We have given detailed NCERT Solutions for Class 8 Sanskrit come in handy for quickly completing your homework.

CBSE Class 8 Sanskrit Sample Paper Set 2

निर्धारित समय: 3 घंटे
अधिकतम अंका: 80

खण्डः – ‘क’
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं अनुच्छेदं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि लिखत- (10)

एकस्मिन् नगरे द्वे मित्रे वसतः स्म। एकस्य नाम सोमेशः आसीत् अन्यस्य च धनेशः। सोमेशः विद्याम् इच्छति स्म धनेशः च प्रभूतं धनम्। एकदा मित्रद्वयं विदेशं अगच्छत्। तत्र सोमेशः परिश्रमेण अध्ययनं कृत्वा विद्यां प्राप्तवान्। धनेशः धनं अर्जितवान्। एवं अनेकानि वर्षाणि व्यतीतानि। तौ अचिन्तयताम्-“अधुना आवाम् गृहम् गच्छावः।” गृहम् प्रति आगमनसमये मार्गे चौराः आगच्छन्। ते धनेशस्य सर्वम् धनम् अहरन्। धनेशः दुःखी अभवत्। सः रिक्तहस्तः गृहम् आगच्छत्। परम् सोमेशः विद्याधनयुक्तः आसीत्। विद्याधनेन युक्तः सः शीघ्रम् अतीव प्रसिद्धः अभवत्। तस्य प्रसिद्धिम् श्रुत्वा राजा सोमेशं आहूय तस्य सम्मानम् अकरोत्। सः तस्मै मन्त्रिपदम् अपि अयच्छत्। सत्यम् एव कथ्यते–’विद्या एव सर्वत्र पूज्यते।’

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 4 = 4)
(i) मित्रद्वयं कुत्र अगच्छत्?
(ii) कः धनं अर्जितवान्?
(iii) मार्गे के अगच्छन्?
(iv) कः विद्याधनम् प्राप्तवान्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) राजा सोमाय किम् अयच्छत्?
(ii) कः रिक्तहस्तः गृहम् आगच्छत्?

III. प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत- (½ × 2 = 1)
(i) ‘अचिन्तयताम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) राजा
(ख) सोमेशः
(ग) तौ
(घ) धनेशः

(ii) ‘शनैः’ इति पदस्य विलोमपदं किम् प्रयुक्तम्?
(क) प्रभूतं
(ख) शीघ्रम्
(ग) सर्वत्र
(घ) आहूय

IV. अस्य अनुच्छेदस्य समुचितं शीर्षकं चित्वा लिखत। (1)

खण्ड: – ‘ख’
रचनात्मकं कार्यम्

प्रश्न 2.
मञ्जूषातः प्रार्थनापत्रे उचितपदैः रिक्तस्थानानि पूरयत- (6)

पठनम्, आदरणीयाः, निवेदनम्, पितुः, प्रमाणपत्रं, विना

श्रीमन्तः प्राचार्यमहोदयः
राजकीयः विद्यालयः
इन्द्रप्रस्थम्
_______(1)_______ महोदयाः
सेवायाम् इदम् _______(2)_______ अस्ति यत् मम _______(3)_______ स्थानान्तरणम् जातम्। अतः मया अपि तत्रैव गत्वा _______(4)_______ अनिवार्यम् वर्तते। पितरौ _______(5)_______ मया अत्र एकाकिना अवस्थानं न शक्यते। अतः माम् विद्यालयान्तरणं _______(6)_______ प्रदापयन्तु भवन्तः इति प्रार्थये।
दिनांक: 20.8.2020
भवदीयः शिष्यः
कृष्णः

प्रश्न 3.
अधोदतं चित्रं दृष्ट्वा प्रदत्तशब्दानां सहायतया पञ्च संस्कृतवाक्यानि लिखत- (10)

मञ्जूषा- चिकित्सकः, सेविका, रुग्णं, औषधम्, पयके, करोति, रुग्णाय, फलानि, जलम्, पात्रे, उपविशन्ति, निरीक्षणं
CBSE Class 8 Sanskrit Sample Paper Set 2 Q3

