CBSE Sample Papers for Class 10 Sanskrit Paper 4 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 4.
CBSE Sample Papers for Class 10 Sanskrit Paper 4
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 4 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 4 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’-अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
पुष्पाणि अतीव मनोहराणि भवन्ति। अस्माकं राष्ट्रिय-पुष्पं कमलं तु अनुपमम् अस्ति। अस्य उत्पत्तिः पङ्कात् भवति। अतः अस्य नाम पङ्कजम् अपि प्रसिद्धम् जातम्। इदम् सर्वेषाम् मनांसि आह्लादयति सर्वेभ्यः च रोचते। कमलं निजसौन्दर्येण सुगन्धिना च वैशिष्टयं प्राप्नोति। तस्योपरि भ्रमराः गुञ्जन्ति। पङ्के प्रभवति कमलं, पङ्कात् कदापि न लिप्तं भवति। कमलस्य पत्रे स्थिताः जलबिन्दवः मुक्ताः इव विभान्ति। सरोवरे विकसितानां कमलानां शोभा दर्शनीया भवति। यदा यदा जलस्तरं वर्धते तदा तदा कमलम् अपि उपरि गच्छति। इदम् सूचयति यत् लोके नरः शुभकार्याणि कुर्वन् कदाचिदपि मलिनतया लिप्तः न भवति।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- कमलस्य उत्पत्तिः कस्मात् भवति ?
- कमलस्य पत्रे स्थिताः जलबिन्दवः कीदृशाः दृश्यन्ते ?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
- ‘यदा-यदा जलस्तरं वर्धते तदा कमलम् अपि उपरि गच्छति’- इदम् किम् सूचयति ?
- कमलम् कथं वैशिष्टयं प्राप्नोति ?
(III) यथानिर्देशम् उत्तरत – (1/2 × 4 = 2)
1. ‘कमलम्’ इति पदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम् ?
(क) वैशिष्ट्यम्
(ख) अनुपमम्
(ग) पुष्पम्
(घ) पङ्कजम्
2. ‘कमलानाम्’ इति पदस्य विशेषणपदं किम् ?
(क) सर्वेषाम्
(ख) विकसितानाम्
(ग) अनुपमम्
(घ) निजसौन्दर्येण
3. ‘अस्य उत्पत्तिः पङ्कात् भवति’ अस्मिन् वाक्ये ‘अस्य’ सर्वनाम पदं कस्मै प्रयुक्तम् ?
(क) पुष्पाय
(ख) भ्रमराय
(ग) कमलाय
(घ) नराय
4. ‘गुञ्जन्ति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) जलबिन्दवः
(ख) नराः
(ग) मुक्ताः
(घ) भ्रमराः
(IV) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत। (2)
खण्डः ‘ख’- रचनात्मकं कार्यम्
प्रश्न 2:
सौम्यः विद्यालयतः शैक्षिक-भ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतदर्थम् अनुमतिं राशिं च प्राप्तुं नवदिल्लीस्थं पितरं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। (1/2 × 10 = 5)
छात्रावासः
(1) …….
दिनाङ्कः ……/ ……../ …..
माननीयाः पितृवर्याः
सादरं प्रणमामि।
भवतः पत्रं प्राप्तम्। मम (2) ………….. परीक्षा समाप्ता। यावत् परीक्षा-परिणामः न आगच्छति तावत् आगामिमासस्य प्रथम सप्ताहे (3) ……………… विद्यालयस्य अध्यापकाः अस्मान् शैक्षिक-भ्रमणाय (4) ………….. नेष्यन्ति । अहम् अपि तैः (5) …………… गन्तुम् इच्छामि। एतदर्थं मया कक्षाध्यापकाय (6) ………….. रूप्यकाणि दातव्यानि सन्ति। अत: यदि अनुमतिः (7) …………….. तर्हि अहम् अपि गच्छेयम् । अत: कृपया उपर्युक्तं (8) ……………….. प्रेषयित्वा माम् अनुगृहणन्तु।
सर्वेभ्यः मम (9) ………………… निवेदनीयाः।
भवताम् (10) ……………..
