Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Term 3 Set 4 will help students in understanding the difficulty level of the exam.

CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 4 with Solutions

समयः : होरात्रयम्
सम्पूर्णाङ्काः : 40

प्रश्नपत्रस्वरूपम :

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति।
  • अस्य प्रश्नपत्रस्य पठनाय 20 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
  • उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
  • प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् एवं लेखनीया।
  • सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
  • प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।

(वर्णनात्मकाः प्रश्नाः)
अपठित-अवबोधनम् (40 अङ्काः)

प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (10)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
विद्याध्ययनं परिसमाप्य गुरुदक्षिणां दातुं उत्सुकः असौ कौत्सः एकदा गुरुम् उपागम्य निजेच्छां प्रकटितवान्। तस्य वचः श्रुत्वा गुरुणा कथितम्-“तव विशुद्धया श्रद्धया, उत्कृष्टया भावनया परमसेवया च नितान्तमस्मि प्रीतः। तस्मात् नाहं कामये अन्यां काञ्चित् दक्षिणाम्।” आचार्य वाक्यम् श्रुत्वा कौत्सः पुनः अवदत्-“यदि न ग्रहीष्यन्ति भवन्तः मम सकाशात् किमपि, तदा मम अध्ययनं व्यर्थम् एवेति मे विश्वासः। एवं रीत्या यदा कौत्सः वारं-वारम् आग्रहं कृतवान् तदा कुपितेन गुरुणा कथितम्-“त्वम् मम सकाशात् चतुर्दश विद्याः अधीतवान् असि, अतः चतुर्दशकोटीः स्वर्णमुद्रान् मह्यं देहि इति। गुरोः वचनं श्रुत्वा कौत्सस्य मनसि चिन्ता जाता, इयत्यः मुद्राः कुतः आनेयाः? इति। न च दृश्यते कश्चन अन्यो जनः एतावत् धनं दातुं समर्थः तस्मात् दार्तृणां मध्ये श्रेष्ठस्य रघोः सकाशम् एव चलितव्यम् इति विचार्य कौत्सः रघोः समीपम् उपागच्छत्। (अ) एकपदेन उत्तरत-(केवलं प्रश्न-द्वयम्) (1 × 2 = 2)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) कौत्सः गुरुम् उपगम्य किम् प्रकटितवान्?
उत्तरः
निजेच्छां।

(ii) कस्य वचनं श्रुत्वा कौत्सस्य मनसि चिन्ता जाता?
उत्तरः
गुरोः।

(iii) कौत्सः कस्य समीपम् उपागच्छत् ?
उत्तरः
रघोः ।

(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्न-द्वयम्) (2 × 2 = 4)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) आचार्यवाक्यं श्रुत्वा कौत्सः पुनः किम् अवदत् ?
उत्तरः
“यदि न ग्रहीष्यन्ति भवन्तः मम सकाशात् किमपि, तदा मम अध्ययनं व्यर्थम् एवेति मे विश्वासः।”

(ii) कुपितेन गुरुणां कौत्सं किम् कथितम्?
उत्तरः
कुपितेन गुरुणा कथितम्–“त्वम् मम सकाशात् चतुर्दश विद्याः अधीतवान् असि, अतः चतुर्दशकोटी: स्वर्णमुद्राः मह्यं देहि इति।”

(iii) तस्य वचः श्रुत्वा गुरुणा किम् कथितम्?
उत्तरः
तस्य वचनं श्रुत्वा गुरुणा कथितम्-“तव विशुद्धया श्रद्धया, उत्कृष्टया भावनया परमसेवया च नितान्तमस्मि प्रतिः।”

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (द्वित्रिशब्दात्मक-वाक्यम्) (1)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तरः
शीर्षकम्-कौत्सस्य गुरु दक्षिणा/गुरोः वचनम्

(ई) निर्देशानुसारं उत्तरत। (केवलं प्रश्न-त्रयम्) (एकपदेन) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘प्रकटितवान्’ इति क्रियापदस्य किं कर्तृपदं गद्यांशे प्रयुक्तम्?
(क) उत्सुकः
(ख) कौत्सः
(ग) गुरुम्
उत्तरः
(ख) कौत्सः

