Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Set 2 will help students in understanding the difficulty level of the exam.

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

समयः- होरात्रयम्
सम्पूर्णाङ्काः – 80

सामान्यनिर्देशाः

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति।
  • उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
  • अस्य प्रश्नपत्रस्य पठनाय 15 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।

प्रश्नपत्रस्वरूपम्

‘अ’-भागः (बहुविकल्पात्मकः) 40 अङ्काः
‘आ’-भागः (वर्णनात्मकः) 40 अङ्काः

(i) अस्मिन् प्रश्नपत्रे द्वौ भागौ स्तः।
(ii) ‘अ’- भागः बहुविकल्पात्मकः अस्ति।
(iii) ‘आ’-भागः वर्णनात्मकः अस्ति।
(iv) प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया।
(v) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
(vi) प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।

‘अ’-भागः- बहुविकल्पात्मकाः प्रश्नाः (अङ्काः 40)

अनुप्रयुक्त-व्याकरणम् (अङ्काः 25)

प्रश्न 1.
अधोलिखितवाक्येषु रेखाङ्कितपदस्य सन्धिपदं सन्धिच्छेदपदं वा चिनुत-(केवलं प्रश्नचतुष्टयम्) (1 x 4 = 4)
(i) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत।
(क) अचिराद् + एव
(ख) अचिरात् + एव
(ग) अचिराद + एव
उत्तर
(i) (ख) अचिरात् + एव

(ii) आलस्यं हि मनुष्याणां शरीरस्थः + महान् रिपुः।
(क) शरीरस्थो महान्
(ख) शरीरस्थ महान्
(ग) शरीरस्थमहान्
उत्तर
(क) शरीस्थो महान्

(iii) कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन् आसीत्।
(क) कश् + चित्
(ख) क + श्चित्
(ग) कः + चित्
उत्तर
(ग) कः + चित्

(iv) किञ्चित् कालं नय माम् अस्मात् + नगराद् बहुदूरम्।
(क) अस्मात्नगरात्
(ख) अस्मान्नगरात्
(ग) अस्मादनगरात्
उत्तर
(ख) अस्मान्नगरात्

(v) अयोग्यः पुरुषः नास्ति योजक : + तत्र दुर्लभः।
(क) योजकस्तत्र
(ख) योजक तत्र
(ग) योजकश्तत्र
उत्तर
(क) योजकस्तत्र

प्रश्न 2.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चिनुत। (केवलं प्रश्नचतुष्टयम्) (1 x 4 = 4)
(i) वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
(क) वृक्ष उपरि
(ख) वृक्षस्य उपरि
(ग) वृक्षे उपरि
उत्तर
(ख) वृक्षस्य उपरि

(ii) प्रकृतिमाता (सस्नेहम्)-भोः भोः प्राणिनः! यूयं सर्वे एव में सन्ततिः।
(क) स्नेहस्य सहितम्
(ख) स्नेहेन सहितम्
(ग) स्नेहस्य अभावः
उत्तर
ख) स्नेहन सहितम्

(iii) सर्वेषामेव मत्कृते महत्त्वं विद्यते समयम् अनतिक्रम्य
(क) यथासमयम्
(ख) यथासमयः
(ग) उपसमयम्
उत्तर
(क) यथासमयम्

(iv) वाक्पटुः केनापि प्रकारेण परैर्न परिभूयते।
(क) वाचः पटुः
(ख) वाक् पटुः
(ग) वाचि पटुः
उत्तर
(ग) वाचि पटुः

(v) हयाः च नागाः च वहिन्त बोधिताः।
(क) हयनागाः
(ख) हयानागौ
(ग) हयानागाश्च
उत्तर
(क) हयनागाः

प्रश्न 3.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चिनुत। (केवलं प्रश्नचतुष्टयम्) (1 x 4 = 4)
(i) विद्वांसः एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
(क) चक्षुस् + मतुप्
(ख) चक्षुष् + मतुप्
(ग) चक्षुः + मतुप्
उत्तर
(ख) चक्षुष् + मतुप्

(ii) विचित्रा दैवगतिः।
(क) विचित्र + टाप
(ख) विचित्र + ङीप्
(ग) विचित्र + त्व
उत्तर
(क) विचित्र + टाप्

अथवा

जम्बुक: स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम्।
(क) धूर्त + तल्
(ख) धूर्त + टाप्
(ग) धूर्त + त्व
उत्तर
(ख) धूर्त + टाप्