सौम्यः
मञ्जूषा- मम, सह, पञ्चशतम्, प्रथमसत्रीया, प्रणामाः, भुवनेश्वरम्, कोलकातात:, स्यात्, प्रियपुत्रः, राशि
प्रश्न 3:
मजूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखत। (2 × 5 = 10)
मञ्जूषा- आरोपयति, वन-महोत्सवः, छात्राः, जलपात्रेण, मृत्तिकापात्रेषु, वृक्षान्, पादपान्, अध्यापिकाः, विद्यालये, प्राङ्गणे, पर्यावरण-दृष्टया, सिञ्चन्ति
अथवा
‘शाक-आपणस्य वर्णनम्’ इति विषयम् अधिकृत्य मजूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृते लिखत।
मञ्जूषा- विविधाः, शाकाः, पलाण्डुः, आलूकम्, गुञ्जनम्, इत्यादयः, क्रेतारः, विक्रेतारः, जनानाम् सम्मर्दः, उच्चैः आहूयन्ति, इतस्ततः, अस्वच्छता, मूल्यं पृच्छन्ति
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धि विच्छेदः वा क्रियताम्। (1 × 4 = 4)
- एतत् आसनम् कवे + ए अस्ति।
- गुरुकुले स्वछात्रान् गुरु: + शास्ति।
- विष्णुः जगत् + नाथः अस्ति।
- तरुः छाययैव तापं नाशयति।
प्रश्न 5:
उचितं समासपदं विग्रहपदं वा विकल्पेभ्यः चित्वा वाक्यानि पूरयत। (1 × 4 = 4)
1. तव यात्रा ………….. भवेत्।
(क) निर्बाधम्
(ख) निर्बाधा
(ग) निर्बाधः
(घ) निर्बाधात्
2. पुष्करे …………… पूज्यते।
(क) चतुराननम्
(ख) चतुरानः
(ग) चतुरननः
(घ) चतुराननः
3. सः ……………. विद्वान् सर्वैः पूज्यते ।
(क) अधीताव्याकरणः
(ख) अधीतव्याकरणः
(ग) अधीतव्याकरणम्
(घ) अधीतव्याकरण
4. भरतः ……………. दृष्ट्वा प्रसन्नः अभवत्।
(क) सीतारामम्
(ख) सीतारामान्
(ग) सीताराम
(घ) रामसीते
प्रश्न 6:
उचितानि प्रत्यययुक्तपदानि प्रकृतिं प्रत्ययं च चित्वा वाक्यानि पूरयत। (1 × 4 = 4)
1. ……….. बालिकां दृष्ट्वा माता प्रसीदति।
(क) मोदमानाम्
(ख) मोदमाना।
(ग) मोदमानाः
(घ) मुदमाना
2. इयं छात्रा (चञ्चल + टाप्) अस्ति।
(क) चञ्चलम्
(ख) चञ्चला
(ग) चञ्चली
(घ) चञ्चलटा
3. नृपस्य दशरथस्य राज्यः ………… आसन्।
(क) रूपवानाः
(ख) रूपवत्याः
(ग) रूपवत्यः
(घ) रूपभव्यः
4. …………… त्यज, विवेकेन कार्यं कुरु।
(क) मूर्खता
(ख) मूर्खतम्
(ग) मूर्खाताम्
(घ) मूर्खताम्
प्रश्न 7:
मजूषातः उचितं अव्यय-पदं चित्वा वाक्यानि पूरयत। (1 × 4 = 4)
- ईश्वरः …………… करोति शोभनमेव करोति।
- उद्याने बालका: …………… हसन्ति।
- भो बालकाः ! यूयम् ……………. गच्छथ?
