Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 6 भ्रान्तो बालः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided भ्रान्तो बालः Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-9-sanskrit-with-answers/
Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 6 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.
निम्नवाक्येषु रेखाकित पदानां पदानां स्थानेषु प्रश्नवाचकपदं लिखत
Class 9 Sanskrit Chapter 6 MCQ With Answers Question 1.
बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्।
(क) कदा
(ख) कस्याम्
(ग) काम्
(घ) कुत्र
Answer
Answer: (क) कदा
Sanskrit MCQ For Class 9 Chapter 6 Question 2.
मित्राणि विद्यालयगमनार्थं त्वरमाणाः अभवन्।
(क) काम्
(ख) किमर्थम्
(ग) के
(घ) किम्
Answer
Answer: (ख) किमर्थम्
Sanskrit MCQ Class 9 Question 3.
सर्वे पूर्वदिनपाठान् स्मृत्वा विद्यालयं गच्छन्ति।
(क) कासाम्
(ख) कान्
(ग) कृत्वा
(घ) कस्मात्
Answer
Answer: (ख) कान्
Question 4.
विरमन्तु एते वराकाः पुस्तकदासाः।
(क) काः
(ख) कस्याः
(ग) कीदृशाः
(घ) किम्
Answer
Answer: (ग) कीदृशाः
Question 5.
अनेन मिथ्यागर्वितेन कीटेन।
(क) केन
(ख) कस्मै
(ग) कीदृशेण
(घ) कैः
Answer
Answer: (ग) कीदृशेण
Question 6.
एते पक्षिणः मानुषेषु न उपगच्छन्ति।
(क) केषु
(ख) कस्मै
(ग) कासु
(घ) के
Answer
Answer: (क) केषु
Question 7.
मम स्वामि पुत्रप्रीत्या पोषयति।
(क) केन
(ख) कः
(ग) कीदृशी
(घ) काम्
Answer
Answer: (क) केन
Question 8.
नमः एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता।
(क) केभ्यः
(ख) केन
(ग) कस्मै
(घ) कः
Answer
Answer: (क) केभ्यः
Question 9.
सः बालः भग्नः मनोरथः अवदत।
(क) कः
(ख) कम्
(ग) कीदृशः
(घ) किम्
Answer
Answer: (ग) कीदृशः
Question 10.
कुक्कुरः स्वामिनः गृहे वसति।
(क) कः
(ख) कस्य।
(ग) कम्
(घ) कीदृशः
Answer
Answer: (ख) कस्य।
Question 11.
मया ईषत् अपि न भ्रष्टव्यम्।
(क) केन
(ख) कः
(ग) कस्य
(घ) किम्
Answer
Answer: (क) केन
Question 12.
रक्षानियोगकरणात् मया न भ्रष्टव्यम्।
(क) कात्
(ख) कस्मात्
(ग) कः
(घ) केन
Answer
Answer: (ख) कस्मात्
Question 13.
कुक्कुरः मानुषाणां मित्रम् अस्ति।
(क) काम्
(ख) कासाम्
(ग) केषाम्
(घ) कस्य
Answer
Answer: (ग) केषाम्
Question 14.
चटकः स्वकर्मणि व्यग्रः आसीत्।
(क) कानि
(ख) कस्मै
(ग) केषाम्
(घ) कस्मिन्
Answer
Answer: (घ) कस्मिन्
Question 15.
स्वादूनि भक्ष्यकवलानि ते दास्यामि।
(क) कानि
(ख) कीदृशानि
(ग) किम्
(घ) कम्
Answer
Answer: (ख) कीदृशानि
Question 16.
सः महती वैदुषीं लब्धवान्।
(क) कीदृशीम्।
(ख) कः
(ग) केन
(घ) काम्
Answer
Answer: (क) कीदृशीम्।
Question 17.
भक्ष्यकवलानि ते दास्यामि।
(क) केषाम्
(ख) कानि
(ग) कात्
(घ) कस्मै
Answer
Answer: (घ) कस्मै
Question 18.