(iii) तस्या भार्या बुद्धि + मतुप् पुत्रद्वयोपेता पितुर्गृह प्रति चलिता।
(क) बुद्धिमान्
(ख) बुद्धिमती
(ग) बुद्धिमत्
उत्तर
(ख) बुद्धिमती

(iv) सर्वेषामेव मत्कृते महत् + त्व विद्यते
(क) महत्ता
(ख) महत्वम्
(ग) महत्त्वम्
उत्तर
(ग) महत्त्वम्

प्रश्न 4.
वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत। (केवलं प्रश्नत्रयम्) (1 x 3 = 3)
(i) आदित्यः-अभिनव! किं ………… क्रीडितुं गच्छसि?
(क) त्वया
(ख) त्वम्
(ग) अहम्
उत्तर
(ख) त्वम्

(ii) अभिनव:- न, मया तु स्वपाठः ……………
(क) पठ्यते
(ख) पठामि
(ग) पठ्यसे
उत्तर
(क) पठ्यते

(iii) आदित्यः – शोभनम्! त्वं …………………. अपि लिखसि किम्?
(क) निबन्धः
(ख) निबन्धम्
(ग) निबन्धेन
उत्तर
(ख) निबन्धम्

(iv) अभिनव:- न, ……………………… तु गणितस्य अभ्यासः क्रियते।
(क) त्वया
(ख) अहम्
(ग) मया
उत्तर
(ग) मया

प्रश्न 5.
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत- (केवलं प्रश्नचतुष्टयम्) (1 x 4 =4)
(i) अहं सायं 5:30 वादने ……… … भ्रमणं करोमि।
(क) सार्ध-पञ्चवादने
(ख) सपाद-पञ्चवादने
(ग) पादोन-पञ्चवादने
उत्तर
(क) सार्ध-पञ्चवादने

(ii) केशवः प्रात: 6:00 वादने ……………… जागर्ति।
(क) सार्ध-षड्वादने
(ख) सपाद-षड्वादने
(ग) षड्वादने
उत्तर
(ग) षड्वादने

(iii) कपिलः प्रातः 7:30 वादने …………………. विद्यालयं गच्छति।
(क) सार्ध-सप्तवादने
(ख) सपाद-सप्तवादने
(ग) पादोन-सप्तवादने
उत्तर
(क) सार्ध-सप्तवादने

(iv) सायं 4:30 वादने ….. ……………….. निनादः अतिरिक्तकक्षायै गच्छति।
(क) सपाद-चतुर्वादने
(ख) सार्ध-चतुर्वादने
(ग) पादोन-चतुर्वादने
उत्तर
(ख) सार्ध-चतुर्वादने

(v) प्रणवः रात्रौ 8:45 वादने ……. … दूरदर्शनं पश्यति।
(क) सार्ध-अष्टवादने
(ख) सपाद-अष्टवादने
(ग) पादोन-नववादने
उत्तर
(ग) पादोन-नववादने

प्रश्न 6.
वाक्यानुगुणम् उचिताव्ययपदं चिनुत- (केवलं प्रश्नत्रयम्) (1 x 3 = 3)

(i) …………………… छात्राः पादपान् सिञ्चन्ति।
(क) श्वः
(ख) ह्यः
(ग) इदानीम्
उत्तर
(ग) इदानीम्

(ii) दुर्वहम् ….. ……………. जीवितं जातम्।
(क) तत्र
(ख) अत्र
(ग) अन्यत्र
उत्तर
(ख) अत्र

(iii) निर्जनस्थाने रोदनं ………………… भवति।
(क) श्वः
(ख) वृथा
(ग) एव
उत्तर
(ख) वृथा

(iv) …………………… गणितस्य परीक्षा अभवत्।
(क) उच्चैः
(ख) शनैः
(ग) ह्यः
उत्तर
(ग) ह्यः

प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धं पदं विकल्पेभ्यः चिनुत- (केवलं प्रश्नत्रयम् ) (1 x 3 = 3)

(i) भवान् फलं खाद
(क) खादसि
(ख) खादन्तु
(ग) खादतु
उत्तर
(ग) खादतु

(ii) वृक्षाणि हरिताः सन्ति।
(क) वृक्षान्
(ख) वृक्षाः
(ग) वृक्षौ
उत्तर
(ख) वृक्षाः

