गमिष्यामि, अत्रैव प्राणत्यागं च करिष्यामि।
युधिष्ठिरः    – प्रिये ! मा मैवं ब्रूयाः । स पापकर्मा कुत्र गतः, इति न जानीमः। अतिदूरं किञ्चिद् दुर्गमं वनं वा प्रविष्टः भवेत्।

(I) एकपदेन उत्तरत – (2)

  1. युधिष्ठिरः भीम: द्रौपदी च कुत्र प्रविशन्ति ?
  2. कस्याः पुत्राः भ्रातरः च हताः?

(II) पूर्णवाक्येन उत्तरत – (2)
द्रौपदी कदा पर्यन्तं तस्मात् स्थानात् गन्तुं न इच्छति ?

(III) निर्देशानुसारम् उत्तरत – (2)
1. यावत् असौ क्रूरकर्मा ………. अत्र ‘असौ सर्वनाम कस्मै प्रयुक्तम् ?
(क) युधिष्ठिराय
(ख) द्रौपद्यै
(ग) द्रोणपुत्राय

2. ‘वनं’ पदस्य विशेषणम् अत्र किम् ?
(क) अतिदूरं
(ख) दुर्गम
(ग) किञ्चिद्

3. ‘धारयामि’ क्रियायाः कर्ता कः?
(क) अहं
(ख) मन्दभाग्या
(ग) धैर्यम्

4. ‘अनलः’ पदस्य पर्यायपदम् अत्र किम् अस्ति?
(क) शोकः
(ख) अग्निः
(ग) घोरम्

प्रश्न 12:
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)

  1. भवान् गर्हितं पन्थानं त्यजतु।
  2. अनृतं वदसि चेत् काकः दशेत्।
  3. यूयं प्रक्षेपणयन्त्रेण चित्राणि पश्यथ।
  4. छात्रा: जलपानाद् अनन्तरं यास्यन्ति।

प्रश्न 13:
उचितपदेन अधोलिखितश्लोकद्वयस्य अन्वयं पूरयत। (1/2 × 8 = 4)
(क) यत्प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः।।
अन्वयः- येन (1)………… अपि यत् प्रोक्तं तस्य (2)………. येन कर्तुं (3)………. भवेत् सः (4) ……….. इति ईरितः।

(ख) ध्यायतः विषयान् पुंसः सङ्गस्तेषूपजायते।
सङ्गात्सञ्जायते कामः कामाक्रोधोऽभिजायते।
अन्वयः- विषयान् (1) …………….. पुंसः तेषु (2) ……….. उपजायते । (3) ……………. कामः सञ्जायते, कामात् (4) …………….. अभिजायते।।
मञ्जूषा – शक्यः, तत्वार्थनिर्णय, क्रोधः, सङ्गः, केन, विवेकः, सङ्गात्, ध्यायतः

प्रश्न 14:
रेखाङ्कितपदानां प्रसङ्गानुसारम् शुद्धम् अर्थं विकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
1. एनं ज्ञानविज्ञाननाशनं प्रजहि
(क) नाशय
(ख) प्रविश्य
(ग) गच्छ

2. अलं अलं मिथः कलहेन।
(क) समीपम्
(ख) परस्परम्
(ग) दूरम्

3. से विवेक इति ईरितः
(क) मानितः
(ख) प्रेरितः
(ग) कथितः

4. शैला: विर्दीयन्ते।
(क) शिलाः
(ख) गिरयः
(ग) धराः

उत्तराणि
खण्डः ‘क’ – अपठित-अवबोधनम्

उत्तर 1:
(I) एकपदेन उत्तरत –

  1. आंग्लदेशवासिनः
  2. विक्रमादित्यस्य

(II) पूर्णवाक्येन उत्तरत –

  1. कालिदासस्य कृतीनां भाषा तु अतीव सरला, सुकोमला स्वाभाविकी चास्ति।
  2. महाकवेः विषये एका जनश्रुतिः श्रुता, यत् सः जन्मना महामूर्खः आसीत्।

(III) निर्देशानुसारम् उत्तरत –

  1. (ग) पण्डिताः
  2. (घ) महती
  3. (ग) जनश्रुतिः
  4. (घ) कालिदासाय

(IV) शीर्षकः- कविकुलगुरु: कालिदासः (अन्यः कोऽपि)

खण्डः ‘ख’ – रचनात्मक कार्यम्

उत्तर 2:

  1. मित्र
  2. प्रतिकृतिः
  3. प्रथमं
  4. सन्तोषः
  5. परिश्रमेण
  6. परिणामः
  7. भूयोभूयः
  8. पितृचरणेषु
  9. निवेद्यन्ताम्
  10. मित्रम्

