Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided सौहार्दं प्रकृतेः शोभा Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.
Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 7 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.
निम्नवाक्येषु रेखांकितपदानां आधृत्य विकल्पेभ्यः उचितं पदं चित्वा प्रश्ननिर्माणं कुरुत-
Question 1.
मयूरः विधात्रा एव पक्षिराजः कृतः।
(i) कस्य
(ii) केन
(iii) किम्
(iv) कः
Answer
Answer: (ii) केन
Question 2.
मयूरस्य नृत्यं तु प्रकृतेः आराधना।
(i) कस्य
(ii) कस्याः
(iii) कः
(iv) कथम्
Answer
Answer: (ii) कस्याः
Question 3.
व्याघ्रचित्रको नदीजलं पातुम् आगतौ।
(i) कः
(ii) कौ
(iIi) कस्योः
(iv) कयोः
Answer
Answer: (ii) कौ
Question 4.
मयूरस्य पिच्छानाम् सौन्दर्य अपूर्वम् अस्ति।
(i) कीदृशम्
(ii) केषाम्
(iii) कीदृशः
(iv) किम्
Answer
Answer: (ii) केषाम्
Question 5.
सिंहमोदयेन सम्यक् उक्तम्।
(i) कथम्
(ii) केन
(iii) किम्
(iv) काम्
Answer
Answer: (ii) केन
Question 6.
अधुना तु कोऽपि पक्षी एव रोजति निश्चेतव्यम्।
(i) कदा
(ii) कुत्र
(iii) का
(iv) किमर्थम्
Answer
Answer: (i) कदा
Question 7.
व्याघ्रचित्रकौ भक्षको न तु रक्षको।
(i) कौ
(ii) कीदृशौ
(iii) कयौः
(iv) कस्योः
Answer
Answer: (i) कौ
Question 8.
बकस्य कारणात् तु सर्वं पक्षिकुलम् अवमानितं जातम्।
(i) कीदृशः
(ii) कीदृशम्
(iii) किम्
(iv) कम्
Answer
Answer: (ii) कीदृशम्
Question 9.
काकस्य सत्यप्रियता तु जानानां कृते उदाहरणस्वरूपा अस्ति।
(i) काम्
(ii) केषाम्
(iii) कथम्
(iv) किम्
Answer
Answer: (ii) केषाम्
Question 10.
काकः कर्कशध्वनिना वातावरणम् आकुलीकरोति।
(i) का
(ii) केन
(iii) केभ्यः
(iv) कथम्
Answer
Answer: (ii) केन
Question 11.
काकः मेध्यामध्यम् सर्वं भक्षयति।
(i) कीदृशम्
(ii) कम्
(iii) किम्
(iv) कथम्
Answer
Answer: (iii) किम्
Question 12.
राजा तु रक्षकः भवति।
(i) का
(ii) कः
(iii) काः
(iv) किम्
Answer
Answer: (ii) कः
Question 13.
पिककाकयोः भेदः वसन्तसमये प्राप्ते।
(i) के
(ii) कयोः
(iii) कदा
(iv) कथम्
Answer
Answer: (iii) कदा
Question 14.
सिंहः सर्वजन्तून् दृष्ट्वा पृच्छति।
(i) किम्
(ii) कान्
(iii) कम्
(iv) कः
Answer
Answer: (ii) कान्
Question 15.
परस्परं विवादतः प्राणिनां हानिः जायते।
(i) काम्
(ii) केषाम्
(iii) किम्
(iv) कथम्
Answer
Answer: (ii) केषाम्
Question 16.
नदीमध्ये एकः बकः आसीत्।
(i) कुत्र
(ii) के
(iii) कदा
(iv) कयोः
Answer
Answer: (i) कुत्र
आधोलिखितस्य नाट्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत
(क) (वनस्य दृश्यम् समीपे एवैका नदी अपि वहति।) एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छ धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति। एवमेव वानराः वारं वारं सिंह तुदन्ति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति। निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति
Question 1.
कस्य समीपे एका नदी वहति?
Answer
Answer: वनस्य
Question 2.
एकः सिंहः कथम् विश्राम्यते?
Answer
Answer: सुखेन
Question 3.
वानराः वारं वारं कम् तुदन्ति?
Answer
Answer: सिंहम्
Question 4.
क्रुद्धः सिंहः किम् करोति?
Answer
Answer: क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुम् समर्थः एव न तिष्ठति।
Question 5.
पक्षिणः अपि सिंहस्य दशां दृष्ट्वा किं कुर्वन्ति?
Answer
Answer: पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
Question 6.
‘तुदन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: वानराः
Question 7.
‘पक्षिणः’ इति कर्तृपदस्य क्रियापदं किम्?
Answer
Answer: कुर्वन्ति
Question 8.
‘क्रुद्धः सिंहः’ अनयोः पदयोः विशेष्यपदं किम्?
Answer
Answer: सिंहः
Question 9.
‘तस्य पुच्छ धुनोति’ अत्र ‘तस्य’ पदं कस्मै प्रयुक्तम्?
Answer
Answer: सिंहाय
(ख) सिंहः-(क्रोधेन गर्जन्) भोः! अहं वनराजः किं भयं न जायते? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा?
एकः वानरः- यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः। राजा तु रक्षकः भवति परं त्वं तु भक्षकः। अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि?
अन्यः वानरः-किं न श्रुता त्वया पञ्चतन्त्रोक्तिः
Question 1.
कः कथयति अहं वनराजः अस्मि?
Answer
Answer: सिंहः
Question 2.
सिंहः कथम् अवदत्?
Answer
Answer: क्रोधेन
Question 3.
राजा तु कीदृशः भवति?
Answer
Answer: रक्षकः
Question 4.
वानरः सिंहम् किं कथयति?
Answer
Answer: वानरः सिंहम् कथयति त्वं तु वनराजः भवितुम् तु सर्वथाऽयोग्यः। राजा तु रक्षक : भवति परं भवान् भक्षकः।
Question 5.
सिंहः क्रोधेन गर्जन् किं वदति?
Answer
Answer: सिंहः क्रोधेन गर्जन् वदति यत्-भोः! अहं वनराजः किं भयं न जायते? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा?
Question 6.
‘पीडयन्ति’ इति अर्थे कि पदं प्रयुक्तम्?
Answer
Answer: तुदन्ति
Question 7.
‘भक्षकः’ इति विपर्ययपदं कि प्रयुक्तम्?
