Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 11 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नलिखित वाक्येषु रेखांकित पदानां स्थाने समुचित प्रश्नवाचक पदं चित्वा लिखत

Question 1.
‘अमृतम्-आसीत्’ इति परस्पर विरुद्ध वचने।
(i) के
(ii) को
(iii) कस्मै
(iv) कीदृशे

Answer

Answer: (iv) कीदृशे


Question 2.
राजपुरुषाः गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।
(i) के
(ii) कुत्र
(iii) कम्
(iv) कस्य

Answer

Answer: (ii) कुत्र


Question 3.
भीताः गृहजनं नगरवासिनः गृहेषु वसन्ति।
(i) काः
(ii) कीदृशाः
(iii) के
(iv) कम्

Answer

Answer: (ii) कीदृशाः


Question 4.
तदा मम गृहे अमात्यराक्षसस्य गृहजनं आसीत्।
(i) कः
(ii) कम्
(iii) कस्य
(iv) के

Answer

Answer: (iii) कस्य


Question 5.
इति ननु भवता प्रष्टव्याः स्मः।
(i) केन
(ii) कः
(iii) का
(iv) कस्य

Answer

Answer: (i) केन


Question 6.
एतत् अलीकम् अस्ति।
(i) कीदृशम्
(ii) कीदृशः
(iii) कीदृशी
(iv) किम्

Answer

Answer: (i) कीदृशम्


Question 7.
श्रेष्ठिन्। ते स्वागतं अस्ति।
(i) के
(ii) कस्य
(iii) किम्
(iv) कीदृशे

Answer

Answer: (ii) कस्य


Question 8.
आर्यस्य प्रसादेन मे वाणिज्या अखण्डिता अस्ति।
(i) कस्य
(ii) कीदृशम्
(iii) कम्
(iv) किम्

Answer

Answer: (i) कस्य


Question 9.
अयम् श्रेष्ठी चन्दनदासः।
(i) कम्
(ii) किम्
(iii) कः
(iv) कीदृशः

Answer

Answer: (iii) कः


Question 10.
तव संव्यवहाराणाम् वृद्धिलाभाः प्रचीयन्ते।
(i) कासाम्
(ii) केषाम्
(iii) काः
(iv) किम्

Answer

Answer: (ii) केषाम्


Question 11.
उभौ प्रविश्य कृत्वा परिक्रामतः।।
(i) कौ
(ii) कः
(iii) कीदृशौ
(iv) के

Answer

Answer: (i) कौ


Question 12.
अत्यधिक: आदरः शड्कनीयः भवति।
(i) कीदृशाः
(ii) कीदृशम्
(iii) कीदृशौ
(iv) कीदृशनि

Answer

Answer: (i) कीदृशाः


Question 13.
शिविना विना इदं दुष्करं अस्ति।
(i) केन
(ii) कया
(iii) का
(iv) किम्

Answer

Answer: (i) केन


Question 14.
परसंवेदने अर्थलाभेषु सुलभेषु भवति।
(i) कस्मिन्
(ii) कदा
(iii) कुत्र
(iv) कीदृशे

Answer

Answer: (iv) कीदृशे


Question 15.
सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(i) कुत्र
(ii) कस्मिन्
(iii) के
(iv) को

Answer

Answer: (i) कुत्र


गद्यांशान्/श्लोकं पठित्वा प्रश्नान् उत्तरत

(क) चाणक्यः – वत्स! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः – तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इतः इतः श्रेष्ठिन्! (उभौ परिक्रामतः)
शिष्यः – (उपसृत्य) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
चन्दनदासः – जयत्वार्यः
चाणक्यः – श्रेष्ठिन्! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः?
चन्दनदासः – (आत्मगतम्) अत्यादरः शङ्कनीयः। (प्रकाशम्) अथ किम्। आर्यस्य प्रसादेन अखण्डिता मे वाणिज्य।
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।

Question 1.
चाणक्यः कम् द्रष्टुमिच्छति?