- अम्बे! ………….. मम मित्राणि क्रीडन्ति तत्र गच्छामि।
मञ्जूषा- उच्चैः, यत्र, यत्, कुत्र
प्रश्न 8:
वाच्यपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत – (1 × 3 = 3)
- अहं तु रामायणं पश्यामि।
- प्रहेलिकां पठित्वा छात्रैः हस्यते।
- सा प्रात: दुग्धं पिबति।
प्रश्न 9:
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संस्कृतपदैः समयं लिखते – (1 × 2 = 2)
- अहं (5.15) ………….. दुग्धम् पिबामि।
- अहं (5.45) ……………. खेलितं गच्छामि।
प्रश्न 10:
विकल्पानां सहायतया अशुद्धवाक्यानां संशोधनं कृत्वा पुनः लिखत। (1 × 4 = 4)
1. जन्तुशालायां अनेके सिंहः आसन्।
(क) सिंहान्
(ख) सिंहाः
(ग) सिंहेन
(घ) सिहै:
2. तत्र वानराः अपि कूर्दति।
(क) अकूर्दन्।
(ख) अकूर्दत्
(ग) अकूर्दताम्
(घ) अकूर्दन्ताम्
3. एतत् दृष्ट्वा बालकाः प्रसन्नम् अभवन्।
(क) प्रसन्नः
(ख) प्रसन्नाः
(ग) प्रसन्न
(घ) प्रसन्नौ
4. तान् दृष्ट्वा तेभ्यः अभिभावकाः अपि प्रासीदन्।
(क) तयोः
(ख) ताषाम्
(ग) तेषाम्
(घ) तस्याः
खण्डः ‘घ’ – पठित-अवबोधनम्
प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि उत्तरपुस्तिकायाम् लिखत। (6)
अथ व्रजन्तौ तौ गर्तसंकुले मार्गे क्रीडत: कांश्चित् बालकान् प्रेक्ष्य अवदताम् भो-भो बालकाः ! कथमत्र नतोन्नते विषमे मार्गे क्रीडथ? यदि कश्चिद् गर्ने पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत् । तच्छ्रुत्वा कश्चित् उद्दण्डः बालकः उवाच ”अयि भो ! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ ? अपि इदं श्रेयस्करम् ?”
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- दुष्टबुद्धिप्रच्छन्नभाग्यौ मार्गे कीदृशान् बालकान् प्रेक्ष्य अवदताम् ?
- यः गर्ते पतेत् सः कीदृशः भूत्वा चिरं क्लेशमनुभवेत् ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
बालकाः कीदृशे मार्गे क्रीडन्ति स्म?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. ‘उद्दण्डः बालकः’ अनयोः पदयोः विशेष्यपदं किम् ?
(क) उद्दण्डः
(ख) बालकः
(ग) उद्दण्डबालक
2. अनुच्छेदे तौ’ सर्वनामपदं काभ्याम् प्रयुक्तम् ?
(क) दुष्टबुद्धये
(ख) प्रच्छन्नभाग्याय
(ग) दुष्टबुद्धिप्रच्छन्नभाग्याभ्याम्।
3. ‘अवदताम्’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) बालकान्
(ख) तौ
(ग) दुष्टबुद्धिप्रच्छन्नभाग्यश्च
4. ‘सुपथेन’ इति पदस्य किम् विपर्ययः अत्र प्रयुक्तम् ?
(क) विषमे
(ख) मार्गे
(ग) कुपथेन
(आ) श्लोकं पठित्वा प्रश्नान् उत्तरत।
काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- कामः क्रोधः च कस्मात् समुद्भवति ?
- कः वैरी अस्ति?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
कामः क्रोधः च कीदृशः अस्ति?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. विद्धि’ क्रियायाः कर्ता कः ?
(क) श्रीकृष्णः
(ख) अर्जुनः
(ग) त्वम्
2. ‘अस्मिन् लोके’ इत्यर्थे किम् अव्ययपदं श्लोके प्रयुक्तम् ?
(क) इह
(ख) एष
(ग) वैरिणम्
3. ‘मित्रम्’ पदस्य विलोम पदम् अत्र किम् ?
