CBSE Sample Papers for Class 10 Sanskrit Paper 5 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 5.
CBSE Sample Papers for Class 10 Sanskrit Paper 5
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 5 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 5 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’- अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत। (10)
एकदा देवर्षिनारदः ईश्वरमवदत्- भगवन्! अहमेव तव परमभक्तोऽस्मि। भगवता सः निजभक्तप्रवरं दर्शयितुं मर्त्यलोके प्रेषितः। तत्र सः एकं कृषकमपश्यत् यः प्रातः क्षेत्रगमनात् पूर्वम् एकवारम् ईश्वरमनमत् रात्रौ च गृहमागत्य पुनः एकवारं हरि स्मृत्वा अस्वपत्। नारदः भगवन्तम् उपगम्य स्वप्रत्यक्षानुभवं न्यवेदयत्। तच्छ्रुत्वा भगवान् तस्मै एकं तैलपूर्णं दीपं दत्त्वा, एकमपि बिन्दु भूमौ न पातयित्वा नगर परिक्रम्य आगन्तुमवदत्। अनन्तरं सः नारदमपृच्छत् ‘कथय नगरपरिक्रमासमये कतिवारं त्वया अहं स्मृतः?’ नारदः प्रत्यवदत्-‘भगवन्! मम सम्पूर्णः मनोयोगः तैलपूर्णदीपे एवासीत् अतः भवान् मया एकवारमपि न स्मृतः।’ भगवान् अवदत्-‘पश्य तैलपूर्णः दीपः तव मनोयोगं तथा आकर्षत् यथा त्वयाहं पूर्णतया विस्मृतः। किन्तु स: कृषक: नियमितरूपेण प्रतिदिनं द्विवारं मां स्मरति। एतच्छुत्वा नारदः स्वस्य अज्ञताम् अबोधत्।
(I) एकपदेन उत्तरत – (1 × 2=2)
- प्रातः कृषकः क्षेत्रगमनात् पूर्वं कम् अनमत् ?
- नारदः भगवन्तं उपगम्य किं न्यवेदयत् ?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
- यदा नारदः नगर परिक्रम्य आगच्छत् तदा ईश्वरः तं किमपृच्छत् ?
- नगरपरिक्रमासमये नारदः किमर्थम् ईश्वरम् न अस्मरत् ?
(III) भाषिककार्यम् – (1 × 2 = 2)
1. ‘भगवन् ! मम सम्पूर्ण: मनोयोगः दीपे एव आसीत्।’ अत्र विशेषणपदं किम् ?
(क) मनोयोगः
(ख) मम
(ग) एव
(घ) सम्पूर्णः
2. ‘पश्य, तैलपूर्णः दीपः तव मनोयोगं तथा आकर्षत्।’ अत्र ‘तव’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) भगवते
(ख) नारदाय
(ग) कृषकाय
(घ) नगराय
3. गद्यांशे ‘स्मरति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) नारदः
(ख) भगवान्
(ग) कृषकः
(घ) दीपः
4. ‘आकर्णय’ इत्यर्थे किम् पदम् अत्र प्रयुक्तम् ?
(क) श्रुत्वा
(ख) परिक्रम्य
(ग) उपगम्य
(घ) अबोधत्
(IV) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
खण्डः ‘ख’- रचनात्मकं कार्यम्
प्रश्न 2:
मित्रस्य कुशलक्षेमं ज्ञातुं मित्रं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत। (1/2 × 10 = 5)
उज्जैनतः
दिनाङ्कः ……… /…….. /………
प्रिय (1) …………. !
