We have given detailed NCERT Solutions for Class 8 Sanskrit come in handy for quickly completing your homework.

CBSE Class 8 Sanskrit Sample Paper Set 3

निर्धारित समय: 3 घंटे
अधिकतम अंकाः 80

खण्ड: – ‘क’
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)

एक: यात्रिसमूहः मरुभूम्यां गच्छति स्म। सहसा सः दस्युभिः गृहीतः। तैः यात्रिणाम् सर्वं धनं अपहृतम्। परम् द्वादशवर्षीयस्य एकस्य बालकस्य समीपे ते किमपि न प्राप्तवन्तः। ते अपृच्छन्–“किम् तव समीपे किमपि न अस्ति।” इति सः प्रत्यवदत्-“अहम् आत्मनः रुग्णां भगिनीं द्रष्टुम् गच्छामि। मम अम्बा पञ्च स्वर्णमुद्राः मम कौपीने अस्थापयत्” ते अपृच्छन्–“त्वम् अस्मान् किमर्थं वदसि?” इति। सः अवदत्-“मम माता शिक्षयति यत् कदापि असत्यम् मा वद। अतः मया सत्यम् उक्तम्” इति। बालकस्य सत्यनिष्ठां दृष्ट्वा दस्यूनाम् हृदय-परिवर्तनम् अभवत्। तैः अपि सत्यपालनस्य सङ्कल्पः गृहीतः। अयं बालकः आसीत्–’खलीफ़ा अमीन।’

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 4 = 4)
(i) केषाम् हृदय परिवर्तनम् अभवत्?
(ii) बालकस्य नाम किम् आसीत्?
(iii) अम्बा बालकाय कति मुद्राः अयच्छत्?
(iv) यात्रिसमूहः कुत्र गच्छति स्म?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) बालकस्य अम्बा स्वर्णमुद्राः कस्मिन् स्थापयत्?
(ii) बालकः काम् द्रष्टुम् गच्छति स्म?

III. प्रदत्तविकल्पेभ्यः उचितं उत्तरम् चित्वा लिखत- (½ × 2 = 1)
(i) ‘मम माता शिक्षयति।’ अत्र क्रियापदं किम्?
(क) मम
(ख) माता
(ग) शिक्षयति
(घ) किमपि न

(ii) ‘यात्रिणाम्’ इति पदे का विभक्तिः?
(क) सप्तमी
(ख) षष्ठी
(ग) द्वितीया
(घ) पञ्चमी

IV. अस्य अनुच्छेदस्य कृते उचितं शीर्षकम् लिखत। (1)

खण्ड: – ‘ख’
‘रचनात्मकम् कार्यम्’

प्रश्न 2.
मञ्जूषातः प्रार्थनापत्रे उचितपदैः रिक्तस्थानानि पूरयत- (6)

महोदयाः, भवदीयः, मुक्तिम्, भवेत्, कुटुम्बस्य, जनकः

श्रीमन्तः प्राचार्य महाभागाः
केन्द्रीय विद्यालयः
कुरुक्षेत्रम्
_____(1)_____
सविनयं निवेदनं अस्ति यत् मम _____(2)_____ कार्यालये लिपिककार्यं करोति। तस्य अल्पवेतनेन _____(3)_____ निर्वाहः अपि दुष्करः अस्ति। अतः विद्यालयस्य शुल्कप्रदानं न सम्भवति। मम शिक्षायाः बाधा न _____(4)_____ अतः शुल्कप्रदानेन _____(5)_____ प्रदाय अनुग्रहं कुर्वन्तु भवन्तः।
दिनाङ्कः 28.4.2020
_____(6)_____ शिष्यः
माधवः

प्रश्न 3.
अधोदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्च संस्कृतवाक्यानि लिखत- (10)

मञ्जूषा – बालकाः, बालिकाः, खगाः, आकाशे, वृक्षं, जलेन, सुन्दरम्, सन्ति, चित्रम्, सिञ्चति, पादपाः, उद्यानस्य, उत्पतन्ति, प्रसन्नाः
CBSE Class 8 Sanskrit Sample Paper Set 3 Q3

प्रश्न 4.
अधोदत्तां कथाम् मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पूरयत- (4)