सः महतीं वैदुषीं लब्धवान्।
(क) कम्
(ख) केभ्यः
(ग) काम्
(घ) कहा सालमा
Answer
Answer: (ग) काम्
Question 19.
भ्रान्तः बालः अचिन्तयत्।
(क) कः
(ख) केन
(ग) किम्
(घ) कासाम्
Answer
Answer: (क) कः
Question 20.
खिन्नः बालकः श्वानम् अकथयत्।
(क) कस्मै
(ख) कीदृशः
(ग) कस्य
(घ) कात्
Answer
Answer: (ख) कीदृशः
Question 21.
खिन्नः बालकः कुक्कुरम् अकथयत्।
(क) कः
(ख) कासाम्
(ग) कस्मिन्
(घ) कम्
Answer
Answer: (घ) कम्
निम्नलिखितम् पाठांश पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत
भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमानः आसीत्। यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन्। तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्। सः अचिन्तयत्-“विरमन्तु एते वराकाः पुस्तकदासाः। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति विद्यालय गत्वा भूयः क्रुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि। एते निष्कुटवासिनः प्राणिन एव मम वयस्याः सन्तु इति।
Question 1.
बालकः कीदृशः आसीत्?
Answer
Answer: भ्रान्तः
Question 2.
कस्मिन् समये सः क्रीडितुं निर्जगाम?
Answer
Answer: पाठशालागमनवेलायाम्
Question 3.
कीदृशः बालकः उद्यानं प्राविवेश?
Answer
Answer: एकाकी
Question 4.
बालकेन सह किमर्थं वयस्येषु न उपलभ्यमानः आसीत्?
Answer
Answer: बालकेन सह केलिभिः कालं क्षेप्तुं वयस्येषु न उपलभ्यमानः आसीत्।
Question 5.
बालस्य मित्राणि के भविष्यन्ति?
Answer
Answer: निष्कुटवासिनः एव प्राणिनो सर्वे बालस्य वयस्याः भविष्यन्ति।
Question 6.
अत्र बालः” इति पदस्य विशेषणपदं किम्?
Answer
Answer: भ्रान्तः
Question 7.
अनुच्छेदे ‘चिन्तयामास’ इति पदस्य कर्ता कः?
Answer
Answer: सः
Question 8.
‘आचार्यस्य’ इति पदस्य पर्यायपदम् अत्र गद्यांशे किं प्रयुक्तम्?
Answer
Answer: उपाध्यायस्य
Question 9.
चिन्तयामास ‘इत्यर्थे किं पदं अत्र प्रयुक्तम्?
Answer
Answer: अचिन्तयत्
अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्रिवारं आह्वयत्। तथापि, सः मधुकरः अस्य बालस्य आह्वानं तिरस्कृतवान्। ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत्-“वयं हि मधुसंग्रहव्यग्रा” इति। तदास बालः ‘अलंभाषणेन अनेन मिथ्यागवितेन कीटेन’ इति विचिन्त्य अन्यत्र दत्तदृष्टिः चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्, अवदत् च-“अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः। एतत् शुष्कं तृणं त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि” इति। स तु “मया वटद्वमस्य शाखायां नीडं कार्यम्” इत्युक्त्वा स्वकर्मव्यग्रो अभवत्।
Question 1.
बालः कुत्र भ्रमन्तं एकं मधुकरम् अपश्यत?
Answer
Answer: पुष्पोद्यानम्
Question 2.
चटकपोतः कस्मिन् कार्ये व्यग्रः आसीत्?
Answer
Answer: नीडकार्ये
Question 3.
बालः सर्वप्रथमम् किम् अपश्यत्?
Answer
Answer: मधुकरम्
Question 4.
बालकः चटकपोतम् किम् दातुम् इच्छति?
Answer
Answer: बालकः चटकपोतम् स्वादूनि भक्ष्यकवलानि दातुम् इच्छति।
Question 5.
चटकपोतः बालम् किम् अकथयत्?
Answer
Answer: अहम् तु ‘नीड:कार्यो बटद्रुशाखायां तद्यामि कार्येण इत्युक्तवा सः स्वकर्मव्यग्रो बभूव।
Question 6.