शुभकामना: विलसन्तु।
त्वया (2) …………… कथितं यत् गृहं गत्वा त्वरितमेव पत्रं प्रेषयिष्यामि, परन्तु अद्य मासाधिके काले गते अपि तव किमपि पत्रं न (3) ……………। परन्तु (4) ………. व्यतीते सुस्वादुभोजनलोभेन गृहे न स्थातव्यम्। अस्मिन् वर्षे यथाकालं कक्षाः (5) ……………।
तत्र ये (6) ……………. न उपस्थिताः भविष्यन्ति तेषां (7) …………… अपि समाप्ता भविष्यति अधिकविलम्बे जाते (8) ………. निष्कासनमपि संभवति। तस्मात् (9) ………. कालातिपात: ने कर्तव्यः इति मे (10)::: ……….।
तव हिताकांक्षी
रमणः
मञ्जूषा- यथासमय, अवकाशकाले, निवेदनम्, समागतम्, जितेन्द्र!, प्रचलिष्यन्ति, गमनकाले, छात्रावाससुविधा, आगमने, विद्यालयात्
प्रश्न 3:
मजूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखत। (2 × 5 = 10)
मञ्जूषा- रमणीया, वृक्षः, काकः, सृष्टिः, कुक्कुटः, बकः, सरोवरे, पादपाः, पुष्पाणि, जलम्, शोभा, हंसौ, नारी, दर्शनीया, प्रकृतेः, मयूरः, कमलानि
अथवा
‘मम प्रियक्रीडा’ इति विषयम् अधिकृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृते लिखत।
मजूषा- पादकन्दुकखेलं, क्रीडकाः, पादेन, क्षिपति, तीव्रगतिक्रीडा, लोकप्रियः, प्रियक्रीडा, उत्साहेन, इत:-ततः, स्वास्थ्यवर्धकाः, द्वे दले, निर्णायकः, दर्शकाः, उत्साहवर्धनम्
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत। (1 × 4 = 4)
- हे प्रभो! सत् + मतिं देहि।
- तस्याः ने + अनम् सुन्दरम् अस्ति।
- यदि + अपि आहूता तदपि नागता।
- कश्चित् बालकः उच्चैः वदति।
प्रश्न 5:
अधोलिखितवाक्येषु रेखाङ्कितपदानां समास विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
1. काकः क्रोधेन सहितम् राजहंसम् प्रति अवदत्।
(क) क्रोधसह
(ख) सहक्रोधेन
(ग) सक्रोधः
(घ) सक्रोधम्
2. गुरुवचनम् श्रेयस्करम्।
(क) गुरुः वचनम्
(ख) गुरवे वचनम्
(ग) गुरोः वचनम्
(घ) गुरुम् वचनम्
3. माता पुत्रस्य चन्द्रमुखम् पश्यति।
(क) चन्द्रस्य मुखम्
(ख) चन्द्र इव मुखम्
(ग) चन्द्रे मुखम्
(घ) मुखम् इव चन्द्रः
4. पृथ्वी-आकाशौ सृष्टे: प्रमुखे तत्त्वे।
(क) पृथ्वी च आकाशम् च
(ख) पृथ्वी च आकाशौ च
(ग) पृथ्वी च आकाशः च
(घ) पृथ्वाकाशः च
प्रश्न 6:
अधोलिखितवाक्येषु रेखाङ्कितपदानां ‘प्रकृतिप्रत्ययौ’ संयोज्य विभज्य वा समुचितम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
1. आः किम् उक्तवती भवत् + ङीप्।
(क) भवती
(ख) भवान्
(ग) भवत्याम्
(घ) भवत्यी
2. क्षत्रधर्मम् अनुस्मरन् मां शोकसागरात् रक्ष।
(क) अनु + स्मर् + अन्
(ख) अनु + स्मृ + शानच्
(ग) अनुस्मर + शतृ
(घ) अनु + स्मृ + शतृ
3. मम पिततामहः धर्म + ठक् अस्ति।
(क) धर्मिकः
(ख) धार्मिकः
(ग) धर्मकः
(घ) धर्मः
4. आचरणे दृढ + तल् भवेत्।
(क) दृढतः
(ख) दृढता
(ग) दृढत्व
(घ) दृढतां
प्रश्न 7:
मजूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत। (1 × 4= 4)
- बालाः ……………… क्रीडन्ति।
- ते ……………… आगच्छन्ति ?
- भवन्तः …………….. किमर्थं ग्रामं गमिष्यन्ति ?