(क) वैरिणम्
(ख) समुद्भवः
(ग) एनम्
4. ‘एनम्’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) कामाय क्रोधाय
(ख) वैरिणे
(ग) रजोगुणाय
(इ) नाट्यांशं पठित्वा प्रश्नान् उत्तरत।
नारदः – (व्यासं प्रति) पश्यतु भवान्। कोऽयम् अनर्थः क्रियते एताभ्यां वीराभ्याम्। समन्तात् वर्धमानाः प्रचण्डानलशिखाः आकाशं लिहन्ति इव। गगनात् सहस्रशः उल्काः भूमौ पतन्ति। कम्पते खलु सपर्वत-वन-दुमा सकला मही। पवन: स्तब्धः जातः। सहस्रांशुः न भासते। शैलाः विदीर्यन्ते। कथमपि एतौ निवारणीयौ, अन्यथा सकलं जगद् ध्वस्तं भविष्यति।
व्यासनारदौ – भो वीरौ ! संहरतम् संहरतम् निजास्त्रे।
नारदः – अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते।
समाः द्वादश पर्जन्यस्तद् राष्ट्र नाभिवर्षति।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- द्वादश समाः कः न अभिवर्षति ?
- सहस्रशः उल्काः कुत्र पतन्ति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
का: आकाशं लिहन्ति इव ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. ‘सूर्यः’ इति पदस्य पर्यायः कः?
(क) सहस्रांशुः
(ख) शैलाः
(ग) गगनं
2. ‘पश्यतु भवान्’ इत्यत्र ‘भवान्’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) व्यासाय
(ख) व्यासेन
(ग) नारदाय
3. ‘सम्पूर्णा’ इत्यर्थे किम् पदं अत्र प्रयुक्तम् ?
(क) सकलं
(ख) समन्तात्
(ग) सकला
4. ध्वस्तम्’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) मही
(ख) जगद्
(ग) ब्रह्मशिरः
प्रश्न 12:
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)
- सर्पः कलशात् बहिः निर्गतः।
- भारत्याः कोशः अपूर्वः अस्ति।
- किं त्वम् इदं दिव्यं चक्रं वाञ्छसि ?
- राज्ञा नेत्रार्थं शक्रः प्रार्थितः।
प्रश्न 13:
अधोलिखितश्लोकयोः अन्वयं उचितै पदैः पूरयित्वा पुनः लिखत। (1/2 × 8 = 4)
(क) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः।।
अन्वयः- (1) ……………. प्रथमः धर्मः इति एतत् (2) …………… वचः (अस्ति ) तस्मात् (3) ……………….. अपि विशेषतः (4) …………… रक्षेत्।
(ख) आयुष: क्षणमेकोऽपि, न लभ्यः स्वर्णकोटिकैः।
स चेन्निरर्थकं नीतः, का नु हानिस्ततोऽधिका।।
अन्वयः- (1) ……………… एकः क्षणम् अपि (2) …………… न लभ्यः , सः चेत् (3) …………… नीतः ततः अधिका नु (4) …………… का?
मञ्जूषा – विदुषां, निरर्थकं, हानिः, आचारः, सदाचारं, आयुषः, प्राणेभ्यः, स्वर्णकोटिकैः।
प्रश्न 14:
रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् अर्थं चिनुत – (1 × 4 = 4)
1. सम्प्रति सहस्रांशुः न भासते।
(क) हिमांशुः
(ख) दिनकरः
(ग) चन्द्रः
2. अजेयः स्यामिति विभो।
(क) अजरः
(ख) अपराजितः
(ग) अमर:
3. सपदि उपायः क्रियताम्।
(क) उचितम्
(ख) शीघ्रम्
(ग) सपदम्
4. अनृतं वदसि चेत् काकः दशेत्।
(क) तीव्रम्
(ख) असत्यम्
(ग) वृथा
उत्तराणि
खण्डः ‘क’ – अपठित-अवबोधनम्
उत्तर 1:
(I) एकपदेन उत्तरत-
- पङ्कात्
- मुक्ताः इव
(II) पूर्णवाक्येन उत्तरत –
