Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided भूकंपविभीषिका Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 10 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

उचितं उत्तराणि चित्वा प्रश्ननिर्माणं कुरुत-

Question 1.
ज्वालामुगिरन्तः एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।
(i) किम्
(ii) कम्
(iii) कीदृशम्
(iv) काम

Answer

Answer: (iii) कीदृशम्


Question 2.
नद्याः जलम् एकस्मिन् स्थले न पुञ्जी कारणीयम्।।
(i) कस्याः
(ii) का
(iii) किम्
(iv) कम्

Answer

Answer: (i) कस्याः


Question 3.
पृथिव्याः गर्भे विद्यमानोऽग्निः क्वथयति।
(i) का
(ii) कस्याम्
(iii) कस्याः
(iv) किम्

Answer

Answer: (iii) कस्याः


Question 4.
शिशवः तु द्वित्राणि दिनानि जीवनं धारितवन्तः।
(i) कति
(ii) कानि
(ii) कीदृशानि
(iv) कान्

Answer

Answer: (i) कति


Question 5.
सहस्रमिताः प्राणिनः तु क्षणनैव मृताः।
(i) काः
(ii) के
(iii) कति
(iv) कीदृशाः

Answer

Answer: (iii) कति


Question 6.
कश्मीरप्रान्ते धरायाः महत्कम्पनं जातम्।
(i) कुत्र
(ii) के
(iii) काः
(iv) कीदृशे

Answer

Answer: (i) कुत्र


Question 7.
उत्खाता विद्युद्दीपस्तम्भाः
(i) का
(ii) के
(iii) कीदृशाः
(iv) कथम्

Answer

Answer: (ii) के


Question 8.
भूमिः फालडये विभक्ता आसीत्।
(i) कः
(ii) काः
(iii) का
(iv) की

Answer

Answer: (iii) का


Question 9.
लक्षपरिमिताः जनाः अकालकालकवालिताः।
(i) कति
(ii) काः
(iii) के
(iv) कीदृशाः

Answer

Answer: (i) कति


Question 10.
असन्तुलनवशात् भूकम्पः सम्भवति।
(i) कस्मात्
(ii) कात्
(iii) कस्मै
(iv) के

Answer

Answer: (i) कस्मात्


गद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) एकोत्तर द्विसहस्रख्रीष्टाब्दे (2001 ईस्वीये वर्षे) गणतन्त्र-दिवस-पर्वणि यदा समग्रमपि भारतराष्ट्र नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर- राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं, विपन्नञ्च जातम्। भूकम्पस्य दारुण- विभीषिका समस्तमपि गुर्जरक्षेत्रं विशेषेण च कच्छजनपदं ध्वंसावशेषु परिवर्तितवती। भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपान-मार्गाः। फालद्वये विभक्ता भूमिः। भूमिग दुपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः महाप्लावनदृश्यम् उपस्थितम्। सहस्त्रमिता: प्राणिनस्तु क्षणेनैव मृताः। ध्वस्तभवनेषु सम्पीडिता सहस्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म। हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः।

Question 1.
भूकम्पः कुत्र अभवत्?

Answer

Answer: गुर्जरराज्ये


Question 2.
कस्याः क्रीडनकमिव भुजनगरं खण्डम् जातम्?

Answer

Answer: मृत्तिकायाः


Question 3.
भूकम्पस्य केन्द्रभूतं भुजनगरे किम् किम् अभवत्?

Answer

Answer: भूकम्पस्य केन्द्रभूतं भुजनगरे तु मृतिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः।


Question 4.
‘भवनानि’ इति विशेष्यपदस्य विशेषणपदं किम्?

Answer

Answer: बहुभूमिकानि


Question 5.
‘आसीत्’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: भारत


Question 6.
अस्मिन् गद्यांशे सम्बोधन पदं किम् प्रयुक्तम्।

Answer

Answer: हा दैव!