(iii) सः ग्रामं गच्छन्ति
(क) गच्छसि
(ख) गच्छतः
(ग) गच्छति
उत्तर
(ग) गच्छति

(iv) आनन्दः ह्यः न आगमिष्यति
(क) आगच्छत्
(ख) आगच्छति
(ग) आगच्छन्
उत्तर
(क) आगच्छत्

पठितावबोधनम् (अङ्काः 15)

प्रश्न 8.
रेखाङ्कितपदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत। (केवलं प्रश्नपञ्चकम् ) (1 x 5 = 5)

(i) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
(क) कस्य
(ख) कुत्र
(ग) केषाम्
उत्तर
(ख) कुत्र

(ii) बुद्धिमती चपेटया पुत्रौ प्रहतवती।
(क) का
(ख) कदा
(ग) कया
उत्तर
(ग) कया

(iii) मयूरस्य नृत्यं प्रकृतेः आराधना अस्ति।
(क) का
(ख) कस्य
(ग) कस्याः
उत्तर
(ग) कस्याः

(iv) सुराधिपः ताम् अपृच्छत्।
(क) कः
(ख) किम्
(ग) का
उत्तर
(क) कः

(v) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(क) कस्मै
(ख) कस्यै
(ग) कैः
उत्तर
(क) कस्मै

(vi) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
(क) काः
(ख) के
(ग) कः
उत्तर
(ग) कः

प्रश्न 9.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थं चिनुत- (केवलं प्रश्नचतुष्टयम्) (1 x 4 = 4)

(i) नवमालिका रसालं मिलिता।
(क) वनम्
(ख) आम्रम्
(ग) वृक्षम्
उत्तर
(ख) आम्रम्

(ii) राजपुत्रस्य भार्या पुत्रद्वयोपेता पितृगृहं प्रति चलिता।
(क) माता
(ख) सखी
(ग) पत्नी
उत्तर
(ग) पत्नी

(iii) वृषः जवेन गन्तुम् अशक्तः आसीत्।
(क) तीव्रगत्या
(ख) ‘जव’ इति अन्नेन
(ग) मन्दं मन्दम्
उत्तर
(क) तीव्रगत्या

(iv) करी च सिंहस्य बलं जानाति।
(क) करः
(ख) सिंहः
(ग) गजः
उत्तर
(ग) गजः

(v) मां निजगले बद्ध्वा चल सत्वरम्
(क) मन्दम्
(ख) शीघ्रम्
(ग) शनैः
उत्तर
(ख) शीघ्रम्

प्रश्न 10.
भाषिककार्यसम्बद्धानां प्रश्नानां समुचितम् उत्तरं विकल्पेभ्यः चिनुत-(केवलं प्रश्नषट्कम्) (1 x 6 = 6)

(i) “दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्” अस्मिन् वाक्ये विशेष्यपदं किम्?
(क) दुर्दान्तः
(ख) दशनैः
(ग) अमुना
उत्तर
(ख) दशनैः

(ii) “मार्गे गहनकानने एक व्याघ्रं ददर्श’ अत्र ‘वने’ इत्यर्थे किं पर्यायपदं प्रयुक्तम्?
(क) मार्ग
(ख) गहने
(ग) कानने
उत्तर
(ग) कानने

(iii) “स ऋषभ: हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात” अत्र क्रियापदं किम्?
(क) पपात
(ख) ऊढ्वा
(ग) अशक्तः
उत्तर
(क) पपात

(iv) “निमित्तमुद्दिश्य हि यः प्रकुप्यति, ध्रुवं स तस्यापगमे प्रसीदति” अस्मिन् वाक्ये ‘प्रकुप्यति’ इत्यस्य किं विलोमपदं प्रयुक्तम्?
(क) ध्रुवम्
(ख) प्रसीदति
(ग) निमित्तम्
उत्तर
(ख) प्रसीदति

(v) “क्रुद्धः सिंह: वानरं प्रहर्तुमिच्छति” अस्मिन् वाक्ये किं विशेषणपदं प्रयुक्तम्?
(क) क्रुद्धः
(ख) सिंहः
(ग) वानरम्
उत्तर
(क) क्रुद्धः

(vi) “आदेशं प्राप्य उभौ प्राचलताम्” अत्र कर्तृपदं किम्?
(क) आदेशम्
(ख) उभौ
(ग) प्राप्य
उत्तर
(ख) उभौ