(ii) ‘ग्रहीतुम्’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) दातुम्
(ख) दक्षिणाम्
(ग) वाक्यम्
उत्तरः
(क) दातुम्

(iii) ‘विशुद्धया श्रद्धया’ अनयोः पदयोः किं विशेषणपदम्?
(क) श्रद्धया
(ख) विशुद्धया
(ग) भावनया
उत्तरः
(ख) विशुद्धया

(iv) ‘असौ’ इति सर्वनामपदं कस्य संज्ञास्थाने प्रयुक्तम्?
(क) कौत्सस्य
(ख) गुरोः
(ग) दक्षिणायाः
उत्तरः
(क) कौत्सस्य

रचनात्मकं-कार्यम्

प्रश्न 2.
पटना निवासी भवान् घनानन्दः अस्ति दीपमाला विषये स्व मित्रं परमानदं प्रति लिखितम् इदं पत्रं मञ्जूषायाः सहातया पूरयत। (½ × 10 = 5)
केशवकुंज
(i) ……….
दिनाङ्कः
प्रिये मित्र
(ii) ………..
नमोनमः।
अत्र कुशलं तथास्तु। अस्मिन् वर्षे मया (iii) ………. पारिवारिक जनानां मध्ये स्थित्वा दीपमालिकोत्सवः मानितः । स्वबन्धुभिः सह मिलित्वा (iv) …….. दीपकाः प्रदीप्ताः। क्वचिद् विविधाकाराः बलमाः, क्वचित् च (v) ………. संस्पिताः। रात्रौ (vi) …….. अपि विहितम्। मम मात्रा गृहे विविधानि मिष्टान्नानि निर्मितानि। अस्माभिः स्वयमपि तस्य आस्वादनं कृतं, मित्रेभ्यः (vii) ……… तस्य वितरणं कृतम्। अपूर्वेयं (viii) ……… । आशासे भवताऽपि दीप-मालिकोत्सवः महतोत्साहेन मानित: भवेत् । (ix)….. सहितम्
भवदीया मित्रम्
(x)…… ।
[मञ्जूषा-लक्ष्मीपूजनम्, स्मृतिः, परमानन्द, असंख्यकाः धन्यवादेन, बन्धुबान्धेवेभ्योऽपि, मोमवर्त्तिका, चतु:वर्षान्तरं, घनानन्दः, पाटलीपुत्रतः]
उत्तरः
(i) पाटलीपुत्रतः
(ii) परमानन्द
(ii) चतु:वर्षान्तरं
(iv) असंख्यकाः
(v) मोमवर्तिकाः
(vi) लक्ष्मीपूजनम्
(vii) बन्धु-वान्धवेभ्येऽपि
(viii) स्मृतिः
(ix) धन्यवादेन
(x) घनानन्दः

CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 4 with Solutions

प्रश्न 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मंजूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 4 with Solutions 1
[मञ्जूषा-क्रीडन्ति, वर्षाकालः, मण्डुकाः, कर्गदनौका आकाशे, हस्ते, छत्रे, मेघाः, हरीतिमा, मेघाः, सर्वत्र, स्तः, भवति। बालकाः, बालिकाः।]
अथवा
मञ्जूषायां प्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयं अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत।
(मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
“मम प्रिय कविः”
[मञ्जूषा-कालिदासः, संस्कृतस्य, अद्वितीयः, कवीनां, उपमा अलंकारस्य, अभिज्ञानशाकुन्तल प्रकृतिवर्णनम्।]
उत्तरः

  • अस्मिन् चित्रे वर्षा कालस्य सर्वत्र हरीतिमा दृश्यन्ते।
  • आकाशे मेघाः आच्छादिताः सन्ति।
  • बालकाः बालिकाः च कर्गदनौकाभिः क्रीडन्ति ।
  • द्वे बालिके बालकः च हस्ते छत्रं गृहीत्वा गच्छन्ति।
  • अस्मिन् चित्रे मण्डूकाः सन्ति च द्वौ वृक्षे स्तः।

अथवा
‘मम प्रिय कवि’

