Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Term 3 Set 3 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 3 with Solutions
समयः : होरात्रयम्
सम्पूर्णाङ्काः : 40
प्रश्नपत्रस्वरूपम :
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति।
- अस्य प्रश्नपत्रस्य पठनाय 20 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
- उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् एवं लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
(वर्णनात्मकाः प्रश्नाः)
अपठित-अवबोधनम् (40 अङ्काः)
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (10 )
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
जीवने सफलतायाः आधारः पुरुषार्थः एव! अस्य अभावेन नरः सुख-समृद्धिम् आप्तुम् असमर्थः भवति यशः च न प्राप्नोति। यथा-यथा नरः पुरुषार्थम् अचिनोत् तथा-तथा तेन सफलता प्राप्ता। पुरुषार्थिनः एव संसारे विलक्षण-प्रतिभाम् अर्जिवन्तः। अनेन एवम् एवरेष्टशिखरम् अजयत् अन्तरिक्षं च अगच्छत्। नरः देशसेवया समाजसेवया च पुरुषार्थिभिः उल्लेखनीयानि कार्याणि कृतानि। अस्माकम् इतिहासे तेषां गौरवगानं विद्यते। अपातकाले येषां मनसि विचलितानि न भवन्ति, ते एव जीवने सफलता प्राप्नुवन्ति। पुरुषार्थिनाम् कृते तु पुरुषार्थम् एव उपासना अस्ति। यः जनः स्वजीवने सफलता प्राप्तुम् इच्छति सः पुरुषार्थम् अवश्यमेव कुर्यात् । पुरुषार्थस्य अभावे जनः सफलता प्राप्ति न कर्तुं शक्यते।
(अ) एकपदेन उत्तरत। (केवलं प्रश्न-द्वयम्) (1 × 2 = 2)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) पुरुषार्थस्य अभावेन किम् आप्तुम् असमर्थ:?
उत्तरः
सुखसमृद्धिम्
(ii) अनेन जनेन किम् अजयत् ?
उत्तरः
एवरेष्टशिखरम्
(iii) पुरुषार्थेन जनः कुत्र अगच्छत् ?
उत्तरः
अंतरिक्षम्
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्न-द्वयम्) (2 × 2 = 4)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) पुरुषार्थिभिः केन उल्लेखनीयानि कार्याणि कृतानि?
उत्तरः
पुरुषाथिभिः देशसेवया, समाजसेवया, शिक्षाप्रसारणच कार्याणि कृतानि।
(ii) पुरुषार्थिनां कृते कुत्र गौरवगानं विद्यते?
उत्तरः
पुरुषार्थिनां अस्माकम् इतिहासे गौरवगानं विद्यते।
(iii) जीवने के सफलतां प्राप्नुवन्ति?
उत्तरः
अपातकाले येषां मनसि विचलितानि न भवन्ति, ते एव जीवने सफलतां प्राप्नुवन्ति।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (द्वित्रिशष्दात्मक-वाक्यम्) (1)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तरः
पुरुषार्थ:/सफलतायाः आधारपुरुषार्थ। ………………
(ई) यथानिर्देशम् उत्तरत। (केवलं प्रश्न-त्रयम्) (एकपदेन) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘भवति’ इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम्?
(क) नरः
(ख) असमर्थः
(ग) यशः
उत्तरः
(क) नरः
(ii) ‘विफलता’ इति पदस्य गद्यांशे किं विलोमपदं प्रयुक्तम्?
(क) यथा
(ख) तथा
(ग) सफलता
उत्तरः
(ग) सफलता
(iii) ‘मानवः’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) नरः
(ख) पुरुषार्थी
(ग) देशसेवा
उत्तरः
(क) नरः
(iv) ‘उल्लेखनीयानि कार्याणि’ इत्यत्र किं विशेषणपदं प्रयुक्तम्?