(vii) “पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्” अत्र विशेषणपदं किम्?
(क) पिता
(ख) महत्
(ग) विद्याधनम्
उत्तर
(ख) महत्

(viii) “तस्य मृतशरीरं राजमार्ग निकषा वर्तते” अत्र ‘निकटे’ इत्यर्थे किं पदं दत्तम्?
(क) राजमार्गम्
(ख) मृतशरीरम्
(ग) निकषा
उत्तर
निकषा

‘आ’-भाग:- वर्णनात्मका: प्रश्नाः (अङ्काः 40)

अपठितावबोधनम् (अङ्काः 10)

प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (10)

सूर्यवंशे सर्वप्रथमं मनु म नृपः अभवत्। तस्य कुलं एव दिलीपः इति ख्यातनामा राजा समुत्पन्नः। राजा दिलीपः सर्वेषां विषयाणां ज्ञाता आसीत् तथापि सः सर्वदा अभिमानरहितः, पराक्रमी, परिश्रमी. क्षमाशीलः आसीत्। दिलीपः न्यायपूर्वकं पितृवत् च प्रजापालनं करोति स्म। सः प्रजायाः रक्षणे सर्वदा उद्यतः भवति स्म। अतः सः एव प्रजायाः पिता आसीत्। राजा दिलीपः यदा चिरं सन्ततिं न अलभत तदा तं गुरुवशिष्ठः सन्ततिं प्राप्तुं कामधेनोः पुत्र्याः नन्दिन्याः सेवार्थम् आदिशत्। दिलीपः स्वभार्यया सह एकविंशतिः दिवसपर्यन्तं गोसेवाम् अकरोत्। द्वाविंशतितमे दिने एक: सिंहः नन्दिनीम् आक्राम्यत्।

दिलीप: गोरक्षायै स्वशरीरं समर्पयितुम् उद्यतः अभवत्। प्रसन्ना नन्दिनी तस्मै सन्तते: वरम् अयच्छत्।

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)

(i) दिलीपः कया सह गोसेवाम् अकरोत्?
(ii) दिलीपः किमर्थं स्वशरीरं समर्पयितुम् उद्यतः अभवत्?
(iii) सूर्यवंशे सर्वप्रथमं क: नृपः अभवत्?
उत्तर
(i) भार्यया
(ii) गोरक्षायै
(iii) मनु:/मनुर्नाम

(आ) पूर्णवाक्येन उत्तरत। (केवल प्रश्नद्वयम्) (2 × 2 = 4)

(i) गुरुवशिष्ठः किमर्थं नन्दिन्याः सेवार्थम् आदिशत्?
(ii) दिलीपः कथं प्रजापालनं करोति स्म?
(iii) दिलीपः कति दिवसपर्यन्तं गोसेवाम् अकरोत्?
उत्तर
(i) गुरुः वशिष्ठः सन्ततिं प्राप्तुं राजानं दिलीपं नन्दिन्याः सेवार्थम् आदिशत्।
(ii) दिलीपः न्यायेन धर्मेण च पितृवत् प्रजापालनं करोति स्म।
(iii) दिलीपः एकविंशति-दिवसपर्यन्तं गोसेवाम् अकरोत्।।

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1)
उत्तर
दिलीपः । राजादिलीपः अथवा अन्य कोऽपि समुचितः शीर्षक:

(ई) यथानिर्देशम् उत्तरत्-(केवलं प्रश्नत्रयम् ) (1 × 3 = 3)

(i) ‘आक्राम्यत्’ इत्यस्याः क्रियायाः कर्तृपदं किम्?
(क) दिलीपः
(ख) वशिष्ठः
(ग) सिंहः
उत्तर
(ग) सिंहः

(ii) ‘क्षमाशीलः’ इति पदस्य विशेष्यं गद्यांशात् चित्वा लिखत।
(क) वशिष्ठः
(ख) दिलीप:
(ग) पराक्रमी
उत्तर
(ख) दिलीपः

(iii) ‘वंशे’ इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
(क) कुले
(ख) सन्ततेः
(ग) चिरम्
उत्तर
(क) कुले

(iv) अनुच्छेदे ‘अलसः’ पदस्य कः विपर्ययः आगतः?
(क) क्षमाशील:
(ख) परिश्रमी
(ग) पराक्रमी
उत्तर
(ख) परिश्रमी

रचनात्मकं कार्यम् (अङ्काः 15)

