We have given detailed NCERT Solutions for Class 8 Sanskrit come in handy for quickly completing your homework.

CBSE Class 8 Sanskrit Sample Paper Set 4

निर्धारित समय: 3 घंटे
अधिकतम अंकाः 80

खण्डः – ‘क’
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)

एकदा राजकुमारः सिद्धार्थः विहाराय उद्यानं गतवान्। सहसा सः क्रन्दनध्वनिम् अशृणोत्। तदैव एकः हंसः तस्य सम्मुखे भूमौ अपतत्। तम् दृष्ट्वा सिद्धार्थः करुणापूर्णः अभवत्। पुनः च सः हंसस्य शरीराद् बाणं निष्कास्य यावत्पश्यति तावत् देवदतः तत्र आगच्छत्। सः सिद्धार्थम् अकथयत्-“भो सिद्धार्थ! एषः हंसः मया हतः, इमम् हंसम् मह्यम् देहि।” सिद्धार्थः उच्चैः अवदत्-“न दास्यामि इमम् हंसम्, यतः अहम् अस्य रक्षकः।” तौ परस्परम् विवदमानौ राजसभां अगच्छताम्। नृपः सर्वं वृत्तान्तं श्रुत्वा आदिष्टवान्–“यस्य समीपे हंसः गमिष्यति सः तस्यैव भविष्यति। हंसः सानन्दम् सिद्धार्थम् एव उपगतः।” उक्तम् हि-रक्षकः भक्षकात् श्रेयान्।

प्रश्ना:
I. एकपदेन उत्तरत- (1 × 4 = 4)
(i) करुणापूर्णः कः अभवत्?
(ii) सिद्धार्थः विहाराय कुत्र अगच्छत्?
(iii) तौ विवदमानौ कुत्र अगच्छताम्?
(iv) हंसः कुत्र अपतत्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) राजा किम् आदिष्टवान्?
(ii) सिद्धार्थः उच्चैः किम् अवदत्?

III. प्रदत्तविकल्पेभ्यः शुद्धम् उत्तरं चित्वा लिखत- (½ × 2 = 1)
(i) ‘भक्षकः’ इति पदस्य विलोमपदं किम्?
(क) रक्षकः
(ख) भक्षकात्
(ग) श्रेयः
(घ) श्रेयान्

(ii) ‘सहसा सः क्रन्दनध्वनिम् अशृणोत्’ अत्र कर्तृपदं किम्?
(क) सहसा
(ख) सः
(ग) क्रन्दन
(घ) अशृणोत्

IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (1)

खण्ड: – ‘ख’
रचनात्मक कार्यम्

प्रश्न 2.
मञ्जूषातः प्रार्थनापत्रे उचितपदैः रिक्तस्थानानि पूरयत- (6)

दण्डितः, निवेद्यते, श्रेण्या, प्रार्थनापत्रं, वार्षिकोत्सवः, महोदय

सेवायाम्
प्राचार्य महोदयाः
सर्वोदय विद्यालय
कुरुक्षेत्रम्
_____(1)_____
सादरं _____(2)_____ यत् अहम् अष्टम्यां _____(3)_____ पठामि। ह्यः विद्यालयस्य _____(4)_____ आसीत्। ज्वरवेगेन पीडितः अहम् _____(5)_____ न प्रेषितवान्। अतः अहं रूप्यकद्वयेन _____(6)_____। अतोऽहम् प्रार्थये यत् मम अर्थदण्डः क्षन्तव्यः।
धन्यवादः।
आज्ञाकारी शिष्यः
दिनांक 28.12.2020
केशवः
अष्टमी श्रेणी।

प्रश्न 3.
अधोदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्च संस्कृतवाक्यानि लिखत- (10)

मञ्जूषा – छात्राः, शिक्षिका, शिक्षकः, बसयानम्, विद्यालयस्य, गच्छन्ति, वृक्षाः, प्रसन्नाः, सन्ति, गृहम्, स्यूताः, धारयन्ति
CBSE Class 8 Sanskrit Sample Paper Set 4 Q3

प्रश्न 4.
अधोदत्तां कथाम् मञ्जूषायाम् प्रदत्तशब्दानाम् सहायतया पूरयत- (4)

भिक्षाम्, भिक्षापात्रम्, तीरे, परमेश्वरस्य

एकदा गंगातटे गोस्वामी _____(1)_____ नामस्मरणे मग्नः आसीत्। तदैव कश्चित् भिक्षुकः आगत्य _____(2)_____ अयाचत। गोस्वामी अवदत्-“मम समीपे _____(3)_____ विहाय किमपि नास्ति। परन्तु अद्य मया नद्याः _____(4)_____ एक: मणिः प्राप्तः, सः तु दूरे सिकतासु क्षिप्तः।

खण्ड: – ‘ग’
अनुप्रयुक्त-व्याकरणम्

प्रश्न 5.
सन्धिं सन्धिविच्छेदं वा कुरुत- (4)

(i) सूर्य + उदयः ____________
(ii) मुर + अरिः ____________
(iii) प्रति + एकम् ____________
(iv) कवीश्वरः _____ + _____