Answer
Answer: रक्षकः
Question 8.
‘त्वया’ इति कर्तृपदस्य क्रियापदम् किम्?
Answer
Answer: श्रुता
Question 9.
‘त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः’ अत्र ‘त्वं’ पदं कस्मै प्रयुक्तम्?
Answer
Answer: सिंहाय
(ग) काकः – आम् सत्यं कथितं त्वया-वस्तुतः वनराजः भवितुं तु अहमेव योग्यः।
पिकः – (उपहसन्) कथं त्वं योग्यः वनराजः भवितुं, यत्र तत्र का-का इति कर्कशध्वनिना वातावरणमाकुलीकरोषि। न रूपं न ध्वनिरस्ति। कृष्णवर्णं, मेध्यामेध्यभक्षकं त्वां कथं वनराजं मन्यामहे वयम्?
काकः – अरे! अरे! किं जल्पसि? यदि अहं कृष्णवर्णः तर्हि त्वं किं गौराङ्गः? अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा-‘अनृतं वदसि चेत् काकः दशेत्’-इति प्रकारेण। अस्माकं परिश्रमः ऐक्यं च विश्वप्रथितम् अपि च काकचेष्ट: विद्यार्थी एव आदर्शच्छात्रः मन्यते। पिक:-अलम् अलम् अतिविकत्थनेन। किं विस्मर्यते यत्
Question 1.
अनृतं वदसि चेत् कः दशेत्?
Answer
Answer: काकः
Question 2.
क: वातावरणम् आकुली करोति?
Answer
Answer: काकः
Question 3.
कस्य सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा?
Answer
Answer: काकस्य
Question 4.
काकः स्वविषये किं कथयति?
Answer
Answer: काकः स्वविषये कथयति यत् अस्माकम् परिश्रमं ऐक्यं च विश्वप्रथितम् अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।
Question 5.
केषाम् किं विश्वप्रथितम्?
Answer
Answer: काकानाम् परिश्रमः ऐक्यं च विश्वप्रथितम्।
Question 6.
अस्मिन् नाट्यांशे विपर्ययपदं किम् अस्ति?
Answer
Answer: मेध्यामेध्यम्
Question 7.
“मम सत्यप्रियता …………………. अस्मिन् वाक्ये ‘मम’ पदं कस्मै प्रयुक्तम्?
Answer
Answer: काकाय
Question 8.
‘असत्यम्’ इति पदस्य अर्थे किं पदं प्रयुक्तम्?
Answer
Answer: अनृतम्
Question 9.
‘कथितम्’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: त्वया
(घ) काकः- रे परभृत्! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः।
गजः-समीपतः एवागच्छन् अरे! अरे! सर्वां सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि। वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव योग्यः वनराजपदाय।
वानरः-अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।)
Question 1.
काकः कस्य सन्ततिं पालयति?
Answer
Answer: पिकस्य
Question 2.
करुणापरः पक्षिसम्राट् कः?
Answer
Answer: काकः
Question 3.
कः वनराजपदाय योग्यः?
Answer
Answer: गजः
Question 4.
गजः आत्मनः विषये किं कथयति?
Answer
Answer: गजः आत्मनः विषये कथयति यत् अहम् विशालकायः, बलशाली, पराक्रमी च। मया सदृशः कोऽपि पराक्रमी नास्ति।
Question 5.
काकः स्वविषये पिकं किं वदति?
Answer
Answer: काकः स्वविषये पिंक वदति-रे परभृत्! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः।
Question 6.
‘सर्वाम् वार्ताम्’ अत्र विशेष्यपदं किं प्रयुक्तम्?
Answer
Answer: वार्ताम्
Question 7.
‘अहमेव योग्यः’ अत्र ‘अहम्’ पदं कस्मै प्रयुक्तम्?
Answer
Answer: गजाय
Question 8.
‘पालयामि’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: अहम्
Question 9.
‘वानरः’ इति कर्तृपदस्य क्रियापदम् किम्?
Answer
Answer: आरोहति
(ङ) (गजः तं वृक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं वानरस्तु कुर्दित्वा अन्यं वृक्षमारोहति। एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा सिंहः अपि हसति वदति च।)
सिंह-भोः गज! मामप्येवमेवातुदन् एते वानराः।
वानरः-एतस्मादेव तु कथयामि यदहमेव योग्यः वनराजपदाय येन विशालकायं पराक्रमिणं, भयंकरं चापि सिंह गजं वा पराजेतुं समर्था अस्माकं जातिः। अतः वन्यजन्तूनां रक्षायै वयमेव क्षमाः।
(एतत्सर्वं श्रुत्वा नदीमध्यस्थितः एकः बकः)
बकः-अरे! अरे! मां विहाय कथमन्यः कोऽपि राजा भवितुमर्हति अहं तु शीतले जले बहुकालपर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि, योजना निर्मीय च स्वसभायां विविधपदमलंकुर्वाणैः जन्तुभिश्च मिलित्वा रक्षोपायान् क्रियान्वितान् कारयिष्यामि अतः अहमेव वनराजपदप्राप्तये योग्यः।
मयूरः- (वृक्षोपरितः-साट्टहासपूर्वकम्) विरम विरम आत्मश्लाघायाः। किं न जानासि यत्
Question 1.
गजः वृक्षम् केन आलोडयितुमिच्छति?
Answer
Answer: स्वशुण्डेन
Question 2.
वानरः किम् कृत्वः वृक्षामारोहति?
Answer
Answer: कूर्दित्वा
Question 3.
कः शीतले जले तिष्ठति?
Answer
Answer: बकः
Question 4.
बकः कुत्र स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यति?
Answer
Answer: बकः शीतले जले बहुकालपर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञः इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्याति।
Question 5.
सिंहः कथं हसति वदति च?
Answer
Answer: गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा सिंहः अपि हसति वदति च।
Question 6.
‘स्थिता प्रज्ञा यस्य सः’ अस्य पदस्य समस्तपदं किम्?
Answer
Answer: स्थितप्रज्ञः
Question 7.
‘आकर्ण्य’ इति पदस्य पर्यायपदं किम्?
Answer
Answer: श्रुत्वा
Question 8.
‘शीतले जले’ अत्र विशेषणपदं किम्?
Answer
Answer: शीतले
Question 9.
‘अयोग्यः’ पदस्य विपर्ययपदं किम्?