(क) उल्लेखनीयानि
(ख) कार्याणि
(ग) कृतानि
उत्तरः
(क) उल्लेखनीयानि
रचनात्मकं-कार्यम्
प्रश्न 2.
विदेश भ्रमणं प्रति पितरं लिखितम् अध पत्रं मञ्जूषा पद सहायतया पूरयित्वा पुनः लिखत। (½ × 10 = 5)
वाशिंगटन, अमेरिकातः
दिनांक……………
आदरणीय पितृपादाः।
(i) ……….. नमोनमः।
वयमत्र सर्वे (ii) ……….. भवान् अपि कुशली भविष्यति इति आशा। जूनमासस्य (iii) ……….. तिथौ अहम् (iv)……. सह विमानेन (v)………. अगच्छम्। आवाम् अमेरिका देशे ‘लेवीपीयर’ मिलेनियम पार्ड, न्याग्रा फाल्स, न्यू जर्सी, वाशिंगटन इत्यादीनि स्थानानि (vi) ……… च अपश्याव। आवाम् (vii) ………. बसयानेन च यात्राम् कुर्वः। जनाः अत्र स्वच्छतां प्रति अतीव (viii) ……….. सन्ति। राजमार्गे ताम्बूलस्य अन्या मलिनता वा कुत्रापि न दृश्यते। जनाः अवकरम् (ix) ……… प्रति निष्ठाभावानाम् उत्पादयितुं प्रयतिस्ये-इति मम निश्चयः। गृहे सर्वेभ्यः मम नमस्काराः। (x) ………
[मञ्जूषा-अवकरपात्रे, कुशलिनः, सादरं, महेशः, जागरूकाः, स्वमित्रेण, रेलयानेन, अमेरिका-देशम्, दर्शनीय स्थलानि, एकादश्यां।]
उत्तरः
(i) सादरं
(ii) कुशलिनः
(ii) एकादश्यां
(iv) स्वमित्रेण
(v) अमेरिका-देशम्
(vi) दर्शनीय स्थलानि
(vii) रेलयानेन
(viii) जागरूकाः
(ix) अवकरपात्रे
(x) महेशः
प्रश्न 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मंजूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
[मञ्जषा-देवालयस्य, भक्ताः, नार्यः, पुरुषाः, कीर्तनम् | अनुसरति, वादयति, वातावरणं, भक्तिमयम्।]
अथवा
मञ्जूषायां प्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयं अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखतः।
(मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
“मम मातृभूमिः”
[मञ्जूषा-स्वर्गादपि, मातृभूमिः, अहम्, माता, वन्दनीयाः, यच्छति, पोषणम्, अस्मान्।]
उत्तरः
- अत्र अति रमणीयम् देवालयस्य दृश्यम् अस्ति।
- अस्मिन् चित्रे अनेकाः भक्ताः ईश्वरस्य प्रार्थनां कुर्वन्ति।
- अत्र नार्यः पुरुषाः च वाद्ययन्त्रं वादयन्ति।
- एकः भक्तः अग्रे-अग्रे वदति अन्ये भक्ताः च अनुसरणं कुर्वन्ति।
- देवालये भक्तिमयं वातावरणम् अस्ति।
अथवा
- मम मातृभूमिः वन्दनीया अस्ति।
- मातृभूमिः मम प्रिया अस्ति।
- सा स्वर्गादपि गरीयसी अस्ति।
- सा अस्मान् पोषयति।
- सा तु सर्वेभ्यः वन्दनीया अस्ति।
प्रश्न 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं पञ्चवाक्यम्, रचनात्मकम्) (1 × 5 = 5)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए) (केवल पाँच वाक्य)
(i) जो परिश्रम करता है वह सफल होता है।
One who works is successful.
उत्तरः
यः परिश्रमं करोति सः सफलः भवति।
(ii) विद्यालय में पच्चीस अध्यापक हैं।
The school has twenty five teachers.
