MCQ Questions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा with Answers

Check the below NCERT MCQ Questions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा with Answers Pdf free download. MCQ Questions for Class 7 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided अनारिकायाः जिज्ञासा Class 7 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-7-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 7 Sanskrit Chapter 14 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

पूर्णवाक्येन उत्तरत- (पूरे वाक्य में उत्तर दीजिए)
Answer in complete sentence.

(i) मन्त्री किमर्थम् आगच्छति?
(ii) कर्मकराः पर्वतेभ्यः कानि आनयन्ति?
(iii) सेतुः कुत्र निर्मितः?
(iv) के सेतोः निर्माणं कुर्वन्ति?
(v) प्रजाः कस्मै धनं ददति?

Answer

Answer:
(i) मन्त्री नवीनस्य सेतोः उद्घाटनार्थम् आगच्छति।
(ii) कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति।
(iii) सेतुः नद्याः उपरि निर्मित:।
(iv) कर्मकराः सेतोः निर्माणं कुर्वन्ति।
(v) प्रजाः सर्वकाराय धनं ददति।


अधोदत्तानि पदानि प्रयुज्य वाक्यानि रचयत- (नीचे दिए गए शब्दों का प्रयोग करके वाक्य रचना कीजिए)
Make sentence by using given words.

(i) सेतोः – …………….
(ii) जिज्ञासा – …………….
(iii) प्रश्नान् – ……………
(iv) पर्वतेभ्यः – …………….
(v) प्रसन्नम् – ……………

Answer

Answer:
(i) अस्य सेतोः उद्घाटनम् अग्रिमे सप्ताहे भविष्यति।
(ii) अनारिकायाः जिज्ञासा शान्ता न भवति।
(iii) सा स्व-पितरम् अनेकान् प्रश्नान् पृच्छति।
(iv) पर्वतेभ्यः अनेकाः नद्यः निर्गच्छन्ति।
(v) पुरस्कार प्राप्य मम चित्तं प्रसन्नम् जातम्।


अधोदत्तानां क्रियापदनां परिचयं यच्छत- (नीचे दिए गए क्रिया शब्दों का पद-परिचय दीजिए)
Give grammatical details of verbs given below.

MCQ Questions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा with Answers 1

Answer

Answer:
MCQ Questions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा with Answers 2


रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकितपद के आधार पर प्रश्ननिर्माण कीजिए)
Frame questions based on the word underlined.

(i) कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। (केन, कस्य, कुतः)
(ii) मनोविनोदाय सा गृहात् बहिः अगच्छत्। (किमर्थम्, कथम्, कस्मात्)
(iii) सा पितरम् अपृच्छत्। (केन, कम्, कस्मै)
(iv) सुसज्जिता भूत्वा सा विद्यालयम् अगच्छत्। (कुतः, कुत्र, कथम्)
(v) अनारिकायाः मनसि महती जिज्ञासा आसीत्। (कस्य, कस्याः, कस्याम्)

Answer

Answer:
(i) कर्मकराः कुतः प्रस्तराणि आनयन्ति?
(ii) सा किमर्थम् गृहात् बहिः अगच्छत्?
(iii) सा कम् अपृच्छत्?
(iv) सुसज्जिता भूत्वा सा कुत्र अगच्छत्?
(v) कस्याः मनसि महती जिज्ञासा आसीत्?


प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यपूर्तिं कुरुत- (दिए गए विकल्पों से उचित पद को चुनकर वाक्यपूर्ति कीजिए)
Pick out the correct form from the options given and complete the sentences.

(i) …………….. उपरि सेतुः निर्मितः। (नदीम्, नद्यः, नद्याः)
(ii) ………………. कर्मकराः निर्माणकार्यं कुर्वन्ति। (पुत्री, पुत्रे, पुत्रि)
(iii) गृहम् आगत्य सा ……………. अपृच्छत्। (पिताम्, पित्रम्, पितरम्)
(iv) जनाः ……………. वस्तूनि आनयन्ति। (आपणेन, आपणे, आपणात्)
(v) बालिका …………….. सह अगच्छत्। (भ्रातेन, भ्रातुः, भ्रात्रा)
(vi) ………………. बहिः कारयानम् स्थितम्। (गृहस्य, गृहे, गृहात्)
(vii) प्रजाः …………… धनम् यच्छन्ति। (सर्वकारं, सर्वाकाराय, सर्वकारे)
(viii) जनाः …………….. पृच्छन्ति। (नेतरम्, नेतुः, नेतारम्)

Answer

Answer:
(i) नद्याः
(i) पुत्रि
(iii) पितरम्
(iv) आपणात्
(v) भ्रात्रा
(vi) गृहात्
(vii) सर्वकाराय
(viii) नेतारम्।


शुद्ध रूपं रिक्तस्थाने लिखत। (शुद्ध रूप को रिक्तस्थान में लिखिए।)
Write down the correct form in the blank spaces.

(i) नेतृ-प्रथमा बहुवचनम् …………….. (नेतरः, नेतारः, नेताः)
(ii) भ्रातृ-द्वितीया एकवचनम् ……………….. (भ्रातारम्, भ्रात्रं, भ्रातरम्)
(iii) दातृ-द्वितीया एकवचनम् …………….. (दातरम्, दातारम्, दात्रम्)
(iv) पितृ-षष्ठी द्विवचनम् …………… (पितृयोः, पित्रो, पित्रोः)
(v) कर्तृ-षष्ठी एकवचनम् …………… (कर्तृस्य, कर्त्तायाः, कर्तुः)

Answer

Answer:
(i) नेतारः
(ii) भ्रातरम्
(iii) दातारम्
(iv) पित्रोः
(v) कर्तुः।


अधोदत्तं प्रत्येकं पाठांशम् पठत प्रश्नान् च उत्तरत- (निम्नलिखित प्रत्येक पाठांश को पढ़िए और प्रश्नों के उत्तर दीजिए)
Read each extract given below and answer the questions that follow.