Answer
Answer: योग्यः
(च) को न जानाति तव ध्यानावस्थाम्। ‘स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम्।
वानरः – (सगर्वम्) अतएव कथयामि यत् अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः।
मयूरः – अरे वानर! तूष्णीं भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाह पक्षिराजः कृतः अतः वने निवसन्तं माम् वनराजरूपेणापि द्रष्टुं सज्जा: भवन्तु अधुना यतः कथं कोऽप्यन्यः विधातुः निर्णयम् अन्यथाकर्तुं क्षमः।
काकः – (सव्यङ्ग्यम् ) अरे अहिभुक्। नृत्यातिरिक्तं का तव विशेषता यत् त्वां वनराजपदाय योग्यं मन्यामहे वयम्।
मयूरः – यतः मम नृत्यं तु प्रकृतेः आराधना। पश्य! पश्य! मम पिच्छानामपूर्वं सौंदर्यम् (पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः सन्) न कोऽपि त्रैलोक्ये मत्सदृशः सुन्दरः। वन्यजन्तूनामुपरि आक्रमणं कर्तारं तु अहं स्वसौन्दर्येण नृत्येन च आकर्षितं कृत्वा वनात् बहिष्करिष्यामि। अतः अहमेव योग्यः वनराजपदाय।
Question 1.
‘को न जानाति तव ध्यानावस्थाम्।’ इति कः कथयति?
Answer
Answer: मयूरः
Question 2.
केषाम् सौन्दर्यम् अपूर्वम् अस्ति?
Answer
Answer: पिच्छानाम्
Question 3.
वानरः कस्मै आत्मानं योग्यः वदति?
Answer
Answer: वनराजपदाय
Question 4.
विधात्रा मयूरः पक्षिराजः किमर्थम् कृतः?
Answer
Answer: मयूरस्य शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एव मयूरम् पक्षिराजः कृतः।
Question 5.
काकः मयूर सव्यङ्ग्यं किं वदति?
Answer
Answer: काकः मयूरं सव्यङ्ग्यं वदति-अरे अहिभुक्। नृत्यातिरिक्तं का तव विशेषता यत् त्वां वनराजपदाय योग्यं मन्यामहे वयम्।
Question 6.
“अहिं भुङक्ते यः सः” इति पदस्य समस्तपदं किं प्रयुक्तम्?
Answer
Answer: अहिभुक्
Question 7.
‘वराकान्’ इति विशेषणपदस्य विशेष्यपदं किम्?
Answer
Answer: मीनान्
Question 8.
‘धिक् त्वाम्’ अत्र ‘त्वाम्’ पदं कस्मै प्रयुक्तम्?
Answer
Answer: बकाय
Question 9.
‘बहिष्करिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: अहम्
(छ) (एतस्मिन्नेव काले व्याघ्रचित्रको अपि नदीजलं पातुमागतौ एतं विवादं शृणुतः वदतः च) व्याघ्रचित्रकौ -अरे किं वनराजपदाय सुपात्रं चीयते?
एतदर्शं तु आवामेव योग्यौ। यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मत्या।
सिंह – तूष्णीं भव भोः। युवामपि मत्सदृशौ भक्षकौ न तु रक्षको। एते वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्शः प्रचलित।
बकः -सर्वथा सम्यगुक्तम् सिंहमहोदयेन। वस्तुतः एव सिंहेन बहुकालपर्यन्तं शासनं कृतम् परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाशः एव नास्ति।
Question 1.
नदीजलं पातुम् को आगतौ?
Answer
Answer: व्याघ्रचित्रकौ
Question 2.
‘आवामेव योग्यौ’ इति कौ वदतः?
Answer
Answer: व्याघ्रचित्रको
Question 3.
केन बहुकालपर्यन्तं शासनं कृतम्?
Answer
Answer: सिंहेन
Question 4.
सिंहः किम् कथयति?
Answer
Answer: सिंहः व्याघ्रचित्रको कथयति यत् युवामापि मत्सदृशौ भक्षकौ न तु रक्षकौ। एते वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्शः प्रचलति।
Question 5.
बकानुसारेण किं निश्चेतव्यम्?
Answer
Answer: सर्वथा सम्यगुक्तम् सिंहमहोदयेन। वस्तुतः एव सिंहेन बहुकालपर्यन्तं शासनं कृतम् परमधुना तु कोऽपि पक्षी एव राजेति बकानुसारेण निश्चेतव्यम् अत्र।।
Question 6.
‘भक्षकौ’ इति पदस्य विपर्ययपदं किम्?
Answer
Answer: रक्षकौ
Question 7.
रक्षकौ’ इति पदस्य कर्तपदं किम्?
Answer
Answer: युवाम्
Question 8.
सम्प्रति’ इति पदस्य पर्यायपदं किम्?
Answer
Answer: अधुना
Question 9.
‘नद्याः जलम्’ इत्यस्य पदस्य समस्तपदं किम्?
Answer
Answer: नदीजलम्
(ज) सर्वे पक्षिणः- (उच्चैः) आम् आम्-कश्चित् खगः एव वनराजः भविष्यति इति।
(परं कश्चिदपि खगः आत्मानं विना नान्यं कमपि अस्मै पदाय योग्यं चिन्तयन्ति तर्हि कथं निर्णयः भवेत् तदा तैः सर्वैः गहननिद्रायां निश्चिन्तं स्वपन्तम् उलूकं वीक्ष्य विचारितम् यदेषः आत्मश्लाघाहीनः पदनिर्लिप्तः उलूको एवास्माकं राजा भविष्यति। परस्परमादिशन्ति च तदानीयन्तां नृपाभिषेकसम्बन्धिनः सम्भाराः इति।) सर्वे पक्षिणः सज्जायै गन्तुमिच्छन्ति तर्हि अनायास एव ….
काकः-(अट्टहासपूर्णेन-स्वेरण)-सर्वथा अयुक्तमेतत् यन्मयूर-हंस-कोकिल-चक्रवाक-शुक-सारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकार्थं सर्वे सज्जाः। पूर्ण दिनं यावत् निद्रायमाणः
एषः कथमस्मान् रक्षिष्यति। वस्तुतस्तु।
Question 1.
सर्वे पक्षिणः कस्य सज्जायै गन्तुमिच्छन्ति?
Answer
Answer: उलूकम्
Question 2.
गहननिद्रायां कः स्वपिति?
Answer
Answer: उलूकः
Question 3.
आत्मश्लाघाहीनः को वर्तते?
Answer
Answer: उलूकः
Question 4.
सर्वे पक्षिण: उच्चैः किं कथयन्ति?