Answer

Answer: चन्दनदासम्


Question 2.
शिष्यः केन सह प्रविशति?

Answer

Answer: चन्दनदासेन


Question 3.
्रेष्ठिनः केषां वृद्धिलाभाः प्रचीयन्ते?

Answer

Answer: संव्यवहाराणाम्


Question 4.
राजानः किमच्छन्ति?

Answer

Answer: प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।


Question 5.
चाणक्यः इदानीं कं द्रष्टुम् इच्छति?

Answer

Answer: चाणक्यः इदानीं मणिकारश्रेष्ठिनं चन्दनदासं दुष्टम् इच्छति?


Question 6.
‘आत्मगतम्’ इति पदस्य विपर्ययपदं किम् आगतम्?

Answer

Answer: प्रकाशम्


Question 7.
‘परिक्रामतः’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?

Answer

Answer: उभौ


Question 8.
शङ्कनीयः’ इति विशेष्य पदस्य विशेषणपदं किम्?

Answer

Answer: अत्यादरः


Question 9.
नाट्यांशे ‘अधुना’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: इदानीम्


(ख) चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदासः – आज्ञापयतु आर्यः।
चाणक्यः – राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः – भवानेव तावत् प्रथमम्।
चन्दनदासः – (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोधः?

Question 1.
इदम् कस्य राज्यम् अस्ति?

Answer

Answer: चन्द्रगुप्तस्य


Question 2.
नन्दस्य राज्यं केन सह प्रीतिमत्पादयति?

Answer

Answer: अर्थेण


Question 3.
राजानि कीदृशो भवेत्?

Answer

Answer: अविरुद्धवृत्ति


Question 4.
चन्दनदासः कर्णौ पिधाय किं कथयति?

Answer

Answer: चन्दनदासः कर्णो पिधाय कथयति-शान्तं पापम्. शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोधः?


Question 5.
चन्दनदासानुरेण अग्निना सह केषां विरोधः न भवेत्?

Answer

Answer: चन्दनदासानुसारेण अग्निना सह तृणानां विरोधः न भवेत्।


Question 6.
‘अवगम्यते’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: आर्येण


Question 7.
भो श्रेष्ठिन्! अत्र ‘श्रेष्ठिन्’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: चन्दनदासाय


Question 8.
‘शान्तं पापम्’ अत्र विशेषणपदं किम्?

Answer

Answer: शान्तम्


Question 9.
नाट्यांशे “प्रेम” इति पदस्य कः पर्यायः लिखितः?

Answer

Answer: प्रीतिम्


(ग) चाणक्यः – अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
चन्दनदासः – आर्य। अलीकमेतत्। केनाप्यनार्येण आर्याय निवेदितम्।
चाणक्यः – भो श्रेष्ठिन्! अलमाशङ्कया। भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति। ततस्तत्प्रच्छादनं दोषमुत्पादयति।
चन्दनदासः – एवं नु इदम्। तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।
चाणक्यः – पूर्वम् ‘अनृतम्’, इदानीम् “आसीत्” इति परस्परविरुद्धे वचने।
चन्दनदासः – आर्य! तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।

Question 1.
चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति?

Answer

Answer: अमात्यराक्षसस्य


Question 2.
केन आर्याय निवेदितम्?

Answer

Answer: अनार्येण


Question 3.
अमात्यराक्षसः कः आसीत्?

Answer

Answer: राजापथ्यकारी


Question 4.
कीदृशाः जनाः गृहजनं निक्षिप्य देशान्तरं व्रजन्ति?

Answer

Answer: भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।


Question 5.
के परस्परविरुद्ध वचने स्तः?

Answer

Answer: पूर्वम् ‘अनृतम् इदानीम्’ आसीत्।


Question 6.
‘नगरवासिनाम्’ इत्यर्थ किं पदं प्रयुक्तम्?