प्रश्न 12.
भवान् अभिनवः। भवान् पितुः स्थानान्तरणवशात् असमप्रदेशम् आगतः। स्थानान्तरण-प्रमाणपत्रं प्राप्तुं प्रधानाचार्यां प्रति लिखिते प्रार्थनापत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु। (1/2 × 10 = 5)

सेवायाम् ……………..
माननीया (i) ………….
डी.ए.वी. विद्यालयः, ”
नवदेहली।
विषय:- स्थानान्तरण-प्रमाणपत्रं प्राप्तुं प्रार्थनापत्रम्।
महोदय!
(ii) …………….. निवेदनम् अस्ति यद् अहं भवत्याः विद्यालये नवमकक्षायां (iii) …………….। मम पितुः (iv) …………… असमप्रदेशस्य गौहाटीनगरे सञ्जातम्। मम सम्पूर्णः परिवारः तत्रैव गत्वा निवासं (v) …… अहम् अपि (vi) …………. सह गत्वा तत्रैव (vii) ………….. । अतः अहं प्रार्थये यत् कृपया मह्यं स्थानान्तरणपत्रं (viii) …………………. अनुगृह्णातु। भवत्याः (ix) …………………. कृपा भविष्यति। धन्यवादः। भवत्याः (x)
शिष्यः
अभिनवः
नवमकक्षास्थः
अनुक्रमाङ्क:-3
दिनाङ्कः ………………..
मञ्जूषा- सविनयम्, पठामि, प्रधानाचार्या, परिवारेण, करिष्यति, प्रदाय, स्थानान्तरणम् पठिष्यामि, महती, आज्ञाकारी
उत्तर
(i) प्रधानाचार्या
(ii) सविनयम्
(iii) पठामि
(iv) स्थानान्तरणम्
(v) करिष्यति
(vi) परिवारेण
(vii) पठिष्यामि
(viii) प्रदाय
(ix) महती
(x) आज्ञाकारी

प्रश्न 13.
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- (1 x 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions
मञ्जूषा- अग्रजस्य, अनुजस्य, भगिनी, रक्षाबन्धनम्, रक्षासूत्रम्, मणिबन्धे, मिष्टान्नम्, प्रसन्नौ, पर्वणः बध्राति।
उत्तर
अत्र छात्रेभ्यः सक्षिप्तवाक्यरचना अपेक्षिता वर्तते। केवलं वाक्यशुद्धिः द्रष्टव्या। अस्य प्रश्नस्य प्रमुखम् उद्देश्य वाक्यरचना अस्ति। वाक्यं दीर्घम् अस्ति अथवा लघु इति महत्त्वपूर्णं नास्ति। प्रतिवाक्यम् अर्धः भावस्य कृते अर्धः अङ्कः च व्याकरणदृष्टया शुद्धतानिमित्तं निर्धारितः अस्ति। मञ्जूषायां प्रदत्ताः शब्दाः सहायतार्थ सन्ति। छात्रः तेषां वाक्येषु प्रयोगं कुर्यादेव इति अनिवार्यं नास्ति। छात्रः स्वमेधया अपि वाक्यानि निर्मातुं शक्नोति। मञ्जूषायां प्रदत्तानां शब्दानां विभिक्ति परिवृत्य अपि वाक्यनिर्माणं कर्तुं शक्यते।

अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद लिखत

‘दीपावलिः
मञ्जूषा- दीपानां पड्क्तिः,जनाः, रात्रौ, पूजयन्ति, प्रतीकम्, मिष्टान्नम्, वितरन्ति, स्फोटयन्ति, दीपमालिकोत्सवः, उल्लासमयम्, अमावस्यायाम्, उत्साहेन, बालकाः अपि।
उत्तर
अयं विकल्पः सर्वेभ्यः अस्ति। छात्राः मञ्जूषायां प्रदत्तानां शब्दानां विभक्ति परिवृत्य अपि वाक्यनिर्माणं कर्तुं शक्नुवन्ति। अतः अङ्काः देयाः। प्रत्येकं वाक्यनिमित्तम् अङ्कमेकम् इति। अस्य मूल्याङ्कनाय अन्ये नियमाः चित्रवर्णनस्य अनुगुणं पालनीयाः।