अत्र आह्वयत्’ इति क्रियापदस्य कर्ता कः अस्ति?
Answer
Answer: सः
Question 7.
‘अवलोक्य’ इति पदस्य पर्यायपदं किं प्रयुक्तम् अत्र?
Answer
Answer: दृष्ट्वा
Question 8.
अनुच्छेदे ‘मधुकरम्’ इति पदस्य विशेषणपदं किं प्रयुक्तम्?
Answer
Answer: व्रजन्तम्
Question 9.
पुनः पुनः इत्यर्थे किं पदं अत्र अनुच्छेदे प्रयुक्तम्?
Answer
Answer: भूयोभूयः
तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति। तद् अन्वेषयामि अपरं मानुषोचितं विनोदयितारम् इति विचिन्त्य पलायमानं कमपि श्वानम् अवलोकयत्। प्रीतो बालः तम् इत्थं सम्बोधयत्-रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे? इदं प्रच्छायशीतलं तरुमूलम् आश्रयस्व। अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति। कुक्कुरः प्रत्यवदत् यो मां पत्रप्रीत्या पोषयति स्वामिनो गहे तस्य। रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि॥ इति।
Question 1.
बालः कीदृशः आसीत्?
Answer
Answer: खिन्नः
Question 2.
बालः क्रीडासहायं कम् पश्यति?
Answer
Answer: कुक्कुरम्
Question 3.
श्वानम् दृष्टवा बालः कीदृशः जातः?
Answer
Answer: (प्रसन्नः (प्रीतः)
Question 4.
कुक्कुरः पुत्रप्रीत्या केन पोषयति?
Answer
Answer: कुक्कुरः पुत्रप्रीत्या स्वामिना पोषयति।
Question 5.
प्रीतः बालः कुक्कुरं किं सबोधयामास?
Answer
Answer: प्रीतः बालः कुक्कुरः संबोधयामास-रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे? इदं प्रच्छायशीतलं तरुमूलम् आश्रयस्व। अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति।
Question 6.
रात्रौ’ इति पदस्य विलोमपदम् किं अस्ति अत्र?
Answer
Answer: दिवसे
Question 7.
अत्र अनुच्छेदे ‘उपगच्छन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: पक्षिणः
Question 8.
अत्र ‘अस्मिन् निदाघदिवसे’ अत्र विशेष्यपदं किम्?
Answer
Answer: निदाघदिवसे
Question 9.
समीपं गच्छन्ति’ इति अर्थे समस्तपदं किम्?
Answer
Answer: उपगच्छन्ति
सर्वैः एवं निषिद्धः स बालो भग्नमनोरथः सन्- ‘कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति। न कोऽपि माम् इव वृथा कालक्षेपं सहते। नम एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता। अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।। ततः प्रभृति स विद्याव्यसनी भूत्वा महती वैदुषी प्रथा सम्पदं च अलभत।
Question 1.
बालः त्वरितं कुत्र अगच्छत्?
Answer
Answer: पाठशालाम्
Question 2.
बालः सर्वैः कीदृशः आसीत्?
Answer
Answer: निषिद्धः
Question 3.
बालः कीदृशः मनोरथः अभवत्?
Answer
Answer: विघ्नितः।
Question 4.
विघ्नितमनोरथः बालः किम् अचिन्तयत्?
Answer
Answer: विघ्नितमनोरथः बालः अचिन्तयत् यत् अस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नः भवति।
Question 5.
बालः किम् लेभे?
Answer
Answer: बालः विद्याव्यसनी भूत्वा महती वैदुषी प्रथा सम्पदं च लेभे।
Question 6.
अत्र ‘जगति’ अस्य पदस्य विशेषणपदं किम्?
Answer
Answer: अस्मिन्
Question 7.
अनुच्छेदे ‘करोमि’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: अहम्
Question 8.
शीघ्रम्’ इति पदस्य पर्यायपदं किम् प्रयुक्तम् अत्र?