(ख) इयमासीत् भैरवविभीषिका कच्छ-भूकम्पस्य। पञ्चोत्तर-द्विसहमख्रीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर-प्रान्ते पाकिस्तान देशे च धरायाः महम्कम्पनं जातम्। यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालकवलिताः। पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण-शिला यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च। तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते।

Question 1.
‘वैज्ञानिकाः’ कर्तृपदस्य क्रियापदं किम्?
(क) पृथिव्या
(ख) कथयन्ति
(ग) अन्तर्गर्भे
(घ) इति

Answer

Answer: (ख) कथयन्ति


Question 2.
‘मृताः’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) जनाः
(ख) कालकवलिताः
(ग) परिमिताः
(घ) पृथ्वी

Answer

Answer: (ख) कालकवलिताः


Question 3.
‘जनाः’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) कालकवलिताः
(ख) लक्षपरिमिताः
(ग) विद्यमानाः
(घ) वैज्ञानिका

Answer

Answer: (ख) लक्षपरिमिताः


Question 4.
कच्छ-भूकम्पस्य विभीषिका कीदृशी आसीत्?

Answer

Answer: भैरव


Question 5.
धरायाः महत्कम्पनं कुत्र जातम्?

Answer

Answer: कश्मीरप्रान्ते


Question 6.
पृथ्वी कस्मात् प्रकम्पते इति विषये वैज्ञानिकाः किम् कथयन्ति?

Answer

Answer: पृथ्वी कस्मात् प्रकम्पते इति विषये वैज्ञानिकाः कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाणशिला यदा संघर्षणवशात् त्रुट्यन्ति तदा भीषणं संस्खलनम् जायते, संस्खलनजन्यं कम्पनञ्च।


(ग) ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः। पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप-मात्राया अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति। निहन्यन्ते च विवशाः प्राणिनः। ज्वालामुगिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।

Question 1.
केषाम् विस्फोटैः भूकम्पो जायते?

Answer

Answer: ज्वालामुखपर्वतानां


Question 2.
ज्वालामुखपर्वतानां कृते के कथयन्ति?

Answer

Answer: भूकम्पविशेषज्ञाः


Question 3.
ज्वालामुखपर्वतानां कृते भूकम्प विशेषज्ञाः किम् कथयन्ति?

Answer

Answer: ज्वालामुखपर्वतानां कृते भूकम्पविशेषज्ञाः कथयन्ति यत् पृथिव्याः गर्भे विद्यमानोऽग्निर्यद। खनिजमृत्तिकाशिलादि सञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्यर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति।


Question 4.
‘भूकम्पविशेषज्ञाः’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: कथयन्ति


Question 5.
‘अन्तः’ इतिपदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: बहिः


Question 6.
‘विवशाः’ इति विशेषणपदस्य विशेष्यपदं किम्?

Answer

Answer: प्राणिनः।


(घ) यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते। प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कश्चयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मानं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति। वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते। अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति।

Question 1.
‘करणीयम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भवननिर्माणं
(ख) निर्माय
(ग) तटबन्धं
(घ) मानव

Answer

Answer: (क) भवननिर्माणं


Question 2.
विज्ञानगर्वितः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) वामनकल्पः
(ख) मानवः
(ग) कोऽपि
(घ) प्रकृतिः

Answer

Answer: (ख) मानवः


Question 3.
भूकम्परहस्यज्ञाः इति कर्तृपदस्य क्रियापदं किम्?
(क) वस्तुतः
(ख) कथयन्ति
(ग) करणीयम्
(घ) निर्माय

Answer

Answer: (ख) कथयन्ति


Question 4.
कस्य प्रकोपस्य नाम भूकम्पः जायते?

Answer

Answer: दैवस्य


Question 5.
कस्य स्थिरोपायो न दृश्यते?

Answer

Answer: भूकम्पस्य


Question 6.
भूकम्परहस्यज्ञाः किम् कथयन्ति?

Answer

Answer: भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवन-निर्माणं न करणीयम्। तटबन्ध निर्माय बृहन्मानं नदीजलमपि न एकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशात् भूकम्पः सम्भवति।


रेखातिपदम् प्रश्ननिर्माणं कुरुत

(क) भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत्।
(ख) गुर्जर-राज्यं पर्याकुलं विपन्नञ्च जातम्।
(ग) भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डरखण्डम् जातम्।
(घ) बहुभूमिकानि भवनानि धराशायीनि जातानि।
(ङ) भूमिग दुपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः महाप्लावनदृय॑म् उपस्थितम्।
(च) ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।
(छ) भूकम्पविशेषज्ञाः इति कथयन्ति।
(ज) प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प अभवत्।
(झ) पाकिस्तानदेशे धरायाः महत्कम्पनं जातम्।
(ञ) पाषाणशिला संघर्षणवशात् त्रुट्यन्ति।
(ट) निहन्यन्ते च विवशाः प्राणिनः।
(ठ) अनेके भूकम्परहस्यज्ञाः कथयन्ति।
(ड) लक्षपरिमिताः जनाः अकालकालकवलिताः अभवन्।
(ढ) सम्पीडिताः सहायतार्थम् करुणकरुणं क्रन्दन्ति स्म।

