MCQ Questions for Class 9 Sanskrit Chapter 4 कल्पतरूः with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 4 कल्पतरूः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided कल्पतरूः Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-9-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 4 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखाकित-पदानां स्थानेषु प्रश्नवाचकं पदं लिखत

Sanskrit Class 9 Chapter 4 MCQ Question 1.
हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः अस्ति।
(क) कः
(ख) केन
(ग) किम्
(घ) का

Answer

Answer: (ग) किम्


Class 9 Sanskrit Chapter 4 MCQ Question 2.
तत्र जीमूतकेतुः इति विद्याधरः वसति स्म।
(क) कः
(ख) के
(ग) कानि
(घ) किम्

Answer

Answer: (क) कः


Class 9 Sanskrit Chapter 1 MCQ Question 3.
तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।
(क) कः
(ख) कथम्
(ग) कीदृशः
(घ) काः

Answer

Answer: (ग) कीदृशः


Sanskrit Chapter 1 Class 9 MCQ Question 4.
सः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।
(क) का
(ख) कदा
(ग) काः
(घ) कीदृशः

Answer

Answer: (घ) कीदृशः


Sanskrit MCQ Class 9 Question 5.
तस्य गुणैः प्रसन्नः राजा तं यौवराज्ये अभिषिक्तवान्।
(क) कुत्र
(ख) के
(ग) कः
(घ) कस्मिन्

Answer

Answer: (घ) कस्मिन्


Question 6.
स जीमूतवाहनः पितृमन्त्रिभिः उक्तः।
(क) केन
(ख) कैः
(ग) काभि
(घ) कदा

Answer

Answer: (ख) कैः


Question 7.
अयं कल्पतरुः तव सदा पूज्यः।
(क) कः
(ख) काः
(ग) का
(घ) कीदृशः

Answer

Answer: (घ) कीदृशः


Question 8.
एतत् आकर्ण्य जीमूतवाहनः अन्तः अचिन्तयत्।
(क) कुत्र
(ख) कः
(ग) केन
(घ) के

Answer

Answer: (क) कुत्र


Question 9.
किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।
(क) काः
(ख) का
(ग) कः
(घ) किम्

Answer

Answer: (ग) कः


Question 10.
तद् अहम् अस्मात् अभीष्टं मनोरथं साधयामि।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्

Answer

Answer: (ख) कम्


Question 11.
एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्।
(क) कस्य
(ख) का
(ग) कदा
(घ) काः

Answer

Answer: (क) कस्य


Question 12.
अस्मिन् संसारसागरे सर्वधनं वीचिवत् चञ्चलम्।
(क) कुत्र
(ख) किम्
(ग) केन
(घ) कः

Answer

Answer: (ख) किम्


Question 13.
सः जीमूतवाहनः कल्पतरुम् उपगम्य उवाच।।
(क) किम्
(ख) कीदृशः
(ग) कम्
(घ) कान्

Answer

Answer: (ग) कम्


Question 14.
यथा पृथ्वीम् अदरिद्रां पश्यामि।
(क) काम्
(ख) केन
(ग) का
(घ) कः

Answer

Answer: (क) काम्


Question 15.
इति वाक् तस्मात् तरोः उदभूत्।
(क) कस्मात्/कुतः
(ख) किम्
(ग) कथम्
(घ) कीदृशः

Answer

Answer: (क) कस्मात्/कुतः


Question 16.
सः कल्पतरुः दिवं समुत्पत्य भुवि वसूनि अवर्षत्।
(क) केन
(ख) कानि
(ग) कै
(घ) कुत्र/कस्याम्

Answer

Answer: (घ) कुत्र/कस्याम्


Question 17.
तस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
(क) कया
(ख) कः
(ग) किम्
(घ) कथम्

Answer

Answer: (क) कया


Question 18.
त्वया अस्मात् पूर्वेषाम् अभीष्टाः कामाः पूरिताः।
(क) कान्
(ख) केषाम्
(ग) कदा
(घ) काभि

