We have given detailed NCERT Solutions for Class 8 Sanskrit come in handy for quickly completing your homework.

CBSE Class 8 Sanskrit Sample Paper Set 1

निर्धारित समय: 3 घंटे
अधिकतम अंकाः 80

खण्ड: – ‘क’
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (10)

पुरा सर्वे जनाः नीतिधर्मपरायणाः आसन्। तेषां कृते चरित्रमेव सर्वोपरि आसीत्। सर्वे समाजस्य सुव्यवस्थायै नियमान् पालयन्ति स्म। परं यदा नरैः नियमान् उल्लंघ्य व्यवहारम् आरब्धम् तदा प्रभृति एव भ्रष्टाचारस्य जन्म अभवत्। भ्रष्टाचारस्य मूले लोभस्य प्रवृत्तिः। लोभः च अनन्तक: व्याधिः। धनलोभिनः जनाः कस्यचित् लघुतरम् अपि कार्यं विना किमपि स्वीकृत्य न कुर्वन्ति। अन्यान् च उत्कोचादिग्रहणे प्रेरयन्ति। इत्थम् भ्रष्टाचारः शनैः शनैः प्रसरति। सम्पूर्ण राष्ट्र अधोगतिम् प्राप्नोति। अस्य परिपकारः भाषणेषु न अस्ति। लोभस्य विकारस्य दूरकरणाय प्रयतनीयम् येन भ्रष्टाचारस्य अन्तः भवेत्।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 4 = 4)
(i) जनाः समाजस्य नियमान् किमर्थं पालयन्ति?
(ii) लोभस्य प्रवृत्तिः कस्य मूले भवति?
(iii) अनन्तकः व्याधिः कः?
(iv) पुरा सर्वे जनाः कीदृशाः आसन्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) धनलोभिनः जनाः किम् कुर्वन्ति?
(ii) भ्रष्टाचारस्य अन्तः कथं भविष्यति?

III. प्रदत्तविकल्पेभ्यः शुद्धम् उत्तरम् चित्वा लिखत- (½ × 1 = 1)
(i) ‘सम्पूर्ण राष्ट्रम्” इत्यत्र विशेषणपदं किम्?
(क) राष्ट्रम्
(ख) सम्पूर्ण
(ग) सम्पूर्ण राष्ट्रम्
(घ) राष्ट्रः

(ii) ‘भाषणेषु’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) सप्तमी
(ग) तृतीया
(घ) चतुर्थी

IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (½ × 1 = ½)

खण्ड: – ‘ख’
रचनात्मक कार्यम्

प्रश्न 2.
मञ्जूषातः प्रार्थनापत्रे उचितपदैः रिक्तस्थानानि पूरयत-

दातव्यम्, अधोलिखितस्य, विवरणं, शीघ्रं, वर्तते, नवदिल्ली

नैनीताल-छात्रावासः
नैनीताल:
दिनांक: 12-9-2020
प्रबन्धक महोदय,
न्यू एज पब्लिशर्स
______(1)______
श्रीमन्तः
सेवायाम् निवेदनम् अस्ति यत् ______(2)______ पुस्तकस्य महती आवश्यकता ______(3)______। अतः वी.पी.पी. द्वारा ______(4)______ प्रेषणीयम्। समग्रं ______(5)______ अपि लेखनीयम्। समुचितं कमीशनं ______(6)______।
(i) रुचिरा-अष्टमी श्रेणी-एका प्रतिः।

भवदीयः
वैभवः

प्रश्न 3.
अधोदत्तं चित्रं दृष्ट्वा प्रदत्तशब्दानाम् सहायतया पञ्च संस्कृतवाक्यानि लिखत- (2 × 5 = 10)

मञ्जूषा – वृक्षाः, पर्वतीय, दृश्यम्, सूर्यः, उदेति, पुष्पाणि, सुन्दराणि पर्वताः, सन्ति, दृश्यन्ते, जनाः गच्छन्ति, रम्यं चित्रं
CBSE Class 8 Sanskrit Sample Paper Set 1 Q3