Answer

Answer: पौराणाम्


Question 7.
‘अनृतम्’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?

Answer

Answer: अलीकम्


Question 8.
‘आर्याय निवेदितम्’। अत्र ‘आर्याय’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: चाणक्याय


Question 9.
“केनाप्यनार्येण आर्याय निवेदितम्” अत्र क्रियापदं किम्?

Answer

Answer: निवेदितम्


(घ) चाणक्यः – अथेदानी क्व गतः?
चन्दनदासः – न जानामि।
चाणक्यः – कथं न ज्ञायते नाम? भो श्रेष्ठिन्! शिरसि भयम्, अतिदूरं तत्प्रतिकारः।
चन्दनदासः – आर्य! किं मे भयं दर्शयसि? सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?
चाणक्यः – चन्दनदास! एष एव ते निश्चयः? चन्दनदासः – बाढम्, एष एव मे निश्चयः।।
चाणक्यः – (स्वागतम्) साधु! चन्दनदास साधु।

Question 1.
कः भयं दर्शयति?

Answer

Answer: चाणक्यः


Question 2.
चाणक्यः कम् भयं दर्शयति?

Answer

Answer: चन्दनदासम्


Question 3.
तस्य प्रतिकारः कुत्र अस्ति?

Answer

Answer: अतिदूरम्


Question 4.
चन्दनदासः अमात्यराक्षसस्य गृहजनस्य सम्बन्धे किं कथयति?

Answer

Answer: चन्दनदासः अमात्यराक्षसस्य गृहजनस्य सम्बन्धे कथयति यत् सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न। समर्पयामि, किं पुनरसन्तम्?


Question 5.
चाणक्यः कं भयं दर्शयति?

Answer

Answer: चाणक्यः चन्दनदासं भयं दर्शयति।


Question 6.
‘दर्शयसि’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: त्वम्


Question 7.
‘एष एव ते निश्चयः’ अत्र ‘ते’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: चन्दनदासाय


Question 8.
‘अतिसमीपम्’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: अतिदूरम्


Question 9.
नाट्यांशे ‘गृहे’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: गेहे


(ङ) सुलभेष्वर्थलाभेषु परसंवेदने जने।
कः इदं दुष्करं कुर्यादिदानीं शिविना विना॥

Question 1.
परसंवेदने किं भवति?

Answer

Answer: अर्थलाभः


Question 2.
अर्थलाभः कीदृशो भवति?

Answer

Answer: सुलभः


Question 3.
शिविः कीदृशं कार्यम् अकरोत्?

Answer

Answer: दुष्करम्


Question 4.
इदं दुष्करं कार्यं कः कर्तुम् शक्नोति?

Answer

Answer: शिविना विना अर्थात् चन्दनदासेन विना इदं दुष्करं कार्यं कोऽपि न कर्तुम् शक्नोति।


Question 5.
अर्थलाभः कीदृशः भवेत्?

Answer

Answer: अर्थ लाभः सुलभः भवेत्।


Question 6.
‘इदम् दुष्करम्’ अत्र विशेषणपदं किम्?

Answer

Answer: दुष्करम्


Question 7.
‘कः इदं दुष्करं कुर्यात्’। अत्र क्रियापदं किं वर्तते?

Answer

Answer: कुर्यात्


Question 8.
श्लोके ‘दुर्लभेषु’ इत्यस्य पदस्य कः विपर्ययः आगतः?

Answer

Answer: सुलभेषु


Question 9.
श्लोके ‘धनम्’ इत्यस्य पदस्य कः पर्यायः आगतः?