प्रश्न 14.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं वाक्यपञ्चकम्) (1 x 5 = 5)
(i) उद्यान में फूल खिल रहे हैं। (Flowers are blooming in the garden.)
(ii) मेरे पास पाँच फल हैं। (I have five fruits.)
(iii) दिल्ली भारत की राजधानी है। (Delhi is the capital of India.)
(iv) कल हम दोनों गोवा गए थे। (Both of us went to Goa yesterday.)
(v) कृपया तुम मेरे लिए पानी लाओ। (Please bring water for me.)
(vi) शनिवार को मैं उत्सव में जाऊँगा। (I will go to festival on Satuday.)
(vii) अब तुम्हें पढ़ना चाहिए। (You should study now.)
उत्तर
(i) उद्याने पुष्पाणि विकसन्ति।
(ii) मम समीपे पञ्च फलानि सन्ति।
(iii) दिल्ली/देहली भारतस्य राजधानी अस्ति।
(iv) ह्यः आवां गोवानगरम् अगच्छाव/गतवन्तौ।
(v) कृपया त्वं मह्य/मदर्थं जलम् आनय।
(vi) शनिवासरे अहम् उत्सवं गमिष्यामि।
(vii) अधुना त्वं पठेः अथवा अधुना त्वया पठनीयम्/पठितव्यम्।

पठितावबोधनम् (अङ्काः 15)

प्रश्न 15.
अधोलिखितं गद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (3)
अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा बुद्धिमती एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ात् पुत्रौ चपेटया प्रहत्य जगाद-“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथ:? । अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते”। इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः।

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)

(i) क: भयाकुलचित्तो नष्टः?
(ii) सा बुद्धिमती कुत्र एकं व्याघ्रं ददर्श?
(iii) राजसिंहः कः आसीत्?
उत्तर
(i) व्याघ्रः
(ii) मार्गे/गहनकानने
(iii) राजपुत्रः

(आ) पूर्णवाक्येन उत्तरत। (केवल प्रश्नद्वयम्) (1 × 2 = 2)

(i) सा पुत्रौ चपेटया प्रहृत्य किं जगाद?
(ii) बुद्धिमती सा किमर्थं पितृह प्रति चलिता?
(iii) मार्गे सा बुद्धिमती किं ददर्श?
उत्तर
(i) सा पुत्रौ चपेटयाप्रहृत्य जगाद-“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभज्य भुज्यताम्।पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।
(ii) बुद्धिमती सा आवश्यककार्येण पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(iii) मार्गे सा बुद्धिमती एकं व्याघ्रं ददर्श।

प्रश्न 16.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि पर्यावरणम्।।
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्।।
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्। शुचि पर्यावरणम्।।

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)

(i) अत्र किं दुर्वहं जातम्?
(ii) कदा महानगरे कालायसचक्र चलति?
(iii) पर्यावरणं कीदृशं भवितव्यम्?
उत्तर
(i) जीवितम्
(ii) अनिशम्
(iii) शुचि

(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(i) कालायसचक्रं किं कुर्वत् वक्रं भमति?
(ii) केन जनग्रसनं न स्यात्?
(iii) का अस्माकं शरणम् अस्ति?
उत्तर
(i) कालायसचक्रम् अनिशं चलद् व्रकं भ्रमति।
(ii) दुर्दान्तैः दशनैः जनग्रसनं न स्यात्।
(iii) प्रकृतिः एव अस्माकं शरणम् अस्ति।

प्रश्न 17.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तानां प्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
मयूरः- (वृक्षोपरितः-साट्टहासपूर्वकम्) विरम्, विरम, आत्मश्लाघायाः। किं न जानासि यत्
यदि न स्यान्नरपतिः सम्यनेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥ (3)

को न जानाति तव ध्यानावस्थाम्। ‘स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम्।

वानरः- (सगर्वम्) अतएव कथयामि यत् अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः।

मयूरः- अरे वानर! तूष्णीं भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं मां वनराजरूपेणापि द्रष्टुं सज्जाः भवन्तु अधुना। यतः कोऽप्यन्य: विधातुः निर्णयम् अन्यथा कर्तुं क्षमः?