प्रश्न 4.
अधोदत्तां कथाम् मञ्जूषायाम् प्रदत्तशब्दानाम् सहायतया पूरयत- (1 × 4 = 4)

लंकायाः, चत्वारः, ज्येष्ठः, पतिव्रता

अयोध्यायाः नृपस्य दशरथस्य ______(1)______ पुत्राः आसन्। तस्य ______(2)______ पुत्रः श्रीरामः आसीत्। श्रीरामस्य पत्नी सीता ______(3)______ स्त्री आसीत्। युद्धे रामः ______(4)______. नृपम् रावणम् अजयत्।

खण्ड: – ‘ग’
अनुप्रयुक्त-व्याकरणम्

प्रश्न 5.
(अ) सन्धिं सन्धिविच्छेदं वा कुरुत- (1 × 4 = 4)
(i) अद्य + अपि = ___________
(ii) रमेशः = ______ + ______
(iii) सु + आगतम् = ___________
(iv) इत्यादि = ______ + ______

(ब) मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पूरयत- (1 × 4 = 4)
विना, एव, यथा, पुरतः
(i) सत्यम् ___________ जयते।
(ii) विद्यालयस्य ___________ वाटिका अस्ति।
(iii) सः ___________ चिन्तयति तथा आचरति।
(iv) विद्यां ___________ जीवनं वृथा।

प्रश्न 6.
मञ्जूषातः विलोमपदानि चित्वा लिखत- (½ × 6 = 3)

आदानम्, अवरोहः, समता, चलः, गमनम्, दत्वा

(i) आगमनम् ___________
(ii) गृहीत्वा ___________
(iii) अचलः ___________
(iv) प्रदानम् ___________
(v) विषमता ___________
(vi) आरोहः ___________

प्रश्न 7.
(अ) मञ्जूषातः पर्यायपदानि चित्वा लिखत- (½ × 6 = 3)

क्षिप्रम्, इदानीम्, शब्दं, प्रतिज्ञा, दृष्ट्वा, कानने

(i) सम्प्रति ___________
(ii) शीघ्रम् ___________
(iii) वने ___________
(iv) वीक्ष्य ___________
(v) रवं ___________
(vi) समयः ___________

(ब) कोष्ठकेषु दत्तेषु शब्देषु उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (1 × 3 = 3)
(i) पथिकः ___________ गच्छति। (ग्राम / ग्राम: / ग्रामाः)
(ii) स्वामी ___________ धनं यच्छति। (सेवकं / सेवकाय / सेवकः)
(iii) ___________ विना जीवनं व्यर्थम्। (धर्म: / धर्मस्य / धर्म)

प्रश्न 8.
(अ) अधोलिखितपदानि आधृत्य वाक्यानि रचयत- (1 × 4 = 4)
(i) हिमालयः ___________
(ii) उद्याने ___________
(iii) आकाशे ___________
(iv) विद्यालयः ___________

(ब) मञ्जूषातः अङ्कानाम् कृते पदानि लिखत- (1 × 4 = 4)

षोडश, द्वाचत्वारिंशत्, सप्तत्रिंशत्, षड्विंशतिः

(i) 26 ___________
(ii) 42 ___________
(iii) 37 ___________
(iv) 16 ___________

खण्ड: – ‘घ’
पठित-अवबोधनम्

प्रश्न 9.
अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)
सावित्री अनेकाः संस्थाः प्रशासनकौशलेन सञ्चालितवती। दुर्भिक्षकाले प्लेगकाले च सा पीडितजनानाम् अश्रान्तम् अविरतं च सेवाम् अकरोत्। सहायता-सामग्री-व्यवस्थायै सर्वथा प्रयासम् अकरोत्। महारोगप्रसारकाले सेवारता सा स्वयम् असाध्यरोगेण ग्रस्ता 1897 तमे ख्रिस्ताब्दे निधनं गता।
साहित्यरचनया अपि सावित्री महीयते। तस्याः काव्यसङ्कलनद्वयं वर्तते ‘काव्यफुले’ ‘सुबोधरत्नाकर’ चेति। भारतदेशे महिलोत्थानस्य गहनावबोधाय सावित्रीमहोदयायाः जीवन-चरितम् अवश्यम् अध्येतव्यम्।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) सावित्री केषाम् सेवाम् अकरोत्?
(ii) सावित्रीमहोदयायाः किम् अवश्यम् अध्येतव्यम्?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) सावित्रीमहोदयायाः निधनम् कथम् अभवत्?