Answer

Answer: अर्थम्


रेखांकित पदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) आर्यस्य प्रसादेन मे वाणिज्या अखण्डिता।
(ख) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
(ग) तृणानाम् अग्निना सह विरोधो भवति।
(घ) प्राणेभ्योऽपि प्रियः सुहृत्।
(ङ) शिविना विना इदं दुष्करं कार्यं कः कुर्यात्।
(च) एष एव ते निश्चयः।
(छ) त्वम् मे भयं दर्शयसि।
(ज) अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(झ) चन्दनदासेन सह शिष्यः प्रवेशं करोति।
(ञ) आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या।
(ट) आर्यस्य जयः भवतु।
(ठ) इदानीम् चन्दनदासम् द्रष्टुम् इच्छामि।
(ड) आर्येण राज्ञो विरुद्ध इति अवगम्यते।
(ढ) भवान् एव तावत् प्रथमम् अस्ति।
(ण) अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
(त) तस्मिन् समये अस्मद्गृहे अमात्यरा क्षमस्य गृहजनं आसीत्।

Answer

Answer:
(क) केन
(ख) के
(ग) केन
(घ) कीदृशः
(ङ) कीदृशम्
(च) कस्य
(छ) कस्मै
(ज) कस्य
(झ) केन
(ञ) कीदृशी
(ट) कस्य
(ठ) कदा
(ड) कस्य
(ढ) कः
(ण) कुत्र
(त) कदा


उचितैः पदैः अन्वयं सम्पूरयत

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

अन्वयः- (i) ……………… अर्थलाभेषु (ii) ………………. इदानीं शिविना (iii) …………… जने इदं (iv) ………………. कः कुर्यात्?
मञ्जूषा- सुलभेषु, दुष्कर, विना, परसंवेदने

Answer

Answer:
(i) परसंवेदने
(ii) सुलभेषु
(ii) विना
(iv) दुष्करं


मञ्जूषायां दत्तानां पदानां सहायताया निम्न श्लोकस्य भावार्थं पूरयत्

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

भावार्थ:-परकीयस्य वस्तुन: (i) ……….. कृते सति अर्थलाभे सुलभे सत्यपि स्वार्थ (ii) ……………… परेषां संरक्षणरूपं दुष्करं कर्म अस्मिन् (iii) ……….. महाराज (iv) …………. बिना कः करिष्यति?
मञ्जूषा- संसारे, परित्यज्य, शिवि, समर्पणे

Answer

Answer:
(i) समर्पणे
(ii) परित्यज्य
(iii) संसारे
(iv) शिविं


कथा क्रमानुसारम् वाक्यानि पुनः लिखत्

I. (क) शिष्यः चन्दनदासेन सह प्रविशति।
(ख) चाणक्य तस्य स्वागतं करोति।
(ग) चाणक्यः चन्दनदासम् द्रष्टुम् इच्छति।
(घ) अत्यादरः शङ्कनीयः भवति।
(ङ) प्रीताभ्यः प्रकृतिभ्यः प्रीतिप्रियम् इच्छन्ति राजानः।
(च) चन्दनदासः चाणक्यम् प्रणमति।
(छ) आर्यस्य प्रसादेन तर वाणिज्या अखण्डिता अस्ति।
(ज) चन्दनदासः अनुगृहीतः भवति।

Answer

Answer:
(क) चाणक्यः चन्दनदासम् द्रष्टुम् इच्छति।
(ख) शिष्यः चन्दनदासेन सह प्रविशति।
(ग) चन्दनदासः चाणक्यम् प्रणमति।
(घ) चाणक्य तस्य स्वागतम् करोति।
(ङ) अत्यादरः शङ्कनीयः भवति।
(च) आर्यस्य प्रसादेन तस्य वाणिज्या अखण्डिता अस्ति।
(छ) प्रीताभ्यः प्रकृतिभ्यः प्रीतिप्रियम् इच्छन्ति राजानः।
(ज) चन्दनदासः अनुगृहीतः भवति।