Answer

Answer:
(क) कस्मिन्
(ख) कीदृशम्
(ग) कीदृशमिव
(घ) कीदृशानि
(ङ) काभिः
(च) केषाम्
(छ) के
(ज) कीदृशः
(झ) कस्याः
(ञ) कस्मात्
(ट) कीदृशाः
(ठ) के
(ड) के
(ढ) किमर्थम्


अधोलिखिपदानां तेषाम् पर्यायपदानि सह मेलनम् कुरुत

पदानि – पर्यायपदानि
(क) धरायाः – विपत्तियुक्तम्
(ख) उपरि – अभवत्
(ग) समग्रम् – गुजरात
(घ) मग्नाः – पतितानि
(ङ) अकस्मात् – दिवंगताः मृताः
(च) विपन्नम् – लीनाः
(छ) जातम् – विशालः
(ज) गुर्जर – सहसा
(झ) धराशायीनि – शान्तेः
(ब) कालकवलिताः – भूमेः
(ट) बृहत्यः – उच्चैः
(ठ) दैवः – सकलम्
(ड) अपशमनस्य – पृथ्वी
(ढ) क्षिति – भाग्यः
(ण) भूकम्पः – अग्निः, अनलः
(त) जल – वायुः, अनिलः
(थ) पावक – ख, आकाशः
(द) समीर – नद्याः, जलम्
(ध) गगन – भुवः, कम्पन्नः
(न) नदीजलम् – नीरः, तोय

Answer

Answer:
पदानि – पर्यायपदानि
(क) धरायाः – भूमेः
(ख) उपरि – उच्चैः
(ग) समग्रम् – सकलम्
(घ) मग्नाः – लीनाः
(ङ) अकस्मात् – सहसा
(च) विपन्नम् – विपत्तियुक्तम्
(छ) जातम् – अभवत्
(ज) गुर्जर – गुजरात
(झ) धराशायीनि – पतितानि
(ञ) कालकवलिताः – दिवंगताः मृताः
(ट) बृहत्यः – विशालः
(ठ) दैवः – भाग्यः
(ड) अपशमनस्य – शान्तेः
(ढ) क्षिति – पृथ्वी
(ण) भूकम्पः – भुवः कम्पन्नः
(त) जल – नीर:तोय
(थ) पावक – ग्निः, अनलः
(द) समीर – वायुः, अनिलः
(ध) गगन – ख, आकाशः
(न) नदीजलम् – नद्याः जलम्


अधोलिखितपदानां तेषाम् विपर्ययपदानि सह मेलनं कुरुत

पदानि – विपर्ययपदानि
(क) पार्श्वम् – दूरं गत्वा
(ख) नगरम् – अजातम्
(ग) निहन्यन्ते – आकाश
(घ) गगनम् – मृत्युः
(ङ) उपेत्य – जीवनप्रायः
(च) जातम् – अधः
(छ) पृथ्वी – दूरम्
(ज) जीवनम् – ग्रामम्
(झ) मृतप्रायाः – नियन्ते
(ञ) उपरि – धरा
(ट) निस्सरन्ती – हसन्तिः
(ठ) उपस्थितम् – अन्तः
(ड) क्रन्दन्ति – तिष्ठति
(ढ) बहिः – प्रविशन्ति
(ण) प्रवहति – अनुपस्थितम्

Answer

Answer:
पदानि – विपर्ययपदानि
(क) पार्श्वम् – दूरम्
(ख) नगरम् – ग्रामम्
(ग) निहन्यन्ते – म्रियन्ते
(घ) गगनम् – धरा
(ङ) उपेत्य – दूरं गत्वा
(च) जातम् – अजातम्
(छ) पृथ्वी – आकाश
(ज) जीवनम् – मृत्युः
(झ) मृतप्रायाः – जीवनप्रायः
(ब) उपरि – अधः
(ट) निस्सरन्ती – प्रविशन्ति
(ठ) उपस्थितम् – अनुपस्थितम्
(ड) क्रन्दन्ति – हसन्तिः
(ढ) बहिः – अन्तः
(ण) प्रवहति – तिष्ठति


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit भूकंपविभीषिका MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.