Answer
Answer: काकः अट्टहासपूर्णेन स्वरेण वदति-सर्वे पक्षिणः उच्चैः कथयन्ति यत् आम् आम् कश्चित् खगः एव वनराजः भविष्यति इति।
Question 5.
काकः अट्टहासपूर्णेन स्वरेण किं वदति?
Answer
Answer: काकः अट्टहासपूर्णेन स्वेरण वदति-सर्वथा अयुक्तमेतत् यन्मयूर-हंस-कोकिल-चक्रवाक-शुक-सारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकार्थं सर्वे सज्जाः। पूर्ण दिनं यावत् निद्रायमाणः एषः कथमस्मान् रक्षिष्यति।
Question 6.
‘पशवः’ इति पदस्य विपर्ययपदं किम् अस्ति?
Answer
Answer: पक्षिणः
Question 7.
‘सर्वे पक्षिणः’ अत्र विशेष्य पदं किम् प्रयुक्तम्?
Answer
Answer: पक्षिणः
Question 8.
‘रक्षिष्यति’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: एषः
Question 9.
‘नीचैः’ इति पदस्य विपर्ययः पदम् किम् प्रयुक्तम्?
Answer
Answer: उच्चैः
(झ) (सस्नेहम्) भोः भोः प्राणिनः। यूयम् सर्वे एव मे सन्ततिः। कथं मिथः कलहं कुर्वन्ति। वस्तुतः सर्वे
वन्यजीविनः अन्योन्याश्रिताः। सदैव स्मरत
ददाति प्रतिगृह्णाति, गुह्यमाख्यति पृच्छति।
भुङ्क्ते भोजयते चैव षड्-विधं प्रीतिलक्षणम्॥
(सर्वे प्राणिनः समवेतस्वरेण)
मातः। कथयति तु भवती सर्वथा सम्यक् परं वयं भवतीं न जानीमः। भवत्याः परिचयः कः? प्रकृतिमाता-अहं प्रकृति युष्माकं सर्वेषां जननी? यूयं सर्वे एव मे प्रियाः। सर्वेषामेव मत्कृते महत्वं विद्यते यथासमयम् न तावत् कलहेन समयं वृथा यापयन्तु अपितु मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्। तद्यथा कथितम्
Question 1.
सर्वेषाम् प्राणिनाम् माता का?
Answer
Answer: प्रकृतिमाता
Question 2.
सर्वे प्राणिनः परस्परम् किं कुर्वन्ति?
Answer
Answer: कलहम्
Question 3.
प्रीतिलक्षणम् कतिविधम् अस्ति?
Answer
Answer: षड्विधम्
Question 4.
प्रकृतिमाता किं कथयति?
Answer
Answer: प्रकृतिमाता कथयति सर्वेषामेव महत्वं विद्यते यथासमयम् न तावत् कलहेन समयं वृथा यापयन्तु अपितु मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्।
Question 5.
सर्वे जीवाः किं कुर्वन्तु?
Answer
Answer: सर्वे जीवाः यथासमयम् न तावत् कलहेन समयं वृथा यापयन्तु अपितु मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्।
Question 6.
‘स्नेहेन सहितम्’ इत्यर्थे कि समस्तपदं प्रयुक्तम्?
Answer
Answer: सस्नेहम्
Question 7.
‘माता’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?
Answer
Answer: जननी
Question 8.
‘युष्माकम् सर्वेषां जननी’ अत्र ‘जननी’ पदं कस्यै आगतम्?
Answer
Answer: प्रकृतिमात्रे
Question 9.
गद्यांशे ‘भवतः’ इति पदस्य स्त्रीलिंगे किमस्ति?
Answer
Answer: भवत्याः
अधोलिखितस्य श्लोकं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत
(क) यो न रक्षति वित्रस्तान् पीड्यमानान्परैः सदा।
जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः।।
Question 1.
कीदृशान् जनान् राजा न रक्षति?
Answer
Answer: वित्रस्तान्
Question 2.
जन्तव कीदृशैः जनैः पीडयन्ति?
Answer
Answer: अपरैः
Question 3.
नृपः कान् रक्षेत्?
Answer
Answer: जन्तून्
Question 4.
कः कृतान्तः (यमराजः) भवति?
Answer
Answer: यः (राजा) पार्थिवरूपेण सदा अपरैः वित्रस्तान् पीड्यमानान् जन्तून् न रक्षति सः कृतान्तः भवति।
Question 5.
नृपः कान् रक्षेत्?
Answer
Answer: नृपः सदा परैः पीड्यमानान् वित्रस्तान् जन्तून् रक्षेत्।
Question 6.
‘यमराजः’ इत्यर्थे कि पदं प्रयुक्तम्?
Answer
Answer: कृतान्तः
Question 7.
‘रक्षति’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: यः
Question 8.
‘वित्रस्तान् जन्तून्’ अत्र विशेष्यपदं किम्?
Answer
Answer: जन्तून्
Question 9.
अत्र श्लोके अव्ययपदं किम् प्रयुक्तम्?
Answer
Answer: सदा
(ख) काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
Question 1.
काकस्य वर्णः कीदृशः भवति?
Answer
Answer: कृष्णः
Question 2.
पिकस्य वर्णः कीदृशः भवति?
Answer
Answer: कृष्णः
Question 3.
कयोः वर्णः कृष्णः भवति?
Answer
Answer: पिककाकयोः
Question 4.
पिककाकयोः भेदः कदा प्राप्यते?
Answer
Answer: पिककाकयोः भेदः वसन्त समये प्राप्यते।
Question 5.
काकः कदा काकः भवति?
Answer
Answer: वसन्त समये प्राप्ते काकः काकः भवति।
Question 6.
पिकः च काकः च तयोः’ अस्य पदस्य समस्तपदं किम्?
Answer
Answer: पिककाकयोः
Question 7.
श्लोके ‘आगमने’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?
Answer
Answer: प्राप्ते
Question 8.
अत्र ‘श्वेतः’ इति पदस्य विपर्ययपदं किम् आगतम्?
Answer
Answer: कृष्णः
Question 9.
अस्मिन् श्लोके क्रियापदं किम् प्रयुक्तम्?
Answer
Answer: ्राप्ते
(ग) यदि न स्यान्नरपतिः सम्यनेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥
Question 1.
नेता कीदृशः भवेत्?
Answer
Answer: सम्यक्
Question 2.
प्रजा कीदृशे जलधौ निमज्जति।
Answer
Answer: अकर्णधारा
Question 3.