उत्तरः
विद्यालये पञ्च विंशतिः अध्यापकाः सन्ति।
(iii) छात्र पढ़ने के लिए विद्यालय जायेंगे।
Students will go to school to study.
उत्तरः
छात्राः अध्ययनाय विद्यालयं गमिष्यन्ति।
(iv) बालक गेंद से खेलें।
Boys play with the ball.
उत्तरः
बालकाः कन्दुकेन क्रीडन्तु।
(v) हम झूठ नहीं कहेंगे।
We will not lie.
उत्तरः
वयम् मिथ्या न कथयिष्यामः।
(vi) व्यास ने महाभारत लिखी।
Vyas wrote Mahabharatha.
उत्तरः
व्यास: महाभारतम् अलिखत्।
(vii) वे दोनों शाम को खेलें।
They both play in the evening.
उत्तरः
तौ संध्याकाले क्रीडेताम्।
पठित-अवबोधनम्
प्रश्न 5.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
कश्चन् निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। विचित्रा दैवगतिः।
तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशक्या तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम् इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिम् चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) दैवगतिः कीदृशी अस्ति?
उत्तरः
विचित्रा
(ii) चौरः कुत्र प्रविष्टः?
उत्तरः
गृहाभ्यन्तरं
(iii) यद्यपि चौरः कः आसीत् ?
उत्तरः
आरक्षी
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) ग्रामवासिनः किम् अकुर्वन् ?
उत्तरः
ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वा अभर्त्सयन।।
(ii) रक्षापुरुषः कम् कारागृहे प्राक्षिपत्?
उत्तरः
रक्षापुरुषः तम् अतिथिम् चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(iii) के स्वगृहाद् निष्क्रम्य तत्रागच्छन्?
उत्तरः
प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन्।
प्रश्न 6.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम्॥
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) नराणां प्रथमः शत्रुः कः?
उत्तरः
क्रोधः
(ii) क्रोधः केषां प्रथमः शत्रुः?
उत्तरः
नराणाम्
(iii) अग्निः कम् दहति?
उत्तरः
शरीरम्
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) कीदृशी अग्निः शरीराणि दहति?
उत्तरः
क्रोधरूपाग्निः शरीराणि दहति।
(ii) यथास्थितः काष्ठगतो का दहति?
उत्तरः
यथास्थितः काष्ठगतो हि वाह्निर्दहते।
(iii) नाराणां शरीराणां कः दहति?
उत्तरः
नराणां शरीराणां क्रोधः अग्निरूपेण दहति।
प्रश्न 7.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
बकः- सर्वथा सम्यगुक्तम् सिंहमहोदयेन। वस्तुतः एव सिंहेन बहुकालपर्यन्तं शासनं कृतम् परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाशः
एव नास्ति।
सर्वे पक्षिणः – (उच्चैः)-आम् आम्-कश्चित् खगः एव वनराजः इति।
(परं कश्चिदपि खगः आत्मानं विना नान्यं कमपि अस्मै पदाय योग्यं चिन्तयन्ति तर्हि कथं निर्णयः भवेत् तदा तैः सर्वैः गहननिद्रायां निश्चिन्तं स्वप्नतम् उलूकं वीक्ष्य विचारितम् यदेषः आत्मश्लाघाहीनः पदनिर्लिप्तः उलूक एवास्माकं राजा भविष्यति। परस्परमादिशन्ति च तदानीयन्तां नृपाभिषेकसम्बन्धिनः सम्भाराः इति।)
(अ) एकपदेन उत्तरत। (केवलं प्रश्न द्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) ‘सभ्यमुक्तम् सिंहमहोदयेन’ इतिः कः कथयति?
उत्तरः
बकः
(ii) बहुकालपर्यन्तं केनशासनं कृतम्?
उत्तरः
सिंहेन
(iii) उलूकं वीक्ष्य कैः विचारितम् ?