प्रश्न 6.
मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पूरयत- (4)

सहसा, उच्चैः, श्वः, अधुना

(i) कक्षायाम् ____________ न वदेम।
(ii) ____________ कार्यम् न कुरुत।
(iii) त्वम् ____________ विद्यालयं गच्छ।
(iv) वयम् ____________ न क्रीडिष्यामः।

प्रश्न 7.
मञ्जूषातः पर्यायपदानि चित्वा लिखत- (½ × 6 = 3)

सलिलम्, घटः, बालम्, सदनम्, हस्ते, श्रुत्वा

(i) करे ____________
(ii) गृहम् ____________
(iii) आकर्ण्य ____________
(iv) जलम् ____________
(v) शिशुम् ____________
(vi) कुम्भः ____________

प्रश्न 8.
तद्भव-पदानाम् कृते मञ्जूषातः चित्वा संस्कृतपदानि लिखत- (½ × 6 = 3)

वंशम्, भ्राता, ग्रामः, क्षेत्रम्, सप्त, भगिनी

(i) बहिन
(ii) खेत
(iii) सात
(iv) गाँव
(v) बाँस
(vi) भाई

प्रश्न 9.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (4)

अनेकानि, सुन्दराणि, एकाम्, स्वच्छं

(i) उद्याने ____________ पुष्पाणि विकसन्ति।
(ii) पुस्तकालये ____________ पुस्तकानि सन्ति।
(iii) महिला ____________ जलं आनयति।
(iv) सिंहः ____________ गुहाम् अपश्यत्।

प्रश्न 10.
कोष्ठकेषु शब्देषु उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (4)

(i) वानरा: ____________ उपरि कूर्दन्ति। (वृक्षे / वृक्षस्य / वृक्षं)
(ii) ____________ परितः पर्वताः सन्ति। (नगरं / नगरस्य / नगरात)
(iii) ____________ गङ्गा निर्गच्छति। (हिमालयः/हिमालयात्/ हिमालये)
(iv) रामः ____________ सह अगच्छत् (सीताम्/सीतया/सीतायाः)

प्रश्न 11.
मञ्जूषातः अङ्कानाम् कृते पदानि लिखत- (1 × 3 = 3)

पञ्चाशत्, नवचत्वारिंशत्, चतुस्त्रिंशत्, द्वाविंशतिः

(i) 12 ____________
(ii) 34 ____________
(iii) 49 ____________

खण्डः – ‘घ’
पठित-अवबोधनम्

प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्–“नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) क्षुधातः कः आसीत्?
(ii) सिंहस्य नाम किम् आसीत्?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) सः किम् अचिन्तयत्?

III. यथानिर्देशम् उत्तरत- (½ × 2 = 1)
(i) ‘अरण्ये’ इति पदस्य पर्यायः कः?
(क) कदाचित्
(ख) वने
(ग) गुहां
(घ) महतीं

(ii) ‘दिने’ इति पदस्य विलोमपदं किम्?
(क) रात्रि
(ख) साये
(ग) नूनम्
(घ) रात्रौ

प्रश्न 13.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

शालिनी – भ्राता एवं चिन्तयितुमपि कथं प्रभवति? शिशुः कन्याऽस्ति चेत् वधार्हा? जघन्यं कृत्यमिदम्। त्वम् विरोधं न कृतवती? सः तव शरीरे स्थितस्य शिशोः वधार्थं चिन्तयति, त्वम् तूष्णीम् तिष्ठसि? अधुनैव गृहं चल। नास्ति आवश्यकता लिंगपरीक्षणस्य। भ्राता यदा गृहम् आगमिष्यति, अहम् वार्ता करिष्ये।

प्रश्नाः
I. एकपदेन उत्तरत- (2 × 1 = 2)
(i) वधार्हा का अस्ति?
(ii) गृहं कः आगमिष्यति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) पितृगृहं का आगच्छति?
(ii) माला कया सह गच्छति?

III. निर्देशानुसारम् उत्तरत- (½ × 2 = 1)
(i) ‘शिशोः इत्यत्र का विभक्तिः?
(ii) ‘भ्राता ____________ कथं प्रभवति’ इत्यत्र कर्तृपदं किम्?

प्रश्न 14.
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (4)

गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणम् प्राप्य भवन्ति दोषाः।
सुस्वादुतोयाः प्रभवन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) गुणाः किम् प्राप्य दोषाः भवन्ति?
(ii) केषु गुणाः गुणाः भवन्ति?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
(i) कीदृशाः नद्यः प्रभवन्ति?

III. निर्देशानुसारं लिखत- (½ × 2 = 1)
(i) ‘नद्यः’ इति पदस्य समानार्थकम् पदम् किम्?
(क) सलिलः
(ख) पवनः
(ग) सरिताः
(घ) समुद्रः

(ii) ‘पेयाः’ इति पदस्य विलोमपदं किम्?
(क) अपेयाः
(ख) पेय
(ग) नद्यः
(घ) तोयाः