- जनाः ………… एव अत्र आगच्छन्।
मञ्जूषा- ह्यः, सम्प्रति, कुतः, श्वः।
प्रश्न 8:
वाच्यपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत – (1 × 3 = 3)
- युवाम् फलानि खादथ।
- साधुः सत्यं वदति।
- अहं मित्रम् कथयामि।
प्रश्न 9:
अधोलिखित वाक्येषु अङ्कानां स्थाने संस्कृतपदैः समयं लिखत – (1 × 2 = 2)
- रमेशः (1.30) ……………. भोजनं करोति।
- सः (3.45) …………….. मित्रस्य गृहं गच्छति।
प्रश्न 10:
अधोलिखितवाक्येषु रेखाङ्कितपदानां स्थाने प्रदत्तविकल्पेभ्यः शुद्धं पदं चित्वा लिखत। (1 × 4 = 4)
1. मेघम् आकाशे गर्जति।
(क) मेघाः
(ख) मेघः
(ग) मेघानि
(घ) मेघस्य
2. तौ तत्र भ्रमणाय न गच्छति।
(क) गच्छथ
(ख) गच्छामि
(ग) गच्छतः
(घ) गच्छसि
3. भवान् पठसि-लिखसि च।
(क) पठताम्-लिखताम्
(ख) पठति-लिखति
(ग) पठामि-लिखामि
(घ) पठाव:-लिखावः
4. वस्त्राणि सुन्दरं सन्ति।
(क) सुन्दरम्
(ख) सुन्दराणि
(ग) सुन्दरः
(घ) सुन्दरस्य
खण्ड: ‘घ’ – पठित-अवबोधनम्
प्रश्न 11:
(अ) अधोलिखित गद्यांशं पठित्वा तदाधारिताना प्रश्नानामुत्तराणि लिखत। (6)
कालोऽहम्। अहं खलु कालः। विश्वस्य आत्माऽहम्। कलयामि गणयामि जगत: आयुः प्रमाणम्। सततं चक्रवत् परिवर्तमानः भूतं वर्तमानं भविष्यदपि च वीक्षमाणः, अहमेव साक्षी जगतः उत्पत्तेः विकासस्य प्रलयस्य च। इदं जगत् तु पुनः पुनः जायते विलीयते च परमहं सर्वदा विद्यमानोऽस्य सर्वं क्रियाकलापं पश्यामि। अहो! किं जानीथ यूयम्, कियती प्राचीना इयं सृष्टि: ? नैव, तर्हि शृणुत ध्यानेन।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- अस्य वक्ता कः?
- कालः सर्वदा किं पश्यति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
कालः कस्य साक्षी अस्ति?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. ‘पश्यामि’ इति क्रियायाः कर्तृपदम् किम् ?
(क) अहम्
(ख) कालः
(ग) क्रियाकलापम्
2. ‘अस्य सर्वं क्रियाकलापं’ अत्र ‘अस्य’ सर्वनाम कस्मै प्रयुक्तम् ?
(क) कालाय
(ख) जगते
(ग) विद्यमानाय
3. ‘जायते’ क्रियायाः विलोमपदम् अत्र किम् ?
(क) उत्पत्तेः
(ख) पश्यामि
(ग) विलीयते
4. ‘सदैव’ इति अर्थे अत्र अव्ययपदं किम् ?
(क) खलु
(ख) सर्वदा
(ग) तर्हि
(आ) अधोलिखितं श्लोकं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत।
शारदा शारदाम्भोजवदना वदनाम्बुजे।
सर्वदा सर्वदाऽस्माकं सन्निधिं क्रियात्।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- शारदा अस्माकं कुत्र निवसेत् ?
- का शारदाम्भोजवदना अस्ति?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
कीदृशी शारदा वदनाम्बुजे निवासं क्रियात् ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. ‘अम्भोजः’ इति शब्दस्य पर्यायः कः ?
(क) सर्वदा
(ख) वदनाम्बुजे
(ग) अम्बुजः
2. ‘शरत्कालीन’ इति कस्य पदस्य अर्थः?
(क) शारदा
(ख) शारद
(ग) सर्वदा
3. ‘क्रियात्’ क्रियायाः कर्ता कः?
(क) सन्निधिं
(ख) सर्वदा
(ग) शारदा
4. ‘सरस्वती’ इति अर्थे अत्र किं पदम् अस्ति?
(क) शारदा
(ख) वदना
(ग) सर्वदा
(इ) अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत। (6)
(विद्यालयस्य सभागारः । मञ्चे विद्यालयस्य प्रधानाचार्यः प्रदेशस्य पर्यटन-अधिकारी केचित् अध्यापकाः उपविष्टाः सन्ति ।)
पर्यटनाधिकारी – प्रियच्छात्राः ! अभिनन्दनं भवताम् प्रदेशे। प्रसीदामि यद् भवन्तः अस्य रम्यस्य प्रदेशस्य विषये ज्ञातुम् अति उत्सुकाः। प्रथमं तु अहम् एव एकं प्रश्नं पृच्छामि। अस्य प्रदेशस्य नाम’ अरुणाचलः’
कथं जातम् अनुमीयताम्।
हिमांशुः – अहं चिन्तयामि यत् ‘अरुणः’ तु सूर्यस्य पर्यायः । अस्य प्रकाश: सर्वप्रथमम् इमं प्रदेशं स्पृशति। अत: अरुणस्य प्रदेशः अरुणाचलः।
पर्यटनाधिकारी – शोभनम् । उचितम् उक्तम् । हिमाद्रितुङ्गशृङ्गैः सुशोभिता सूर्योदयभूमिः इयम्। अतः अरुणाचलः।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- अरुणः कस्य पर्यायः?