उत्तरः
सर्वैः
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2 )
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) कश्चित् खगः कः भविष्यति?
उत्तरः
कश्चित् खगः एव वनराजः भविष्यति।
(ii) उलूकः कीदृशः आसीत्?
उत्तरः
उलूकः गहननिद्रायां निश्चिन्तं स्वपन्त आसीत्।
(iii) आत्मश्लाघाहीनः केषां राजा भविष्यति?
उत्तरः
एषः आत्मश्लाघहीनः पदनिलिप्तः उलूकः पक्षिणां राजा भविष्यति।
प्रश्न 8.
मञ्जूषातः समुचित पदानि चित्वा अधोलिखित श्लोकयोः अन्वयं पूरयत- (½ × 4 = 2)
(मंजूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा कीजिए।)
अवक्रता यथाचित्ते तथा वाचि भवेद् यदि। तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥
अन्वयः-यथा (i) ……… चित्ते तथा यदि (ii) ……… भवेद, महात्माः (iii) ………. तदेव (iv) …….. इति आहुः।
[मञ्जूषा – समत्वम्, अवक्रता वाचि, तथ्यतः]
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मंजूषा की सहायता से श्लोक के भावार्थ से रिक्तस्थानों को पूरा करके पुनः लिखिए।)
क्रोधा हि शत्रः प्रथमो नराणां,
देहस्थितो देहविनाशयनाय।
यथास्थितिः काष्ठगतो हि वह्निर्दहते शरीरम्॥
भावार्थः-अत्र कथितम् यत् देहविनाशकारणम्। अत्र कविः कथयति यत् (i) …… प्रथमः शत्रुः (ii) ……… भवति। यतः देहवरािजमानः क्रोधः शरीरस्य विनाशं करोति। यथा काष्ठगतः (iii) ……….. काष्ठं ज्वालयति तथैव शरीरस्थितः वह्निः (iv)…….. ज्वालयति।
[मञ्जूषा-शरीरं, मनुष्याणां, वह्निः क्रोधः|]
उत्तरः
(i) अवक्रता
(ii) वाचि
(iii) तथ्यतः
(iv) समत्वम्
अथवा
(i) मनुष्याणां
(ii) क्रोधः
(iii) वह्निः
(iv) शरीरं
प्रश्न 9.
अधोलिखित-कथांशं समुचितक्रमेण लिखत (½ × 8 = 4)
(निम्नलिखित कथाशं को समुचित क्रम में लिखिए।)
(i) सर्वे प्राणिनः परस्परं विवादं कुर्वन्ति योग्यं च कथयन्ति।
(ii) मिलित्वा एवं मोदध्वं जीवनं च रसमयं कुरुध्वम्।
(iii) ततः प्रकृतिमाता प्रविशति।
(iv) पशुराजा न भवितव्यम् अपितु कोऽपि पक्षी एव राजेति निश्चेतव्यम्।
(v) सर्वे प्राणिनः स्व-स्वगुणस्य चर्चा कुर्वन्ति।
(vi) सर्वेषां प्राणिनामेव यथासमयं महत्त्वं विद्यते।
(vii) वानराः तम् तुदन्ति स्म।
(vii) एकः सिंहः सुप्यति स्म।
उत्तरः
(viii) एकः सिंहः सुप्यति स्म।
(vii) वानराः तम् तुदन्ति स्म।
(v) सर्वे प्राणिनः स्व-स्वगुणस्य चर्चा कुर्वन्ति ।
(i) सर्वे प्राणिनः परस्परं विवादं कुर्वन्ति योग्यं च कथयन्ति।
(iv) पशुराजा न भवितव्यम् अपितु कोऽपि पक्षी एव राजेति निश्चेतव्यम्।
(iii) ततः प्रकृतिमाता प्रविशति।
(vi) सर्वेषां प्राणिनामेव यथा समयं महत्त्वं विद्यते।
(ii) मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्।