Answer
Answer: त्वरितम्
Question 9.
‘शनैः शनैः’ इति पदस्य अत्र अनुच्छेदे विपर्ययपदं किं प्रयुक्तम्?
Answer
Answer: त्वरितम्
अन्वय लेखनम्
अधोलिखितस्य श्लोकस्य प्रदत्ते अन्वये रिक्तस्थानानि पूरयत
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि। इति।
यः पुत्रप्रीत्या (i) …………. पोषयति तस्य (ii) …………. गृहे (iii) …………. करणात् मया (iv) …………. अपि न भ्रष्टव्यम्।
मञ्जूषा- ईषत्, स्वामिनः, माम्, रक्षानियोग
Answer
Answer:
(i) माम्
(ii) स्वामिनः
(iii) रक्षानियोग
(iv) ईषत्
निम्नवाक्यानि घटनाक्रमानुसारं पुनर्लिखत
1. (i) एकदा एकः तन्द्रालुः बालः आसीत्।
(ii) सः बालः विहिनत मनोरथः चिन्तितवान्-‘कथं अस्मिन् जगति प्रत्येकं जनाः स्व-स्व कार्येषु निमग्नाः सन्ति।’
(iii) हे मनुष्याणां मित्र कुक्कुर! अस्मिन् निदाघे तरुमूले मया सह खेतिष्यसि?
(iv) सः अगायत् – वयं हि मधुसंग्रहे व्यग्राः स्मः इति।
(v) सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडाहेतोः आह्वयत्।
(vi) अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि किम्?
(vii) ततः प्रभृति सः विद्याभ्यासं कृत्वा वैदुषी प्रथां सम्पत्तिं च अलभत।
(viii) मम स्वामी पुत्र प्रीत्या मां पोषयति अतः अहं तस्य सेवायाः भ्रष्टः न भविष्यामि।
Answer
Answer:
(i) एकदा एकः तन्द्रालुः बालः आसीत्।
(ii) सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडाहेतोः आह्वयत्।
(iii) सः अगायत् – वयं हि मधुसंग्रहे व्यग्राः स्मः इति।
(iv) अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि किम्?
(v) हे मनुष्याणां मित्र कुक्कुर! अस्मिन् निदाघे तरुमूले मया सह खेतिष्यसि?
(vi) मम स्वामी पुत्र प्रीत्या मां पोषयति अतः अहं तस्य सेवायाः भ्रष्टः न भविष्यामि।
(vii) सः बालः विहिनत मनोरथः चिन्तितवान्-‘कथं अस्मिन् जगति प्रत्येकं जनाः स्व-स्व कार्येषु निमग्नाः सन्ति।’
(viii) ततः प्रभृति सः विद्याभ्यासं कृत्वा वैदुषी प्रथा सम्पत्तिं च अलभत।
2. (i) सः तु चटकपोतं दृष्ट्वा अवदत् – ‘मम मित्रं भविष्यसि’?
(ii) सः चिन्तयामास – विरमन्तु एते पुस्तकदासाः वराकाः। अहं पुनः आत्मानं विनोदयिष्यामि।
(iii) सः तु नीड निर्माणे व्यस्तः आसीत् अतः स्वकर्मणि व्यग्रो बभूव।
(iv) प्रीतः बातः श्वानं सम्बोधयामास-रे मनष्याणां मित्र! किम् अस्मिन् निदाधे मया सह पर्यटसि।
(v) एकः बालः पाठशालागमनबेलायां क्रीडितुं गच्छति।
(vi) एते निष्कुटवासिनः प्राणिनः एव मम वयस्याः सन्ति।
(vii) न, अहं स्वामिन सेवे अतः रक्षानियोगात् भ्रष्टः न भविष्यामि।
(viii) सः स्व उचितं भविष्यं विचार्य त्वरितं विद्यालयं गतवान्।
Answer
Answer:
(i) एकः बालः पाठशालागमनबेलायां क्रीडितुं गच्छति।
(ii) सः चिन्तयामास – विरमन्तु एते पुस्तकदासाः वराकाः। अहं पुनः आत्मानं विनोदयिष्यामि।
(iii) एते निष्कुटवासिनः प्राणिनः एव मम वयस्याः सन्ति।
(iv) सः तु चटकपोतं दृष्ट्वा अवदत् – ‘मम मित्रं भविष्यसि’?