III. यथानिर्देशम् उत्तरत- (½ × 2 = 1)
(i) ‘निरन्तरम्’ इति पदस्य पर्यायः कः?
(क) अश्रान्तम्
(ख) अविरतम्
(ग) निधनम्
(घ) प्रयासम्

(ii) ‘सञ्चालितवती’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) अनेकाः
(ख) संस्थाः
(ग) सावित्री
(घ) प्रशासन

प्रश्न 10.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

छात्राः – वयम् सर्वे स्वदेशस्य राज्यानाम् विषये ज्ञातुम् इच्छामः।
अध्यापिका – शोभनम्। वदत। अस्माकम् देशे कति राज्यानि सन्ति?
सायरा – चतुर्विंशतिः महोदये।
सिल्वी – न हि न हि महाभागे! पञ्चविंशतिः राज्यानि सन्ति।
अध्यापिका – अन्यः कोऽपि……?
स्वरा – (मध्ये एव) महोदये! मे भगिनी कथयति यदस्माकं देशे अष्टाविंशतिः राज्यानि सन्ति। एतदतिरिच्य सप्त केन्द्रशासितप्रदेशाः अपि सन्ति।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) छात्राः केषाम् विषये ज्ञातुम् इच्छन्ति?
(ii) कति केन्द्रशासितप्रदेशाः सन्ति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) अस्माकं देशे कति राज्यानि सन्ति?

III. यथानिर्देशम् उत्तरत- (½ × 2 = 1)
(i) ‘इच्छामः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) वयम्
(ख) सर्वे
(ग) देशस्य
(घ) विषये

(ii) ‘अस्माकं’ इति पदे किम् वचनम्?
(क) एकवचनम्
(ख) बहुवचनम्
(ग) द्विवचनम्
(घ) ममवचनम्

प्रश्न 11.
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (1 × 4 = 4)

वने दिग्गजानां तथा केशरीणाम्,
तटीनामियं वर्तते भूधराणाम्।
शिखीनां शुकानां पिकानां धरेयं,
क्षितौ राजते भारतस्वर्णभूमिः।।

प्रश्नाः
I. पूर्णवाक्येन उत्तरत-
(i) केषां वनम् अस्ति?
(ii) भूधराणां का अस्ति?
(iii) इयं धरा केषाम् अस्ति?
(iv) क्षितौ का राजते?

प्रश्न 12.
रेखांकितपदानाम् आधृत्य प्रश्ननिर्माणम् कुरुत- (1 × 4 = 4)
(i) लुब्धस्य यशः नश्यति।
(ii) चञ्चलः वने जालम् प्रासारयत्।
(iii) सततं ध्येयस्मरणम् करणीयम्।
(iv) व्याधस्य नाम चञ्चलः आसीत्।

प्रश्न 13.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

तदा, चला, अस्तं, सन्तः

(i) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशि च ___________ गच्छति।
(ii) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ___________ चन्दगहणं भवति।
(iii) सूर्यः अचलः पृथिवी च ___________।
(iv) मधुरसूक्तरसं ___________ सृजन्ति।

प्रश्न 14.
अधोलिखितवाक्यानि कः / का, ‘कं / कां’ प्रति कथयति? (1 × 3 = 3)
यथा- इदानीम् अहम् त्वां खादिष्यामि / क: / का व्याघ्रः / कं / काम् व्याधम्
(i) जनाः मयि स्नानं कुर्वन्ति।
(ii) अरे मूर्ख! सर्वः स्वार्थं समीहते।
(iii) यत्र कुत्रापि छेदनं कुर्वन्ति।