उत्तर 3:
चित्रवर्णनम् –

  1. अस्मिन् चित्रे ग्राम्यजीवनम् दृश्यते।
  2. अत्रे घासनिर्मितं कुटीरम् अस्ति।
  3. एक: बालः पितुः अङ्के तिष्ठति। अथवा परिवारे पञ्च सदस्याः सन्ति।
  4. महिला कलशम् अवधार्य जलम् आनेतुम् उद्यता अस्ति।
  5. कुटीरात् बहिः एका खटिका अपि अस्ति।

अथवा
(कन्याकुमारी)

  1. ‘कन्याकुमारी’ एकं दर्शनीय स्थलम् अस्ति।
  2. अत्र एकं ‘कन्याकुमारी’ इति मन्दिरम् अस्ति।
  3. अत्र सागरस्य मध्ये विवेकानन्दस्मारकः अस्ति।
  4. इदं स्थलं दर्शनाय दर्शकाः आगच्छन्ति।
  5. इदं प्रसिद्ध-पर्यटन-क्षेत्रेषु अन्यतमम् स्थलम् अस्ति।

खण्डः ‘ग’ – अनुप्रयुक्तव्याकरणम्

उत्तर 4:

  1. सद्वचनानि
  2. जागरुकोऽहम्
  3. इति + उक्तिः
  4. सदा + एव

उत्तर 5:

  1. (ख) शिशिरवसन्तौ।
  2. (ग) मन्दं भाग्यं यस्याः सा
  3. (क) विघ्नानां अभावः
  4. (ख) व्याघ्रभीत:

उत्तर 6:

  1. (ग) कम्पमानाः
  2. (ख) श्रीमती
  3. (ख) सुखिनः
  4. (क) बल + मतुप्

उत्तर 7:

  1. कदा
  2. मा
  3. यत्र
  4. सम्प्रति

उत्तर 8:

  1. अशोकेन लेखः लिख्यते।
  2. दिनेशेन जनकः प्रणम्यते।
  3. अम्बया ओदनं पच्यते।

उत्तर 9:

  1. सार्धसप्तवादने
  2. पादोनाष्टवादने

उत्तर 10:

  1. (ग) गच्छति
  2. (ग) स्वकर्म
  3. (ख) सा
  4. (घ) चञ्चला

खण्डः ‘घ’ – पठित अवबोधनम्

उत्तर 11:
(अ)
(I) एकपदेन उत्तरत –

  1. ऊर्णाप्रचुरः
  2. अर्धज्वलितकाष्ठेन

(II) पूर्णवाक्येन उत्तरत – मेषस्य क्षितौ प्रलुठतः तृणेषु वह्निज्वालाः समुत्थिताः।

(III) निर्देशानुसारम् उत्तरत –

  1. (ग) क्षितौ
  2. (क) मेषः
  3. (ख) अहनि
  4. (क) मेषाय

(आ)
(I) एकपदेन उत्तरत –

  1. अकार्यम्
  2. गुरोः

(II) पूर्णवाक्येन उत्तरत – अधिगततत्त्वः सततं शिष्यहितायोद्यत: गुरुः अस्ति।

(III) निर्देशानुसारम् उत्तरत –

  1. (ग) सततम्
  2. (ख) हेयम्
  3. (क) उद्यतः
  4. (ख) गुरुः

(इ)
(I) एकपदेन उत्तरत –

  1. रणभूमौ
  2. द्रौपद्याः

(II) पूर्णवाक्येन उत्तरत – यावत् असौ क्रूरकर्मा न दण्ड्यते तावत् पर्यन्तं द्रौपदी तस्मात् स्थानात् न गन्तुम् इच्छति।

(III) निर्देशानुसारम् उत्तरत –

  1. (ग) द्रोणपुत्राय
  2. (ख) दुर्गमम्
  3. (क) अहम्
  4. (ख) अग्निः

उत्तर 12:
प्रश्ननिर्माणम्

  1. कीदृशम्
  2. कः
  3. केन
  4. कस्मात्

उत्तर 13:
अन्वयः (क)

  1. केन
  2. तत्त्वार्थनिर्णय:
  3. शक्यः
  4. विवेकः

(ख)

  1. ध्यायतः
  2. सङ्गः
  3. संङ्गात्
  4. क्रोधः

उत्तर 14:
शुद्धम् अर्थम्

  1. (क) नाशय
  2. (ख) परस्परम्
  3. (ग) कथितः
  4. (ख) गिरयः

We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 2 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 2, drop a comment below and we will get back to you at the earliest.