काकः- (सव्यङ्ग्यम्) अरे अहिभुक्! नृत्यातिरिक्तं का तव विशेषता यत् त्वां वनराजपदाय योग्यं मन्यामहे वयम्।

(अ) एकपदेन उत्तरत। (केवल प्रश्नद्वयम्) (1/2 × 2 = 1)

(i) कः सगर्वं वदति?
(ii) नाट्यांशे कः श्लोकं वदति?
(iii) ‘अरे वानर! तूष्णीं भवा’ इति कः कथयति?
उत्तर
(i) वानरः
(ii) मयूरः
(iii) मयूरः

(आ) पूर्णवाक्येन उत्तरत। (केवल प्रश्नद्वयम्) (1 × 2 = 2)

(i) विधात्रा मयूरः कथं पक्षिराजः कृतः?
(ii) काकः किं वदति?
(iii) वानरः (सगर्व) किं वदति?
उत्तर
(i) शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एव मयूरः पक्षिराजः कृतः।
(ii) काकः (सव्यङ्ग्यम्)-“अरे अहिभुक्! नृत्यातिरिक्तं का तव विशेषता यत् त्वां वनराजपदाय योग्य मन्यामहे वयम्।” इति वदति
(iii) वानरः (सगर्वं) “अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः” इति कथयति।

प्रश्न 18.
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयत (1/2 x 4 = 2)
त्यक्त्वा धर्मप्रदां वाचं परुषां या योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥
अन्वयः- यः
(i) …………. वाचम् त्यक्त्वा परुषाम् वाचम्
(ii) …….(सः) विमूढघी: पक्वम् (फलम्)
(iii) …………. अपक्वम् फलम्
(iv) मञ्जूषा- अभ्युदीरयेत्, भुङ्क्ते, धर्मप्रदाम्, परित्यज्य
उत्तर
(i) धर्मप्रदाम्
(ii) अभ्युदीरयेत्
(iii) परित्यज्य
(iv) भुङ्क्ते

अथवा
मञ्जूषायाः साहाय्येन श्लोकस्यभावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिक: पिकः।।
भावार्थ:- अस्य भावोऽस्ति यत्
(i) ………..वर्णः कृष्णः वर्तते पिकस्य अपि वर्णः
(ii) ……….. एव अस्ति। अतः पिके काके च कः भेदः अस्ति अर्थात् वर्णदृष्ट्या तयोः कश्चिद् भेदो न दृश्यते। परन्तु यदा
(iii) ……. समयः आगच्छति तदा तयोः स्वरैः ज्ञायते यत् कः
(iv) …….. कश्च पिको वर्तते। मञ्जूषा- वसन्तस्य, काकस्य, काकः, कृष्णः
उत्तर
अस्य भावोऽस्ति यत् काकस्य वर्णः कृष्णः वर्तते पिकस्य अपि वर्णः कृष्णः एव अस्ति। अतः तयोः पिके काके च कः भेदः अस्ति अर्थात् वर्णदृष्ट्या तयोः कच्चिद् भेदो न दृश्यते! परन्तु यदा वसन्तस्य समय: आगच्छति तदा तयोः स्वरैः ज्ञायते यत् कः काकः अस्ति कश्च पिको वर्तते।

प्रश्न 19.
अधोलिखित-कथांशं समुचितक्रमेण लिखत। (1/2 x 8 = 4)
(i) एकः कृषकः आसीत्।
(ii) पुत्रस्य दैन्यावस्थां दृष्ट्वा सुरभिः दुःखिता अभवत्।
(iii) सुरभेः इमाम् अवस्थां दृष्ट्वा सुराधिपः ताम् अपृच्छत्- ‘अयि शुभे! किमेवं रोदिषि’ इति।
(iv) कृषक: तं दुर्बलं वृषभ तोदनेन नुद्यमानः अवर्तत।
(v) तस्य समीपे द्वौ बलीवदौ आस्ताम्।
(vi) क्रुद्धः कृषकः तमुत्थापयितुं बहुवारं यत्नमकरोत्।
(vii) सः वृषभः हलम् ऊढ्वा गन्तुम् अशक्तः क्षेत्रे पपात।
(viii) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।
उत्तर
(i) एकः कृषकः आसीत्।
(ii) तस्य समीपे द्वौ बलीवौ आस्ताम्।
(iii) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत्।
(iv) कृषक: तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत।
(v) सः वृषभः हलम् ऊढवा गन्तुम् अशक्तः क्षेत्रे पपात।।
(vi) क्रुद्धः कृषक: तमुत्थापयितुं बहुवारं यत्नमकरोत्।
(vii) पुत्रस्य दैन्यावस्थां दृष्ट्वा सुरभिः दुःखिता अभवत्।
(vii) सुरभेः इमाम् अवस्थां दृष्ट्वा सुराधिपः ताम् अपृच्छत्–’अयि शुभे! किमेवं रोदिषि’ इति।