- इदं सूचयति यत् लोके नरः शुभकार्याणि कुर्वन् कदाचिदपि मलिनतायाः लिप्तः न भवति।
- कमलं निजसौन्दर्येण सुगन्धिना च वैशिष्टयं प्राप्नोति।
(III) निर्देशानुसारम् उत्तरत –
- (घ) पङ्कजम्
- (ख) विकसितानाम्
- (ग) कमलाय
- (घ) भ्रमराः
(IV) शीर्षकः- राष्ट्रीय पुष्पं कमलम् (अन्यः कोऽपि)
खण्डः ‘ख’ – रचनात्मक कार्यम्
उत्तर 2:
- कोलकातात:
- प्रथमसत्रीया
- मम
- भुवनेश्वरम्
- सह
- पञ्चशतम्
- स्यात्
- राशि
- प्रणामाः
- प्रियपुत्रः
उत्तर 3:
चित्रवर्णनम् –
- इदं चित्रं वन-महोत्सवस्य अस्ति।
- विद्यालयस्य प्राङ्गणे अयम् उत्सवः मान्यते।
- छात्राणां हस्ते पादपाः सन्ति।
- प्रधानाचार्य: पादपम् रोपयित्वा जलेन सिञ्चति।
- अत्र सर्वे उत्साहिताः प्रसन्नाः च सन्ति।
अथवा
(शाक-आपणस्य वर्णनम् )
- मम नगरे अपि सप्ताहे एकं दिन शाक आपणम् आयोज्यते।
- अत्र आगत्य जना: शाकानि फलानि च क्रीणन्ति।
- अत्र जनानां सम्मर्दः भवति।
- विक्रेतारः उच्चैः उच्चैः आहूयन्ति।
- शाक आपणे इतस्ततः अस्वच्छता भवति।
खण्डः ‘ग’ – अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- कवये
- गुरुश्शास्ति
- जगन्नाथः
- छायया + एव
उत्तर 5:
- (ख) निर्बाधा
- (घ) चतुराननम्
- (ख) अधीतव्याकरणः
- (ग) सीताराम
उत्तर 6:
- (क) मोदमानाम्
- (ख) चञ्चला
- (ग) रूपवत्यः
- (घ) मूर्खताम्
उत्तर 7:
- यत्
- उच्चैः
- कुत्र
- यत्र
उत्तर 8:
- मया तु रामायणं दृश्यते।
- प्रहेलिकां पठित्वा छात्राः हसन्ति।
- तया प्रातः दुग्धं पीयते।
उत्तर 9:
- सपादपञ्चवादने
- पादोनषड्वादने
उत्तर 10:
- (ख) सिंहाः
- (क) अकूर्दन्
- (ख) प्रसन्नाः
- (ग) तेषाम्
खण्डः ‘घ’ – पठित अवबोधनम्
उत्तर 11:
(अ) (I) एकपदेन उत्तरत –
- क्रीडतः
- विकलाङ्गः
(II) पूर्णवाक्येन उत्तरेत – बालकाः नतोन्नते विषमे मार्गे क्रीडन्ति स्म।
(III) निर्देशानुसारम् उत्तरत –
- (ख) बालकः
- (ग) दुष्टबुधिप्रच्छन्नभाग्याभ्याम्
- (ख) तौ
- (ग) कुपथेन
(आ) (I) एकपदेन उत्तरत –
- रजोगुणात्
- कामः क्रोधः च
(II) पूर्णवाक्येन उत्तरत – रजोगुणसमुद्भवः एषः कामः क्रोधः महाशन: महापाप्मा च अस्ति।
(III) निर्देशानुसारम् उत्तरत –
- (ग) त्वम्
- (क) इह
- (क) वैरिणम्
- (क) कामाय-क्रोधाय
(इ) (I) एकपदेन उत्तरत –
- पर्जन्यः
- भूमौ
(II) पूर्णवाक्येन उत्तरत – समन्तात् वर्धमानाः प्रचण्डोनलशिखाः आकाशं लिहन्ति इव।
(III) निर्देशानुसारम् उत्तरत –
- (क) सहस्रांशुः
- (क) व्यासाय
- (ग) सकला
- (ख) जगद्
उत्तर 12:
प्रश्ननिर्माणम्
- कस्मात्
- कस्याः
- कीदृशं
- केन
उत्तर 13:
अन्वयः (क)
- आचारः
- विदुषां
- प्राणेभ्यः
- सदाचारं
(ख)
- आयुषः
- स्वर्णकोटिकैः
- निरर्थकं
- हानिः
उत्तर 14:
शुद्धम् अर्थम्
- (ख) दिनकरः
- (ख) अपराजितः
- (ख) शीघ्रम्
- (ख) असत्यम्
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 4 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 4, drop a comment below and we will get back to you at the earliest.