प्रश्न 4.
अधोदत्तां कथाम् मञ्जूषायाम् प्रदत्तशब्दानाम् सहायतया पूरयत- (4)

घटः, मत्स्यान्, नदीतटम्, स्वकुटुम्बस्य

289 पुरा बोधिसत्त्वः वणिकपुत्रः आसीत्। एकदा सः ___________ अगच्छत्। सः एकं धीवरम् अपश्यत्। धीवरस्य समीपे मृत्तिकायाः एक: ___________ आसीत्। धीवरः जालेन ___________ गृहीत्वा घटे क्षिपति स्म। इत्थम् सः ___________ पालनं करोति स्म।

खण्ड: – ‘ग’
अनुप्रयुक्त-व्याकरणम्

प्रश्न 5.
सन्धिं सन्धिविच्छेदं वा कुरुत- (1 × 4 = 4)

(i) सप्त + एताः = _____________
(ii) देवेन्द्रः = ______ + ________
(iii) तथा + अपि = _____________
(iv) सु + आगतम् = _____________

प्रश्न 6.
(अ) मञ्जूषात: विपरीतार्थकान् शब्दान् चित्वा लिखत- (½ × 6 = 3)

गुणाः, वामहस्तः, कृतघ्नः, स्वीकारः, अनन्या, पण्डितः

(i) दक्षिणहस्तः _____________
(ii) अस्वीकारः _____________
(iii) दुर्गुणाः _____________
(iv) कृतज्ञः _____________
(v) मूर्खः _____________
(vi) अन्या _____________

(ब) तद्भव पदानाम् कृते मञ्जूषातः चित्वा संस्कृतपदानि लिखत- (½ × 6 = 3)

कृपणः, कटुकम्, पुच्छः, लुब्धः, मधुमक्षिका, तृणम्

(i) तिनका = _____________
(ii) कंजूस = _____________
(iii) लोभी = _____________
(iv) मधुमक्खी = _____________
(v) पूँछ = _____________
(vi) कड़वा = _____________

प्रश्न 7.
उदाहरणम् अनुसृत्य लकारपरिवर्तनम् कुरुत- (4)
(अ) वर्तमानकाल: – अतीतकालः
यथा- वयम् प्रतिदिनं पाठं पठामः – वयम् प्रतिदिनं पाठम् अपठाम।
(i) सः शिक्षकः अस्ति। _____________
(ii). महिलाः तडागात् जलं नयन्ति। _____________
(iii) त्वम् विद्यालयं गच्छसि। _____________
(iv) अहम् लेखम् लिखामि। _____________

(ब) अधोलिखित पदानि आधृत्य वाक्यानि रचयत- (4)

(i) भूमिः = _____________
(ii) शिक्षकाः = _____________
(iii) पुस्तकालये = _____________
(iv) फलानि = _____________

प्रश्न 8.
(अ) मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (4)

एषः, एताः, एतानि, एते

(i) _____________ फलानि मधराणि सन्ति।
(ii) _____________ क्रीडकः अद्वितीयः अस्ति।
(iii) _____________ बालिकाः नृत्यन्ति।
(iv) अहम् _____________ फले मित्राय यच्छामि।

(ब) कोष्ठकेषु दत्तेषु शब्देषु उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (3)

(i) _____________ परितः भवनानि सन्ति। (विद्यालये / विद्यालय / विद्यालयस्य)
(ii) _____________ अधः व्याधः तिष्ठति। (वृक्षस्य / वृक्षात् / वृक्षम्)
(iii) धनिकः _____________ वस्त्राणि यच्छति। (याचकं / याचकाय / याचकः)

खण्ड: – ‘घ’
पठित-अवबोधनम्

प्रश्न 9.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

‘गजधरः’ इति सुन्दरः शब्दः तडागनिर्मातृणाम् सादरं स्मरणार्थम्। राजस्थानस्य केषुचिद् भागेषु शब्दोऽयम् अद्यापि प्रचलति। कः गजधर:? यः गजपरिणामं धारयति सः गजधरः। गजपरिमाणम् एव मापनकार्ये उपयुज्यते। समाजे त्रिहस्त-परिमाणात्मिकीं लौहयष्टिं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं शिल्पिरूपेण नैव समादृताः सन्ति। गजधरः, यः समाजस्य गाम्भीर्यं मापयेत् इत्यस्मिन् रूपे परिचितः।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते।
(ii) गजपरिमाणं कः धारयति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) गजधराः कस्मिन् रूपे परिचिताः?