- कः कथयति प्रथमं तु अहं प्रश्नं पृच्छामि ?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
इयं सूर्योदयभूमिः कैः सुशोभिता अस्ति?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. ‘अस्य प्रकाशः सर्वप्रथमम् इमं प्रदेशं स्पृशति’ अस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) अस्य
(ख) अरुणाय
(ग) प्रदेशाय
(घ) अरुणाचलाय
2. ‘प्रसीदामि’ अस्य किं कर्तृपदं प्रयुक्तम् ?
(क) पर्यटनाधिकारी
(ख) हिमांशु
(ग) अहम्
(घ) छात्रः
3. ‘रम्यस्य’ इति विशेषणपदस्य विशेष्यपदम् किम् ?
(क) अरुणाचलस्य
(ख) अरुणस्य
(ग) प्रदेशस्य
(घ) छात्रस्य
4. ‘सूर्यस्य’ किम् पर्यायपदम् अत्र प्रयुक्तम् ?
(क) भानुः
(ख) अरुणः
(ग) दिनकरः
(घ) हिमांशुः
प्रश्न 12:
अधोलिखितश्लोकयोः अन्वयम् उचितपदैः पूरयत। (1/2 × 8 = 4)
(क) प्रार्थितं ते मया चक्रं देवदानवपूजितम्।
अजेयः स्यामिति विभो ! सत्यमेतद् ब्रवीमि ते।।
अन्वयः- विभो ! (1) ………….. स्याम् इति मया देवदानवपूजितम् (2) ……….. ते (3) …………. एतत (4) ………….. ब्रवीमि।
(ख) किं मरणम् ? मुर्खत्वम्, किं चानर्घम् ? यदवसरे दत्तम्।
आमरणात्किं शल्यम् ? प्रच्छन्नं यत्कृतं पापम्।।
अन्वयः- मरणं किम् ? (1) ……………. च अनर्घम् किम्? यद् (2) …………….. दत्तम्, आमरणात् (3) ………………. किम् ? यत् पापं (4) ………………. कृतम्।
मञ्जूषा – मूर्खत्वम्, अजेयः, प्रार्थितम्, अवसरे, शल्यम्, चक्रम्, सत्यम्, प्रच्छन्नम्।
प्रश्न 13:
वाक्येषु रेखाङ्कितपदानां स्थाने प्रश्नवाचकपदं प्रयुज्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)
- धैर्यवान् मन्त्री पराजितः न भवति।
- सर्वः भद्राणि पश्यतु।
- साधुजनमैत्री सुखदा भवति।
- संवत्सरे द्वादश मासाः भवन्ति।
प्रश्न 14:
रेखाङ्कितपदानां प्रसङ्गानुसारम् शुद्धम् अर्थं विकल्पेभ्यः चित्वा लिखते। (1 × 4 = 4)
1. परमहम् अखण्डः शाश्वत: विभुः च।
(क) शतम्।
(ख) सनातनः
(ग) निरतः
(घ) पूर्णतः
2. सः नगरस्य समन्ततः दानशाला अकारयत्।
(क) उभयतः
(ख) परितः
(ग) निकटे
(घ) सम्पूर्णतः
3. सः सव्येन पाणिना चक्रम् गृहीतवान्।
(क) चरणेन
(ख) हस्तेन
(ग) जलेन
(घ) पादेन
4. विपुला च अत्र वनसम्पदा।
(क) न्यूना
(ख) विशाला
(ग) मनोहरा
(घ) अधिका
उत्तराणि
खण्डः ‘क’ – अपठित-अवबोधनम्
उत्तर 1:
(I) एकपदेन उत्तरत –
- ईश्वरम्
- स्वप्रत्यक्षानुभवं
(II) पूर्णवाक्येन उत्तरत –
- यदा नारदः नगर परिक्रम्य आगच्छत् तदा ईश्वरः तम् ‘अपृच्छत् कथय नगरपरिक्रमा समये कतिवारं त्वया अहं स्मृतः?’