का जलधौ विप्लवति?
Answer
Answer: नौः
Question 4.
प्रजाः कुत्र कीदृशम् इव निमज्जति?
Answer
Answer: यदि नरपतिः सम्यङ्नेता न भवति तदा प्रजा को यावत् जलयुक्ते जलधौ विप्लवन्ती नौका इव संसार सागरे निमज्जति।
Question 5.
प्रजायाः नरपतिः कः भवेत्?
Answer
Answer: प्रजायाः नरपतिः सम्यक् नेता भवेत्।।
Question 6.
‘राजा’ इति अर्थे किं पदं प्रयुक्तम्?
Answer
Answer: नरपतिः
Question 7.
‘प्रजा’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?
Answer
Answer: नरपतिः
Question 8.
‘सागरे’ इति पदस्य पर्यायपदं किम्?
Answer
Answer: जलधौ
Question 9.
‘नौः इव’ इति पदस्य कृते किं पदम् प्रयुक्तम्?
Answer
Answer: नौरिव
(घ) स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति।
Question 1.
अति रौद्रः कस्य स्वभावः आसीत्।
Answer
Answer: उलूकस्य
Question 2.
अति क्रूरः कः अस्ति?
Answer
Answer: उलूकः
Question 3.
अप्रियवादिनं कं कथ्यते?
Answer
Answer: उलूकम्
Question 4.
काकः उलूकस्य विषये किं कथयति?
Answer
Answer: काकः उलूकस्य विषये कथयति यत् इमं भयङ्कर-स्वभावम् अतीव क्रोधिनम् निर्दयम् अपियवादिनम् उलूकं नृपं कृत्वा भवतां सर्वेषाम् कः लाभः भविष्यति अर्थात् कश्चिदपि न।
Question 5.
उलूकस्य स्वभावः कीदृशः भवति?
Answer
Answer: उलूकस्य स्वभावः रौद्रम् अति उग्रं च भवति।।
Question 6.
‘प्रियवादिनम्’ इति पदस्य विपर्ययपदं किम्?
Answer
Answer: अप्रियवादिनम्
Question 7.
‘सफलता’ इत्यर्थे किं पदं प्रयुक्तम्?
Answer
Answer: सिद्धिः
Question 8.
‘अति उग्रम् उलूकम्’ अनयोः पदयोः विशेषणपदं किम्?
Answer
Answer: अति उग्रम्
Question 9.
‘राजानम्’ इति पदस्य पयार्यपदं किम्?
Answer
Answer: नृपतिम्
(ङ) ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति।
भुङ्क्ते योजयते चैव षड्-विधं प्रीतिलक्षणम्॥
Question 1.
प्रीतिलक्षणम् कति विधम्?
Answer
Answer: षड्विधम्
Question 2.
षड्विधं किम् अस्ति?
Answer
Answer: तृतीयः
Question 3.
‘गुह्यमाख्याति’ कतमः गुणः अस्ति?
Answer
Answer: प्रीतिलक्षणम्
Question 4.
प्रीतिलक्षणम् कति सन्ति? नामानि लिखत।
Answer
Answer: प्रीतिलक्षणम् षड्विधं सन्ति-(1) ददाति, (2) प्रतिगृह्णाति, (3) गुह्यमाख्याति (4) पृच्छति (5) भुङ्क्ते (6) योजयते
Question 5.
कस्याः षड्विधं लक्षणं भवति?
Answer
Answer: प्रीतेः षड्विधं लक्षणं भवति।
Question 6.
‘प्रतिगृह्णाति’ इति पदस्य विपर्ययपदं पद्यांशे किमस्ति?
Answer
Answer: ददाति
Question 7.
‘खादति’ इत्यर्थे पद्यांशे किं पदम् प्रयुक्तम्?
Answer
Answer: भुङ्क्ते
Question 8.
‘प्रीते: लक्षणम्’ इत्यस्य पदस्य कृते किं समस्तपदं प्रयुक्ते?
Answer
Answer: प्रीतिलक्षणम्
Question 9.
‘गुह्यमाख्यति’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: मित्रम्
(च) प्रजासुखे सुखं राज्ञः, प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रियं हितम्॥
Question 1.
राज्ञः सुखं कस्मिन् भवति?
Answer
Answer: प्रजासुखे
Question 2.
प्रजानां हिते न हितं भवति?
Answer
Answer: राज्ञः
Question 3.
राज्ञः हितं किं नास्ति?
Answer
Answer: आत्मप्रियम्
Question 4.
राज्ञः किं प्रियम् किं च प्रियं न भवति?
Answer
Answer: राज्ञः आत्महितं प्रियं न भवति, प्रजानां तु हितम् तस्य प्रियम् भवति।
Question 5.
केषां हिते राज्ञः हितं भवति?
Answer
Answer: प्रजानां हिते राज्ञः हितं भवति।
Question 6.
‘प्रियम् हितम्’ अत्र विशेषणपदं किम्?
Answer
Answer: प्रियम्
Question 7.
‘प्रजानाम् सुखे’ इत्यस्य पदस्य कृते समस्तपदं किम्?
Answer
Answer: प्रजासुखे
Question 8.
‘अहितम्’ इति पदस्य विपर्ययपदं किम्?
Answer
Answer: हितम्
Question 9.
‘नृपस्य’ इति पदस्य पर्यायपदं किम्?
Answer
Answer: राज्ञः
(छ) अगाधजलसञ्चारी न गर्वं याति रोहितः।
अङ्गुष्ठोदकमात्रेण शफरी फुफुरायते॥
Question 1.
कः मत्स्यः गर्वं न करोति?
Answer
Answer: रोहितः
Question 2.
कः मत्स्यः फुर्फ़रायते?
Answer
Answer: शफरी
Question 3.
अगाधजलं सञ्चारी कः अस्ति?
Answer
Answer: रोहितः
Question 4.
शफरी कीदृशे जले फुफुरायते?
Answer
Answer: शफरी मत्स्यः अङ्गुष्ठमात्रे जले फुफुरायते।
Question 5.
रोहितः मत्स्यः कुत्र गर्वं न करोति?
Answer
Answer: रोहितः मत्स्यः अगाध जले सञ्चारी अपि गर्वं न करोति।
Question 6.
‘रोहितः’ इति कर्तृपदस्य क्रियापदं किम्?
Answer
Answer: याति
Question 7.
‘अगुष्ठः उदकः’ अत्र विशेषणपदं किम्?