  • मम प्रियकविः उपमा अलंकारस्य प्रणेता कालिदासः अस्ति ।
  • सः संस्कृतस्य अद्वितीयः विद्वान् आसीत्।
  • सः कविषु श्रेष्ठः आसीत्।
  • ‘अभिज्ञानशाकुन्तलम्’ तस्य प्रमुखा रचना अस्ति ।
  • अस्मिन् नाटके प्रकृतिवर्णनम् अद्भुतम् अस्ति। अनुवादः

प्रश्न 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं पञ्चवाक्यम्, रचनात्मकम्) (1 × 5 = 5)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए) (केवल पाँच वाक्य)
(i) तुम सदा सत्य बोलो।
You should always speak the truth.
उत्तरः
त्वम् सदा सत्यं वद ।

(ii) गंगा हिमालय से निकलती है।
The Ganga originate from the Himalays.
उत्तरः
गंगा हिमालयात् निःसरति।

(iii) बगीचे के दोनों ओर वृक्ष हैं।
There are trees on either side of the Garden.
उत्तरः
उद्यानं उभयतः वृक्षाः सन्ति।

(iv) पिता पुत्र पर गुस्सा करता है।
Father is angry with son.
उत्तरः
जनकः पुत्राय क्रुध्यति।

(v) संस्कृत सभी भाषाओं की जननी है।
Sanskrit is the mother of all languages.
उत्तरः
संस्कृत सर्वासाम् भाषाणाम् जननी अस्ति।

(vi) कल मैंने सिनेमा देखा।
Yesterday I watched a movie.
उत्तरः
ह्यः अहं चलचित्रम् अपश्यम्।

(vii) कल हम लोग विद्यालय जाएँगे।
Tomorrow we will go to school.
उत्तरः
श्वः वयं विद्यालयं गमिष्यामः।

पठित-अवबोधनम्

प्रश्न 5.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्। न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्। सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत्। ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्। अन्येयुः तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ। तदैव कश्चित् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशंद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्ग निकषा वर्तते। आदिश्यतां किं करणीयमिति। न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) बंकिमचन्द्रः कः आसीत् ?
उत्तरः
न्यायाधीशः

(ii) राजमार्ग निकषा किम् वर्तते?
उत्तरः
मृतशरीरं

(iii) आरक्षी कम् न्यायालयं नीतवान्?
उत्तरः
तं (चौरं)

(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) तत्रत्यः कर्मचारी समागत्य किं न्यवेदयत् ?
उत्तरः
तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः।

(ii) अन्येधुः तौ न्यायालये किम् पुनः स्थापितवन्तौ?
उत्तरः
अन्येद्युः तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ।

(iii) कः उभाभ्यां पृथक-पृथक विवरणं श्रुतवान् ?
उत्तरः
न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।

CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 4 with Solutions

प्रश्न 6.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति, योजकस्तत्र दुर्लभः॥
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) अक्षरं कीदृशं न भवति?
उत्तरः
मन्त्ररहितम्

(ii) मूलं कीदृशं न भवति?
उत्तरः
अनौषधम्

(iii) तत्र कः दुर्लभः?
उत्तरः
योग्यः

(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) कीदृशः पुरुषः वास्तविकः पुरुषः न भवति?
उत्तरः
अयोगयः पुरुषः वास्तविकः पुरुषः न भवति।

(ii) औषधम् कुतः प्राप्यते?
उत्तरः
औषधं मूलात् प्राप्यते।

(iii) संसारे व्यवहारे कीदृशं अक्षरं न व्यवहर्तव्यम्?
उत्तरः
संसारे व्यवहारे अमन्त्रक्षरं सर्वदा न व्यवहर्तव्यम्।

प्रश्न 7.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
सर्वे पक्षिणः सज्जायै गन्तुमिच्छन्ति तर्हि सहसा एवकाकः-(अट्टहासपूर्णेन-स्वरेण)-सर्वथा अयुक्तमेतत् यन्मयूर-हंस-कोकिल-चक्रवाक-शुक-सारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकार्थं सर्वे सज्जाः। पूर्ण दिनं यावत् निद्रायमाणः एषः कथमस्मान् रक्षिष्यति। वस्तुतस्तु
स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति।।
(ततः प्रविशति प्रकृतिमाता)
प्रकृतिमाता-(सस्नेहम्) भोः भोः प्राणिनः। यूयम् सर्वे एव मे सन्ततयः। कथं मिथः कलहं कुरुथ। वस्तुतः सर्वे वन्यजीविनः अन्योन्याश्रिताः।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) सर्वे पक्षिणः किमर्थं मनुमिच्छन्ति?
उत्तरः
सज्जायै