- नगरपरिक्रमा समये नारदस्य सम्पूर्णः मनोयोग: तैलपूर्णदीपे एव आसीत् अतः सः ईश्वरं न अस्मरत्।
(II) निर्देशानुसारम् उत्तरत –
- (घ) सम्पूर्णः
- (ख) नारदाय
- (ग) कृषकः
- (क) श्रुत्वा
(IV) शीर्षकः- परमभक्तः नारद:/कृषकस्य ईश्वरभक्तिः (अन्यः कोऽपि)
खण्डः ‘ख’ – रचनात्मक कार्यम्
उत्तर 2:
- जितेन्द्र!
- गमनकाले
- समागतम्
- अवकाशकाले
- प्रचलिष्यन्ति
- यथासमयं
- छात्रावाससुविधा
- विद्यालयात्
- आगमने
- निवेदनम्
उत्तर 3:
चित्रवर्णनम् –
- अस्मिन् चित्रे प्रकृतेः वर्णनम् अस्ति।
- वृक्षस्य समीपे एप। सुसज्जिता नारी अस्ति।
- अत्र सरोवरे हंसौ तरतः।
- अत्र वृक्षशाखायां काकः अधः च कुक्कुटः मयूरः बकः च सन्ति।
- इदं चित्रं सूचयति यत् इयं सृष्टिः रमणीया दर्शनीया चास्ति।
अथवा
(मम प्रियक्रीडा)
- मम प्रियक्रीडा पादकन्दुकखेलम् अस्ति।
- क्रीडका: इयं क्रीडा उत्साहेन क्रीडन्ति।
- अस्यां क्रीडायां कन्दुकं पादेन क्षिपति।
- इयं क्रीडा द्वे दले मिलित्वा क्रीडतः।
- सर्वाः क्रीडा: स्वास्थ्यवर्धकाः भवन्ति।
खण्डः ‘ग’ – अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- सन्मतिं
- नयनम्
- यद्यपि
- कः + चित्
उत्तर 5:
- (घ) सक्रोधम्
- (ग) गुरोः वचनम्
- (ख) चन्द्र इव मुखम्
- (ग) पृथ्वी च आकाशः च
उत्तर 6:
- (क) भवती
- (घ) अनु + स्मृ + शतृ
- (ख) धार्मिकः
- (ख) दृढ़ता
उत्तर 7:
- सम्प्रति
- कुतः
- श्वः
- ह्यः
उत्तर 8:
- युवाभ्याम् फलानि खाद्यन्ते।
- साधुना सत्यं उद्यते।
- मया मित्रं कथ्यते।
उत्तर 9:
- साधैकवादने
- पादोनचतुर्वादने
उत्तर 10:
- (ख) मेघः
- (ग) गच्छतः
- (ख) पठति-लिखति
- (ख) सुन्दराणि
खण्डः ‘घ’ – पठित-अवबोधनम्
उत्तर 11:
(अ) (I) एकपदेन उत्तरत –
- काल:
- क्रियाकलाप
(II) पूर्णवाक्येन उत्तरत – कालः जगत: उत्पत्तेः विकासस्य प्रलयस्य च साक्षी अस्ति।
(III) निर्देशानुसारम् उत्तरत –
- (क) अहम्
- (ख) जगते
- (ग) विलीयते
- (ख) सर्वदा
(आ) (एकपदेन उत्तरत –
- वदनाम्बुजे
- शारदा
(II) पूर्णवाक्येन उत्तरत – शारद-अम्भोज-वदना, सर्वदा शारदा वदनाम्बुजे निवास क्रियात्।
(III) निर्देशानुसारम् उत्तरत –
- (ग) अम्बुजः
- (ख) शारद
- (ग) शारदा
- (क) शारदा
(इ) (I) एकपदेन उत्तरत –
- सूर्यस्य
- पर्यटनाधिकारी
(II) पूर्णवाक्येन उत्तरत – इयं सूर्योदयभूमिः हिमाद्रितुङ्गशृङ्गैः सुशोभिता अस्ति।
(III) निर्देशानुसारम् उत्तरत –
- (ख) अरुणाय
- (ग) अहम्
- (ख) प्रदेशस्य
- (ख) अरुणः
उत्तर 12:
अन्वयः (क)
- अजेयः
- चक्रम्
- प्रार्थितम्
- सत्यम्
(ख)
- मूर्खत्वम्
- अवसरे
- शल्यम्
- प्रच्छन्नम्।
उत्तर 13:
प्रश्ननिर्माणम्
- कीदृशः
- कानि
- का
- कति
उत्तर 14:
शुद्धम् अर्थम्
- (ख) सनातनः
- (ख) परितः
- (ख) हस्तेन
- (घ) अधिका
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 5 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 5, drop a comment below and we will get back to you at the earliest.