Answer
Answer: अगुष्ठः
Question 8.
‘फुफुरायते’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: शफरी
Question 9.
‘आयाति’ इति पदस्य विपर्ययपदं किम्?
Answer
Answer: याति
(ज) प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते॥
Question 1.
परस्परविवादतः किम् भवति?
Answer
Answer: हानिः
Question 2.
केषाम् हानिः भवति?
Answer
Answer: प्राणिनाम्
Question 3.
परस्पर विवादतः प्राणिनां का जायते?
Answer
Answer: हानिः
Question 4.
प्राणिनां लाभः कदा भवति?
Answer
Answer: अन्योन्य सहयोगेन प्राणिनां लाभः जायते।
Question 5.
अन्योन्य सहयोगेन कः प्रजायते?
Answer
Answer: अन्योन्य सहयोगेन लाभः प्रजायते।
Question 6.
‘जायते’ इति क्रियापदस्य कर्तृपदं किम्?
Answer
Answer: हानिः
Question 7.
‘लाभः’ इति कर्तृपदस्य क्रियापदं किम्?
Answer
Answer: प्रजायते
Question 8.
‘हानिः’ इति पदस्य विपर्ययपदं किम्?
Answer
Answer: लाभः
Question 9.
‘अन्योन्यः’ इति पदस्य पर्यायपदं किम् प्रयुक्तम्?
Answer
Answer: परस्पर
वाक्येषु रेखाङ्कितपदानां स्थाने प्रश्नवाचकं पदं प्रयुज्य प्रश्ननिर्माणं कुरुत
(क) परस्परविवादतः प्राणिनां हानिः जायते।
(ख) मयूरस्य पिच्छानाम् सौन्दर्य अपूर्वं अस्ति।
(ग) त्रैलोक्ये मयूरस्य सदृशः कोऽपि नास्ति।
(घ) व्याघ्रचित्रको योग्यौ स्तः।
(ङ) बकः वन्यजन्तूनां प्रति रक्षोपायान् चिन्तयति।
(च) सिंहः वनानराभ्याम् स्वरक्षायाम् असमर्थः आसीत्।
(छ) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
(ज) सर्वे प्रकृतिमातरं प्रणमन्ति।
(झ) बकः मीनान् छलेन अधिगृत्य भक्षयति।
(ञ) बकः वराकान् मीनान् भक्षयति।
(ट) मयूरस्य नृत्यं प्रकृतेः आराधना।
(ठ) वानरः आत्मनं वनराजपदाय योग्यः मन्यते।
(ड) सर्वेप्राणिनां जननी प्रकृतिमाता अस्ति।
(ढ) पिककाकयोः कोऽपिभेदः न भवति।
(ण) काकानाम् ऐक्यं परिश्रमः च विश्वप्रथितम् अस्ति।
(त) वनस्य समीपे एका नदी वहति।
(थ) एकः वानरः वृक्षोपरि आरोहति।
(द) क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।
(ध) विविधाः पक्षिणः कलरवं कुर्वन्ति।
(न) गजः विशालकायः बलशाली पराक्रमी अस्ति।
(प) बकः शीतले जले बहुकालपर्यन्तम् तिष्ठति।
Answer
Answer:
(क) केषाम्
(ख) केषाम्
(ग) कुत्र
(घ) को
(ङ) केषाम्
(च) काभ्याम्
(छ) कान्
(ज) काम्
(झ) केन
(ञ) कीदृशान्
(ट) कस्याः
(ठ) कस्मै/किमर्थम्
(ड) का
(ढ) कयोः
(ण) केषाम्
(त) कस्य
(थ) कुत्र
(द) कीदृशः
(ध) कीदृशाः कति
(न) कः
(प) कीदृशे
अधोलिखिते श्लोकेस्यान्वये मञ्जूषायाः सहायतयां रिक्तस्थानानि पूरयत
(क) यो न रक्षति वित्रस्तान् पीड्यमानान्परैः सदा।
जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः॥
अन्वयः- यः (i) ………….. वित्रस्तान् परैः (ii) ……………. पीड्यमानान् (iii) ……………. न रक्षति स (iv) …………. न संशयः।
मञ्जूषा- कृतान्तो, पार्थिवरूपेण, सदा, जन्तून्
Answer
Answer:
(i) पार्थिवरूपेण
(ii) सदा
(iii) जन्तून्
(iv) कृतान्तो
(ख) काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
अन्वयः- काकः कृष्ण (i) …………… कृष्णः को (ii) ……………. पिककाकयोः (iii) ………………. प्राप्ते काकः (iv) …………… पिकः पिकः।।
मञ्जूषा- वसन्तसमये, काकः, पिकः, भेदः
Answer
Answer:
(i) पिकः
(ii) भेदः
(iii) वसन्तसमये
(iv) काकः
(ग) यदि न स्यान्नरपतिः सम्यनेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥
अन्वयः- यदि सम्यङ्नेता (i) …………….. न स्यात् ततः (ii) …………….. अकर्णधारा (iii) …………….. नौरिव इव (iv) ………………।
मञ्जूषा- विप्लवेत्, नरपतिः, जलधौ, प्रजा
Answer
Answer:
(i) नरपतिः
(ii) प्रजा
(iIi) जलधौ
(iv) विप्लवेत्
(घ) स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति॥
अन्वयः- स्वभाव रौद्रम् (i) …………….. क्रूरम् (ii) ………….. उलूकं (iii) ……………… कृत्वा का नु (iv) ……………… भविष्यति।।
मञ्जूषा- प्रियवादिनम्, भविष्यति, अतिउग्रं, नृपतिं
Answer
Answer:
(i) अतिउग्रं
(ii) प्रियवादिनम्
(iii) नृपतिं
(iv) भविष्यति
(ङ) ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति।
भुङ्क्ते योजयते चैव षड्-विधं प्रीतिलक्षणम्॥
अन्वयः- ददाति (i) …………….. गुह्यम् आख्याति (ii) …………… भुङ्क्ते (iii) ………….. च एव (iv) …………………. प्रीतिलक्षणम्॥
मञ्जूषा- योजयते, पृच्छति, षड्विधं, प्रतिगृह्णाति
Answer
Answer:
(i) प्रतिगृह्णाति
(ii) पृच्छति
(iii) योजयते
(iv) षड्विधं
(च) प्रजासुखे सुखं राज्ञः, प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रियं हितम्॥
अन्वयः-राज्ञः (i) ………….. सुखं च (ii) ……………. हिते हितम् न आत्मप्रियं (iii) ……………. हितं प्रजानां तु (iv) …………. प्रियम्।।
मञ्जूषा- प्रजानां, प्रजासुखे, राज्ञः, हितम्
Answer
Answer:
(i) प्रजासुखे
(ii) प्रजानां
(iii) राज्ञः
(iv) हितम्
(छ) अगाधजलसञ्चारी न गर्वं याति रोहितः।
अगुष्ठोदकमात्रेण शफरी फुफरायते॥
अन्वयः-अगाध जलसञ्चारी (i) …………… न गर्वं (ii) ………….. (iii) …………….. अगुष्ठ (iv) …………. फुफरायते।।।
मञ्जूषा- उदकमात्रेण, याति, रोहितः, शफरी
Answer
Answer:
(i) रोहितः
(ii) याति
(iii) शफरी
(iv) उदकमात्रेण
(ज) प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते॥
अन्वयः-परस्पर विवादतः (i) …………….. हानिः (ii) ……………. अन्योन्य (iii) ……………. तेषां (iv) ……………. प्रजायते॥
मञ्जूषा- लाभः, प्राणिनां, सहयोगेन, जायते
Answer
Answer:
(i) प्राणिनां
(ii) जायते
(iii) सहयोगेन
(iv) लाभ:
भावार्थलेखनम् समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावार्थः स्पष्ट भवेत
(क) यो न रक्षति वित्रस्तान् पीड्यमानान्परैः सदा।
जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः॥
भावार्थ:- अस्य भावोऽस्ति यत् यः राजा (i) ……………. दु:खी: त्रस्तान् (ii) …………… च पीड्यमानान् जीवान् स्व (iii) ………………. न रक्षति सः तु निस्संदेहं साक्षात् (iv) ………………. एव भवति।
मञ्जूषा- यमराजः, नृपरूपेण, जीवान्, पराक्रमात्
Answer
Answer:
(i) नृपरूपेण
(ii) जीवान्
(iii) पराक्रमात्
(iv) यमराजः
(ख) काकः कृष्णः पिकः कृष्णः कोः भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
भावार्थ:- अस्य भावोऽस्ति यत् (i) ………………. वर्णः कृष्णः वर्तते पिकस्य अपि वर्ण: (ii) …………….. एव अस्ति। अतः तयोः पिके काके च कः भेदः अस्ति। अर्थात् वर्ण दृष्ट्या तयोः कश्चिद् भेदा न दृश्यते। परन्तु यदा (iii) …………… समयः आगच्छति तदा तयोः स्वरै ज्ञायते यत् कः (iv) ………… अस्तुि कश्च पिकोवर्तते।
मञ्जूषा- वसन्तस्य, काकस्य, काकः, कृष्णः
Answer
Answer:
(i) काकस्य
(ii) कृष्णः
(iii) वसन्तस्य
(iv) काकः
(ग) यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥
भावार्थ:- अस्य भावोऽस्ति यत् यदि प्रजायाः उत्तमः (i) …………….. नृपः न भवेत् तदा तस्य प्रजा को (ii) …………….. जलयुक्ते (ii) ……………… विप्लवन्ती नौका इव (iv) ……………. निमज्जति।
मञ्जूषा- संसारसागरे, नेता, यावत्, सागरे
Answer
Answer:
(i) नेता
(ii) यावत्
(iii) सागरे
(iv) संसारसागरे
(घ) स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति॥
भावार्थ:- अस्य भावोदास्ति यत् काकः उलूकविषये सर्वान् (i) ……………. वदति यत् इमम् भयङ्कर, स्वभावम्, अतीव (ii) ……………. निर्दयम् अप्रियवादिनम् च (ii) ………….. नृपं कृत्वा भवतां सर्वेषाम् कः (iv) …………… भविष्यति? अर्थात् कश्चिदपि न।
मञ्जूषा- खगान्, लाभः, क्रोधिनम्, उलूकं
Answer
Answer:
(i) खगान्
(ii) क्रोधिनम्
(iii) उलूकं
(iv) लाभः
(ङ) ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति।
भुङ्क्ते योजयते चैव षड्विधं प्रीतिलक्षणम्॥
भावार्थ:-अर्थात् मित्रं सदैव स्वमित्रं सुखं (i) …………… तस्माच्च (ii) …………… गृह्णाति, गुप्तवार्ताः उक्त्वा (iii) ……………. प्रश्नान् पृच्छति, खादति तेन सह आत्मानं योजयति इति षट्विधं (iv) …………. लक्षणं भवति।
मञ्जूषा- प्रीते, सुखम्, यच्छति, ज्ञानार्थम्
Answer
Answer:
(i) यच्छति
(ii) सुखम्
(iii) ज्ञानार्थम्
(iv) प्रीते
(च) प्रजासुखे सुखं राज्ञः, प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रियं हितम्॥
भावार्थ:- अर्थात् श्रेष्ठः राजा (i) ………….. सुखे एव स्व सुखं प्रजानाञ्च (ii) ……………. एव स्वहितं मन्यते। तहय हितन्तु कदापि (iii) ……………. प्रियं न भवति (iv) ……………. तु हितमेव तस्मै प्रियं भवति।
मञ्जूषा- प्रजानाम्, आत्मनः, प्रजानाम, हिते
Answer
Answer:
(i) प्रजानाम्
(ii) हिते
(iii) आत्मनः
(iv) प्रजानाम्
(छ) अगाधजलसञ्चारी न गर्वं याति रोहितः।
अङ्गुष्ठोदकमात्रेण शफरी फुफुरायते॥
भावार्थ:- अस्य भावोऽस्ति यत् ये जनाः धैर्यशालिनः (i) ……………. भवन्ति ते अगाधजले सञ्चरन्तं (ii) ………………. मत्स्यम् इव शान्ताः भवन्ति। परं अशान्ताः जनाः (iii) ………………. प्रकृतेः भवन्ति ते सदैव अल्पामपि सफलतां प्राप्य शफरी मत्स्यमिव अल्पमात्रैव (iv) ……………. भवन्ति।