II. (क) चाणक्यः कथयति चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्।
(ख) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।
(ग) भीताः राजपुरुषाः पौराणाम् इच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।
(घ) कः पुनः अधन्यः राज्ञः विरुद्धः आर्येण अवगम्यते।
(ङ) कीदृशः तृणानाम् अग्निना सह विरोधः भवतु।
(च) राजनि अविरुद्धवृत्तिर्भव।
(छ) सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(ज) अलीकमेतत्। अनार्येण आर्याय निवेदितवान्।

Answer

Answer:
(क) चाणक्यः कथयति चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्।
(ख) राजनि अविरुद्धवृत्तिर्भव।
(ग) कः पुनः अधन्यः राज्ञः विरुद्धः आर्येण अवगम्यते।
(घ) कीदृशः तृणानाम् अग्निना सह विरोधः भवतु।
(ङ) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।
(च) अलीकमेतत्। अनार्येण आर्याय निवेदितवान्।
(छ) भीताः राजपुरुषाः पौराणाम् इच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।
(ज) सन्तमपि गेहे अमात्यराक्षस्य गृहजनं न समर्पयामि।


III. (क) आर्यस्य प्रसादेन तस्य वणिज्या अखण्डिता अस्ति।
(ख) चाणक्य चन्दनदासम् द्रष्टुम् इच्छति।
(ग) कः पुनः अधन्यः राज्ञः विरुद्धः आर्येण अवगम्यते।
(घ) सन्तमपि गेहे अमात्य राक्षसस्य गृहजनं न समर्पयामि
(ङ) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।
(च) शिष्यः चन्दनदासेन सह प्रविशति।
(छ) परसंवेदने अर्थलाभेषु सुलभेषु जने इदं दुष्करं कार्यं कृतम्।
(ज) अलीकमेतत्! अनार्येण आर्याय निवेदितम्।

Answer

Answer:
(क) चाणक्य चन्दनदासम् द्रष्टुम् इच्छति।
(ख) शिष्यः चन्दनदासेन सत प्रविशति।
(ग) आर्यस्य प्रसादेन तस्य वाणिज्या अखण्डिता अस्ति।
(घ) कः पुनः अधन्यः राजः विरुद्धः आर्येण अवगम्यते।
(ङ) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।।
(च) अलीकमेतत्! अनार्येण अर्याय निवेदितम्।
(छ) सन्तमपि गेहे अमात्य राक्षसस्य गृहजनं न समर्णयामि।
(ज) परसंवेदने अर्थलाभेषु सुलभेषु जने इदं दुष्करं कार्यं कृतम्।


पर्यायपदानि मेलनम् कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 1

Answer

Answer:
MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 2


विशेषण-विशेष्यपदानि योजयत

विशेषणपदानि – विशेष्यपदानि
(क) पूर्वः – (i) दुष्करम्
(ख) इदम् – (ii) शङ्कनीयः
(ग) अत्यादरः – (iii) पापम्
(घ) शान्तं – (iv) काकः
(ङ) कृष्णः – (v) फलम्
(च) मधुरं – (vi) राजपुरुषः

Answer

Answer:
(क) पूर्वः – (vi) राजपुरुषः
(ख) इदम् – (i) दुष्करम्
(ग) अत्यादरः – (ii) शङ्कनीयः
(घ) शान्तं – (iii) पापम्
(ङ) कृष्णः – (iv) काकः
(च) मधुरं – (v) फलम्


संस्कृतेन वाक्यप्रयोगं कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 3

Answer

Answer:
(क) एकस्मिन् स्थाने द्वे ना? वसतः स्म।
(ख) यत्र विविधानि पुस्तकानि पठनार्थं संगृहीतानि।
भवन्ति तत् स्थानम् पुस्तकालयः उच्यते।
(ग) सार्वजानिकेषु पुस्तकालयेषु बहुविधानि पुस्तकानि भवन्ति।
(घ) एषः विशालः सभामण्डपः अस्ति।


विपर्ययपदानि मेलनम् कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 4

Answer

Answer:
MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 5


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit प्राणेभ्योऽपि प्रियः सुह्रद् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.