III. यथानिर्देशं उत्तरत- (½ × 2 = 1)
(i) ‘करे’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) रूपे
(ख) हस्ते
(ग) शब्दः
(घ) चलन्तः

प्रश्न 10.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

विनयः – पश्य पश्य, तत्र-धुनः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति। यथाकथञ्चित् निवारणीया एषा।
(मार्गे कदलीफलविक्रेतारं दृष्ट्वा बालाः कदलीफलानि क्रीत्वा धेनुम् आह्यन्ति भोजयन्ति च, मार्गात् प्लास्टिकस्यूतानि चापसार्य पिहिते अवकरकण्डोले क्षिपन्ति)।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) बालाः किं क्रीत्वा धेनुम् आह्यन्ति?
(ii) बालाः कदलीफलानि क्रीत्वा काः भोजयन्ति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) धेनुः केषाम् आवरणैः सह प्लास्टिकस्यूतमपि खादति।

III. यथानिर्देशं उत्तरत- (½ × 2 = 1)
(i) ‘अपसार्यं’ इत्यत्र कः प्रत्ययः?
(क) क्त्वा
(ख) ल्यप्
(ग) यत्
(घ) आर्यं

(ii) ‘पश्य’ इत्यत्र कः लकार:?
(क) लट
(ख) लोट
(ग) लङ्
(घ) लृट्

प्रश्न 11.
निम्नलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत।

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्यायशोबलम्।।

प्रश्ना:
I. पूर्णवाक्येन उत्तरत- (1 × 4 = 4)
(i) केषां चत्वारि वर्धन्ते?
(ii) आयुः कस्य वर्धते?
(iii) अभिवादनशीलस्य किं वर्धते?
(iv) बलं कस्य वर्धते?

प्रश्न 12.
रेखांकितपदानाम् आधृत्य प्रश्ननिर्माणं कुरुत- (1 × 3 = 3)
(i) कर्गदोपरि लेखनं प्रारब्धम्।
(ii) पुस्तकानाम् आवश्यकता न भविष्यति।
(iii) भ्राता भवानीस्तुतिं करोति।

प्रश्न 13.
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत। (4)

सावित्रीबाई फुले, आर्यभटः, वंशोद्योगः, प्लास्टिकम्

(i) भारतस्य प्रथमोपग्रहस्य नाम _____________ अस्ति।
(ii) मृत्तिकायां _____________ कदापि न विनश्यति।
(iii) महाराष्ट्रस्य प्रथमा महिला शिक्षिका _____________ आसीत्।
(iv) सप्तभगिनी-प्रदेशे _____________ सर्वप्रमुखः।

प्रश्न 14.
घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि- (4)
(i) व्याधः जालम् प्रासारयत्।
(ii) व्याधः लोमाशिकायै निखिला कथां न्यवेदयत्।
(iii) जाले पुनः तम् बद्धं दृष्ट्वा सः व्याधः प्रसन्नः सन् गृहम् प्रत्यावर्तत।
(iv) सा अवदत्-बाढम्! अहम् पुनः व्याघ्रम् जाले बद्धं द्रष्टुम् इच्छामि।
(v) लोमाशिका व्याघ्रं अवदत्-सत्यं त्वया भणितम्।
(vi) लोमाशिका अवदत्-पुनः कूर्दनं कृत्वा दर्शय इति।
(vii) निःसहाय भूत्वा सः प्राणभिक्षामिव अयाचत्।
(viii) व्याघ्रः तम् वृत्तान्तं दर्शयितुम् पुनः जाले प्राविशत्।