प्रातः उत्थाय सा अन्वभवत् यत् तस्याः मनः प्रसन्नं नास्ति। मनोविनोदाय सा भ्रमितुं गृहात् बहिः अगच्छत्। भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति। सा चिन्तयति- किमर्थम् इयं सज्जा? सा अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति। सः अत्र किमर्थम् आगमिष्यति इति विषये तस्याः जिज्ञासाः प्रारब्धाः।

Question 1.
कस्याः मनः प्रसन्नं नास्ति?

Answer

Answer: अनारिकायाः/बालिकायाः


Question 2.
सा किमर्थं बहिः अगच्छत्?

Answer

Answer: भ्रमितुं/भ्रमणाय


Question 3.
के सुसज्जिताः सन्ति?

Answer

Answer: मार्गाः


Question 4.
अद्य कः आगमिष्यति?

Answer

Answer: मन्त्री


Question 5.
भ्रमणकाले सा किम् अपश्यत्?

Answer

Answer: भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति।


Question 6.
सा किम् अस्मरत्?

Answer

Answer: सा अस्मरत् यत् अद्य मन्त्री आगमिष्यति।


Question 7.
(i) ‘मनः प्रसन्नम्’- अत्र विशेषणपदम् किम्?
(ii) ‘मनः’ इति पदम् पुल्लिगम् अथवा नपुंसकलिंगम्?

Answer

Answer:
(i) प्रसन्नम्
(ii) नपुंसकलिंगम्


Question 8.
‘गृहात् बहि:’-अत्र ‘बहिः’ योगे का विभक्तिः? (पञ्चमी, षष्ठी)

Answer

Answer: पञ्चमी


Question 9.
‘सा अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति’ इति वाक्ये- ‘आगमिष्यति’ क्रियापदस्य कर्ता कः? (सा, मन्त्री)

Answer

Answer: मन्त्री


Question 10.
‘सः अत्र किमर्थम् आगमिष्यति’ इति वाक्ये कति अव्ययानि प्रयुक्तानि? (एकम्, द्वे)

Answer

Answer: द्वे (अत्र, किमर्थम्)


विरक्तभावेन पिता उदतरत्- “अनारिके! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति”। पितः! तर्हि किम्, एतदर्थं मन्त्री धनं ददाति? तस्य पार्श्वे धनानि कुतः आगच्छन्ति?” एतान् प्रश्नान् श्रुत्वा पिताऽवदत्”अरे! प्रजाः सर्वकाराय धनं प्रयच्छन्ति।” विस्मिता अनारिका पुनः अपृच्छत्-“पितः! कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। ते एव सेतुं निर्मान्ति। प्रजाः सर्वकाराय धनं ददति। तथापि सेतो: उद्घाटनार्थं मन्त्री किमर्थम् आगच्छति?”

Question 1.
कर्मकराः पर्वतेभ्यः कानि आनयन्ति?

Answer

Answer: प्रस्तराणि


Question 2.
काः सर्वकाराय धनं यच्छन्ति?

Answer

Answer: प्रजाः


Question 3.
के सेतुं निर्मान्ति?

Answer

Answer: कर्मकराः


Question 4.
अनारिका कम् सर्वान् प्रश्नान् पृच्छति?

Answer

Answer: पितरम्


Question 5.
सेतोः निर्माणकार्ये के-के योगदानं कुर्वन्ति?

Answer

Answer: कर्मकराः प्रस्तराणि आनयन्ति सेतुं च निर्मान्ति प्रजाः च सर्वकाराय धनं यच्छन्ति।


Question 6.
अनारिकायाः मनसि का जिज्ञासा?

Answer

Answer: अनारिकायाः मनसि इयं जिज्ञासा अस्ति यत् सेतोः उद्घाटनार्थं मन्त्री किमर्थम् आगच्छति।


Question 7.
‘अनारिके! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति’ इति वाक्ये ‘आनयन्ति’ क्रियापदस्य कः कर्ता? (प्रस्तराणि, जनाः, पर्वतेभ्यः)

Answer

Answer: जनाः


Question 8.
‘आनयन्ति’ क्रियापदस्य किम् कर्म? (प्रस्तराणि, अनारिके, पर्वतेभ्यः)

Answer

Answer: प्रस्तराणि


Question 9.
अनारिके’ – अत्र किं विभक्तिवचनम्? (सप्तमी एकवचनम्, प्रथमा द्विवचनम्, सम्बोधनम् एकवचनम्)

Answer

Answer: सम्बोधनम् एकवचनम्


Question 10.
‘एतान् प्रश्नान्’ अत्र किं विशेष्यपदम्?

Answer

Answer: प्रश्नान्


Question 11.
समानार्थकं पदं लिखत।
(क) जनक! – ………….
(ख) यच्छन्ति – ……………

Answer

Answer:
(क) पित:!
(ख) ददति


Question 12.
‘सेतोः’ अत्र किं विभक्तिवचनम्? (पञ्चमी एकवचनम्, षष्ठी एकवचनम्, प्रथमा द्विवचनम्)

Answer

Answer: षष्ठी एकवचनम्।


We hope the given NCERT MCQ Questions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 7 Sanskrit अनारिकायाः जिज्ञासा MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.