जाले, व्याघ्रः, आगच्छत्, दन्तैः

एकस्मिन् वने एकः _____(1)_____ अभवत्। एकदा सः व्याधेन विस्तारिते _____(2)_____ बद्धः अभवत्। अकस्मात् एकः मूषकः तत्र _____(3)_____। मूषकः स्वकीयैः _____(4)_____ जालस्य कर्त्तनम् कृत्वा व्याघ्रम् बहिः कृतवान्।

खण्ड: – ‘ग’
अनुप्रयुक्त-व्याकरणम्

प्रश्न 5.
मञ्जूषायां प्रदत्तपदानि चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

(अ) गृहीत्वा, प्राप्य, श्रुत्वा, पीत्वा
(i) निर्गुणं ____________ दोषाः भवन्ति।
(ii) छात्राः पुस्तकानि ____________ विद्यालयं गच्छन्ति।
(iii) कटुकरसं ____________ माधुर्यम् जनयति।
(iv) सज्जनानाम् वचः ____________ जनाः प्रसीदन्ति।

(ब) सन्धिं सन्धिविच्छेदं वा कुरुत- (1 × 4 = 4)

(i) तथा + एव = ____________
(ii) महा + ईशः = ____________
(iii) मृगादीनाम् = _____ + _____
(iv) यद्यपि = _____ + _____

प्रश्न 6.
मञ्जूषायाम् प्रदत्तविलोमपदानाम् मेलनं कुरुत- (½ × 6 = 3)

पुरतः, स्वकीयम्, भीतिः, अनुरक्तिः, गमनम्, प्रियः

(i) विरक्तिः ____________
(ii) आगमनम् ____________
(iii) पृष्ठतः ____________
(iv) साहसः ____________
(v) परकीयम् ____________
(vi) अप्रियः ____________

प्रश्न 7.
(अ) मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

रचयन्ति, अहसत्, वर्तते, गच्छन्ति

(i) सहसा बालिका उच्चैः ____________।
(ii) मम मनसि एका जिज्ञासा ____________।
(iii) जनाः भ्रमणाय उद्यानम् ____________।
(iv) मालाकाराः पुष्पैः मालाः ____________।

(ब) कोष्ठकेषु दत्तेषु शब्देषु उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

(i) ____________ उभयतः वृक्षाः सन्ति। (ग्राम, ग्रामस्य, ग्रामात्)
(ii) पुत्रः ____________ सह आपणं गच्छति। (जनकं, जनकेन, जनक:)
(iii) माता ____________ क्रुध्यति। (पुत्रे, पुत्राय, पुत्र)
(iv) वानरः ____________ पतति। (वृक्षस्य, वृक्षात्, वृक्षं)

प्रश्न 8.
(अ) मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पूरयत- (1 × 4 = 4)

सदा, बहिः, तर्हि, तदा

(i) यदा दशवादनं भवति ____________ छात्राः विद्यालयं गच्छन्ति।
(ii) शृगालः गुहायाः ____________ आसीत्।
(iii) सूर्यः ____________ पूर्वदिशायाम् उदेति।
(iv) यदि सफलताम् इच्छसि ____________ आलस्यं त्यज।

(ब) मञ्जूषातः अङ्कानाम् कृते पदानि लिखत- (½ × 4 = 2)

द्वासप्ततिः, षडशीतिः, अष्टानवतिः, सप्तषष्टिः

(i) 67 ____________
(ii) 72 ____________
(iii) 98 ____________
(iv) 86 ____________

खण्ड: – ‘घ’
पठित-अवबोधनम्

प्रश्न 9.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)
आसीत् कश्चित् चञ्चलो नाम व्याधः। पक्षिमृगादीनाम् ग्रहणेन सः स्वीयां जीविका निर्वाहयति स्म। एकदा सः वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे प्रातः काले यदा चञ्चलः वनम् गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत्। सोऽचिन्तयत्, ‘व्याघ्रः मां खादिष्यति अतएव पलायनं करणीयम्।’ व्याघ्रः न्यवेदयत्– ‘भो मानव! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तर्हि अहम् त्वां न हनिष्यामि।’

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) केषाम् ग्रहणेन व्याधः स्वीयां जीविकां निवहियति स्म।
(ii) चञ्चल कः आसीत्?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
(i) यदा चञ्चल: वनम् गतवान् तदा सः किम् दृष्ट्वान्?