(ii) अट्टहासपूर्णेन स्वरेण कः कथयति?
उत्तरः
काकः

(iii) सर्वे एव कस्याः सन्ततयः?
उत्तरः
प्रकृतिमातुः

(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) ‘पूर्ण’ दिनं यावत् निद्रायमाणः इति कः कथयति?
उत्तरः
‘पूर्ण’ दिनं यावत् निद्रायमाणः भवति’ इति काकः कथयति।

(ii) उलूकस्य किं लक्षणम्?
उत्तरः
उलूकः स्वभावरौद्रम्, अतिउग्रं, क्रूरम्, अप्रियवादनम् च भवति।

(iii) वस्तुत:सर्वे कीदृशः भवन्ति?
उत्तरः
वस्तुतः सर्वेवन्यजीविनः अन्योन्याश्रिताः भवन्ति।

CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 4 with Solutions

प्रश्न 8.
मञ्जूषातः समुचित पदानि चित्वा अधोलिखित श्लोकयोः अन्वयं पूरयत- (½ × 4 = 2)
(मंजूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा कीजिए।) वाक्पटु धैर्यवान् मन्त्री सभायामप्यकातरः। स केनापि प्रकारेण परैर्न परिभूयते॥ अन्वयः-मन्त्री (i) ……… सम्भाषणे चतुरः धैर्ययुक्तः (ii) ……च भवति, सः मन्त्री, (iii) …….. कथमपि, (iv) …….. न शक्यते।
[मञ्जूषा-तिरस्कर्तुम्, निर्भीकः, सभायाम्, विरोधिभिः]
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मंजूषा की सहायता से श्लोक के भावार्थ से रिक्तस्थानों को पूरा करके पुनः लिखिए।)
संपत्तौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तौ रक्तश्चास्तमये तथा॥
भावार्थ:- (i)…….. लक्ष्मी आयातु गच्छतु वा महान्तः जनाः सर्वदानिवसन्ति। तेदुःखंनकुर्वन्तिनअतीव । (ii) ……. महताम् भवति। (iii) ……… यथा सूर्यः प्रातः उदयकाले रक्तवर्णः भवति (iv)…….. तथैव अस्तसभयेऽपि भवति।
[मञ्जूषा-रक्तवर्णः एकरूपेण एकरूपता, हर्षन्ति]
उत्तरः
(i) वाक्यपटुः
(iii) परैः
(ii) सभायाम्
(iv) प्रकारेण
अथवा
(i) एकरूपेण
(ii) हर्षन्ति
(iii) एकरूपता
(iv) रक्तवर्णः

प्रश्न 9.
अधोलिखित-कथांशं समुचितक्रमेण लिखत (½ × 8 = 4)
(निम्नलिखित कथाशं को समुचित क्रम में लिखिए।)
(i) सः तौ अग्रिमेदिने उपस्थातुम् आदिष्टवान्।
(ii) अग्रिमेदिने स आरक्षी चौर्याभियोग तं न्यायालयं नीतवान्।
(iii) न्यायाधीशः आरक्षिणं दोषभाजनम् अमन्यत।
(iv) तस्य मृतशरीरं राजमार्ग निकषा वर्तते।
(v) प्रमाणामावात् स निर्णेतुं नाशक्नोत् ।
(vi) न्यायाधीश: बंकिमचन्द्रः आसीत्।
(vii) स उभाभ्यां पृथक् पृथक् विवरणं श्रुतवान्।
(viii) सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत।
उत्तरः
(ii) अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्।
(vi) न्यायाधीशः बंकिमचन्द्रः आसीत्।
(vii) स उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
(ii) न्यायाधीशः आरक्षिणं दोषभाजनम् अमन्यत।
(viii) सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत्।
(v) प्रमाणाभावात् स निर्णेतुं नाशक्नोत्।
(i) सः तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्।
(iv) तस्य मृतशरीरं राजमार्ग निकषा वर्तते।