(v) सः तु नीड निर्माणे व्यस्तः आसीत् अतः स्वकर्मणि व्यग्रो बभूव।
(vi) प्रीतः बातः श्वानं सम्बोधयामास-रे मनष्याणां मित्र! किम् अस्मिन् निदाधे मया सह पर्यटसि।
(vii) न, अहं स्वामिनं सेवे अतः रक्षानियोगात् भ्रष्टः न भविष्यामि।
(viii) सः स्व उचितं भविष्यं विचार्य त्वरितं विद्यालयं गतवान्।
निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु पर्यायचयनम् कुरुत
‘क’ वर्ग: – ‘ख’ वर्गः
1. भ्रान्तः – अल्पमात्रम् अपि
2. चिन्तयामास – ग्रीष्मदिने
3. उपाध्यायस्य – पक्षी
4. वयस्य – स्वादिष्टानि
5. व्रजन्तम् – धावन्तम्
6. चञ्च्वा – खेलावः
7. आददानम् – वृक्षः
8. मिथ्यागर्वितेन – क्रीडाभिः
9. स्वादूनि – कुक्कुरः
10. पलायमानम् – योग्यम्
11. निदाघदिवसे – आचार्यस्य
12. अनुरूपम् – चञ्चुपुटेन
13. श्वानः – व्याहङ्कारयुक्तेन
14. तरुः – भ्रमयुक्तः
15. ईषदपि – अचिन्तयत्
16. चटकम् – मित्र
17. केलिभिः – भ्रमन्तम्
18. क्रीडावः – गृह्णन्तम्
Answer
Answer:
1. भ्रमयुक्तः
2. अचिन्तयत्
3. आचार्यस्य
4. मित्र
5. भ्रमन्तम्
6. चञ्चुपुटेन
7. गृह्णान्तम्
8. व्यर्थाहङ्कारयुक्तेन
9. स्वादिष्टानि
10. धावन्तम्
11. ग्रीष्मदिने
12. योग्यम्
13. कुक्कुरः
14. वृक्षः
15. अल्पमात्रम् अपि
16. पक्षी
17. क्रीडाभिः
18. खेलावः
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(i) एते – बालः
(ii) स – बाले
(iii) आचरित – कीटेन
(iv) व्रजन्तं – बालकः
(v) मिथ्यागर्वितेन – पक्षिणः
(vi) खिन्नः – निदाघदिवसे
(vii) एते – वैदुषीं
(viii) अस्मिन् – बालः
(ix) महती – प्रच्छायशीतलं
(x) निषिद्ध – मुधकरं
(xi) प्रीतः – पुस्तकदासाः
(xii) तरुमूलम् – बालाः
Answer
Answer:
(i) पुस्तकदासाः
(ii) बालः
(iii) बाले
(iv) मधुकरं
(v) कीटेन
(vi) बालकः
(vii) पक्षिणः
(vii) निदाघदिवसे
(ix) वैदुषीं
(x) बालाः
(xi) बालः
(xii) प्रच्छायशीतलं
निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु विलोमपदचयनम् कुरुत
‘क’ वर्गः – ‘ख’ वर्गः
1. खिन्नः – अननुरूपम्
2. त्वरितम् – सेवकस्य
3. दिवसे – उष्णम्
4. शीतलम् – रात्री
5. सहायम् – रिपुः
6. अनुरूपम् – प्रसन्नः
7. स्वामिनः – शनैः शनैः
8. मित्रम् – असहायम्
Answer
Answer:
1. प्रसन्नः
2. शनैः शनैः
3. रात्रौ
4. उष्णम्
5. असहायम्
6. अननुरूपम्
7. सेवकस्य
8. रिपुः
We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 6 भ्रान्तो बालः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit भ्रान्तो बालः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.