III. यथानिर्देशं लिखत- (1 × 2 = 2)
(i) ‘हनिष्यामि’ इति क्रियापदस्य कर्तपदं किम्?
(क) अहम्
(ख) तर्हि
(ग) त्वाम्
(घ) व्याधः

(ii) ‘विस्तारिते जाले’ अत्र विशेषणपदं किम्?
(क) जाले
(ख) जालं
(ग) विस्ता
(घ) विस्तारिते

प्रश्न 10.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

अध्यापिका – सम्यग्जानाति ते भगिनी। भवतु, अपि जानीथ यूयं येदतेषु राज्येषु सप्तराज्यानाम् एकः समवायः अस्ति यः सप्तभगिन्यः इति नाम्ना प्रथितोऽस्ति।
सर्वे – (साश्चर्यम् परस्परं पश्यन्तः) सप्तभगिन्यः? सप्तभगिन्यः?
निकोलसः – इमानि राज्यानि सप्तभगिन्यः इति किमर्थ कथ्यन्ते?
अध्यापिका – प्रयोगोऽयं प्रतीकात्मको वर्तते। कदाचित् सामाजिक-सांस्कृतिक-परिदृश्यानाम् साम्याद् इमानि उक्तोपधिना प्रथितानि।
समीक्षा – कौतूहलं मे न खलु शान्तिं गच्छति, श्रावयतु तावद् यत् कानि तानि राज्यानि?

प्रश्नाः
I. एकपदेन उत्तरत-
(i) केषाम् समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
(ii) अयम् प्रयोगः कीदृशः वर्तते?

II. पूर्णवाक्येन उत्तरत-
(i) “सम्यग्जानाति ते भगिनी।” इति का वदति?

III. यथानिर्देशं उत्तरत-
(i) ‘जिज्ञासा’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) शान्तिं
(ख) कौतूहलं
(ग) साम्याद्
(घ) सम्यक्

(ii) ‘श्रावयतु तावद् यत् कानि तानि राज्यानि।’ अत्र क्रियापदं किम्?
(क) तानि
(ख) राज्यानि
(ग) कानि
(घ) श्रावयतु

प्रश्न 11.
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (4)

कं सञ्जघान कृष्णः?
का शीतलवाहिनी गङ्गा?
के दारपोषणरता:?
कं बलवन्तं न बाधते शीतम्?

प्रश्नाः
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) कंसम् कः जघान?
(ii) बलवन्तं किं न बाधते?

II. पूर्णवाक्येन उत्तरत- (1)
(i) शीतलवाहिनी का अस्ति?

III. यथानिर्देशम् उत्तरत- (2 × 1 = 2)
(i) ‘कंसम्’ इत्यत्र का विभक्तिः?
(ii) ‘कृष्णः’ इत्यस्य तृतीयान्तरूपं लिखत।

प्रश्न 12.
रेखांकितपदानाम् आधृत्य प्रश्ननिर्माणम् कुरुत- (1 × 3 = 3)

(i) कार्यालये एका गोष्ठी निश्चिता।
(ii) कुक्षौ पुत्री अस्ति।
(iii) वस्त्रपूतं जलं पिबेत्।

प्रश्न 13.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

प्रियम्, वाचम्, दुःखम्, पञ्चविंशतिः

(i) अस्माकं देशे ………………… राज्यानि सन्ति।
(ii) सर्वं परवशं । ……………. अस्ति।
(iii) आचार्यस्य . .. कुर्यात्।
(iv) सत्यपूक्तं .. .वदेत्।

प्रश्न 14.
घटनाक्रमानुसारं वाक्यानि पुनः लेखनीयानि- (1 × 4 = 4)
(i) सावित्रीबाई ज्योतिबाफुलेन सह विवाहम् अकरोत्।
(ii) सावित्री 1831 तमे वर्षे जन्म अभवत्।
(iii) 1848 तमे वर्षे पुणे नगरे कन्यानाम् कृते प्रथमं विद्यालयम् आरभत।
(iv) सावित्र्याः मृत्युः 1897 तमे वर्षे अभवत्।
(v) 1851 तमे वर्षे बालिकानां कृते अपरः विद्यालयः प्रारब्धः।
(vi) सावित्र्याः माता लम्बीबाई, पिता च खण्डोजी इति अभिहितौ।
(vii) दुर्भिक्षकाले प्लेग-काले च सा पीडितजनानाम् अश्रान्तम् अविरतम् च सेवाम् अकरोत्।
(viii) सावित्री अनेकाः संस्थाः प्रशासनकौशलेन सञ्चालितवती।