मञ्जूषा- चञ्चल, शान्तिप्रियाः, अहंकारिणः, रोहित
Answer
Answer:
(i) शान्तिप्रियाः
(ii) रोहितं
(iii) चञ्चल
(iv) अहंकारिणः
(ज) प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते॥
भावार्थ:-यदा जीवाः प्राणिनोवा परस्परं (i) ……………… कुर्वन्ति तदा तेषां (ii) ……………. एवं भवति परं यदा तेषां (iii) ……………….. सहयोगो भवति तदैव तेषां (iv) ………………. भवति।
मञ्जूषा- लाभः, विवादं, हानिः, परस्परं
Answer
Answer:
(i) विवादं
(ii) हानिः
(iii) परस्परं
(iv) लाभः
अधोलिखितवाक्यानि घटनाक्रमानुसारं पुनर्लिखत
I. (क) वनस्य समीपे एका नदी वहति।
(ख) अपर: वानरः सिंहस्य कर्णमाकृष्यति।
(ग) सिंहः क्रुद्धः भवति।
(घ) एवमेव वानराः वारं वारं सिंहम् तुदन्ति।
(ङ) एक सिंह सुखेन विश्राम करोति।
(च) सः तम् प्रहर्तुमिच्छति।
(छ) एकः वानरः तस्य पुच्छं धुनोति।
(ज) वानरः कूर्दित्वा वृक्षमारोहति।
Answer
Answer:
(क) वनस्य समीपे एका नदी वहति।
(ख) एक सिंह सुखेन विश्राम करोति।
(ग) एकः वानरः तस्य तुच्छं धुनोति।
(घ) सिंहः कुद्धः भवति।
(ङ) सः तम् प्रहर्तुमिच्छति।
(च) वानरः कुर्दित्वा वृक्षमारोहति।
(छ) अपरः वानरः सिंहस्य कर्णमाकृष्यति।
(ज) एवमेव वानरा: वारं वारं सिंहम् तुदन्ति।
II. (क) सिंहः क्रोधेन गर्जति अहम् वनराजः अस्म्।ि
(ख) बकः कथयति अहम् अविचलः ध्यानमग्नः अस्तः अहम् योग्यः।
(ग) वानरः कथयति राजा तु रक्षकः भवति परं भवान् तू भक्षकः।
(घ) सिंहस्य दुर्वस्थाम् दृष्ट्वा सर्वे जीवाः हसन्ति।
(ङ) मयूरः कथयति मम पिच्छानामपूर्वं सौन्दर्यम् अतः अहमेव योग्यः।
(च) पिकः कथयति अहम् मधुभाषिणी अतः अहमेव योग्यः।
(छ) ततः काकं प्रवेशं कृत्वा कथयति अहमेव योग्यः।
(ज) गजः कथयति अहं विशालकायः बलशाली पराक्रमी अतः अहम् योग्यः अस्मि।
Answer
Answer:
(क) सिंहस्य दुर्वस्थाम् दृष्ट्वा सर्वे जीवाः हसन्ति।
(ख) सिंहः क्रोधेन गर्जति अहम् वनराजः अस्म्।ि
(ग) वानरः कथयति राजा तु रक्षकः भवति परं भवान् तू भक्षकः।
(घ) ततः काकं प्रवेशं कृत्वा कथयति अहमेव योग्यः।
(ङ) पिकः कथयति अहम् मधुभाषिणी अतः अहमेव योग्यः।
(च) गजः कथयति अहं विशालकायः बलशाली पराक्रमी अतः अहम् योग्यः अस्मि।
(छ) बकः कथयति अहम् अविचल: ध्यानमग्नः अतः अहम् योग्यः।
(ज) मयूरः कथयति मम पिच्छानामपूर्वं सौन्दर्यम् अत: अहमेव योग्यः।
III. (क) एकः सिंहः सुप्यति स्म।
(ख) ततः प्रकृति माता प्रविशति।
(ग) वानराः तम् तुदन्ति स्म।
(घ) पशुराजा न भवितव्यम् अपितु कोऽपित पक्षी एव राजेति निश्तेतव्यम्।
(ङ) सर्वे प्राणिनः स्व-स्वगुणस्य चर्चा कुर्वन्ति।
(च) सर्वेषाम् प्राणिनामेव यथासमयम् महत्त्वं विद्यते।
(छ) सर्वे प्राणिनः परस्परं विवादं कुर्वन्ति योग्यं च कथयन्ति।
(ज) मिलित्वा एव मोदध्वं जीवनं रसमयं कुरुध्यम्।
Answer
Answer:
(क) एकः सिंहः सुप्यति स्म।
(ख) वानराः तम् तुदन्ति स्म।
(ग) सर्वे प्राणिनः स्व-स्वगुणस्य चर्चा कुर्वन्ति।
(घ) सर्वे प्राणिनः परस्परं विवादं कुर्वन्ति योग्यं च कथयन्ति।
(ङ) पशुराजा न भवितव्यम् अपितु कोऽपि पक्षी एव राजेति निश्तेतव्यम्।
(च) ततः प्रकृतिमाता प्रविशति।
(छ) सर्वेषाम् प्राणिनामेव यथासमयम् महत्त्वं विद्यते।
(ज) मिलित्वा एव मोदध्वं जीवनं रसमयं कुरुध्यम्।
अधोलिखितपदानां तेषाम् पर्यायपदैः च मेलनं कुरुत
Answer
Answer:
विशेषण-विशेष्यपदानि योजयत
विशेषणपदानि – विशेष्यपदानि
(क) पराक्रमिणं – (i) मीनान्
(ख) शीतले – (ii) पक्षीकुलं
(ग) वराकान् – (iii) पुरुषः
(घ) सर्वं – (iv) जनपदे
(ङ) श्रेष्ठतमः – (v) सिंहः
(च) अस्मिन् – (vi) जले
Answer
Answer:
(क) पराक्रमिणं – (v) सिंहः
(ख) शीतले – (vi) जले
(ग) वराकान् – (i) मीनान्
(घ) सर्वं – (ii) पक्षीकुलं
(ङ) श्रेष्ठतमः – (iii) पुरुषः
(च) अस्मिन् – (iv) जनपदे
संस्कृतेन वाक्यप्रयोगं कुरुत
Answer
Answer:
(क) कौशल्या दशरथस्य ज्येष्ठा राज्ञी आसीत्।
(ख) शत्रुघ्नः कनिष्ठः पुत्रः आसीत्।
(ग) रामः दशरथस्य प्रियः पुत्रः आसीत्।
(घ) भरत-लक्ष्मणौ च मध्यमौ पुत्रौ आस्ताम्।
अधोलिखितपदानां तेषाम् विपर्ययपदानि सह मेलनं कुरुत
Answer
Answer:
We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit सौहार्दं प्रकृतेः शोभा MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.