Answer

Answer: (ख) केषाम्


Question 19.
त्वया त्यक्तः एषोऽहं यातोऽस्मि।
(क) कीदृशः
(ख) कैः
(ग) किम्
(घ) केन

Answer

Answer: (घ) केन


निम्नलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

अस्ति हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः। तस्य सानोः उपरि विभाति कञ्चनपुरं नाम नगरम्। तत्र जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्। सः जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्। तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्। कदाचित् हितैषिणः पितृमन्त्रिणः यौवराज्ये स्थितं तं जीमूतवाहनं उक्तवन्तः- “युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्” इति।

Question 1.
श्रीमतः विद्याधरपतेः किं नाम आसीत्?

Answer

Answer: जीमूतकेतुः


Question 2.
स राजा कीदृशं पुत्रं प्राप्नोत्?

Answer

Answer: बोधिसत्त्वांशसम्भवम्


Question 3.
जीमूतकेतोः उद्याने कीदृशः कल्पतरुः स्थितः आसीत्?

Answer

Answer: कुलक्रमागतः


Question 4.
नृपस्य गृहीद्याने कः स्थितः आसीत्?

Answer

Answer: नृपस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः आसीत्।


Question 5.
पुत्रः कीदृशः अभवत्?

Answer

Answer: (b) Sun


Question 6.
अनुच्छेदे ‘सम्पूज्य’ इति पदस्य कः पर्यायः लिखितः?

Answer

Answer: पुत्रः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।


Question 7.
अनुच्छेदे ‘स राजा जीमूतकेतुः’ इत्यस्य कर्तृपदस्य क्रियापदं किं वर्तते?

Answer

Answer: प्राप्नोत्


Question 8.
हितैषिभिः पितृमन्त्रिभिः’ अनयोः पदयोः विशेषणपदं किम्?

Answer

Answer: हितैषिभिः


Question 9.
अवसत्’ इति पदस्य अर्थे किं पदं प्रयुक्तम्?

Answer

Answer: वसति स्म


एतत् आकर्ण्य जीमूतवाहनः अचिन्तयत्-“अहो ईदशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैः अस्माकं तादशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहम् अस्मात् कल्पतरोः अभीष्टं साधयामि” इति। एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्। आगत्य च सुखमासीनं पितरम् एकान्ते न्यवेदयत्-“तात! त्वं तु जानासि एव यदस्मिन् संसारसागरे आशरीरम् इदं सर्व धनं वीचिवत् चञ्चलम्। एकः परोपकार एव अस्मिन् संसारे अनश्वरः यो युगान्तपर्यन्तं यशः प्रसूते। तद् अस्माभिः ईदृशः कल्पतरुः किमर्थ रक्ष्यते? यैश्च पूर्वैरयं ‘मम मम’ इति आग्रहेण रक्षितः, ते इदानीं कुत्र गताः? तेषां कस्यायम्? अस्य वा के ते? तस्मात् परोपकारैकफलसिद्धये त्वदाज्ञया इमं कल्पपादपम् आराधयामि।

Question 1.
कः अन्तः अचिन्तयत्?

Answer

Answer: जीमूतवाहनः


Question 2.
आशरीरमिदं सर्वधनं कीदृशं चञ्चलं वर्तते?

Answer

Answer: वीचिवत्


Question 3.
जीमूतवाहनः कस्य अन्तिकम् आगच्छत?

Answer

Answer: पितुः


Question 4.
तस्मात् कस्मै/किमर्थ नृपस्य आज्ञया जीमूतवाहनः कल्पपादपम् आराधयति?

Answer

Answer: तस्मात् मनोरथम् अभीष्टम् साधयितुं नृपस्य आज्ञया जीमूतवाहनः कल्पपादपम् आराधयति।


Question 5.
कः एवास्मिन् संसारेऽनश्वरः यो युगान्तपर्यन्तं यशः प्रसूते।

Answer

Answer: परोपकारः एवास्मिन् संसारेऽनश्वरः यो युगान्तपर्यन्तं यशः प्रसूते।


Question 6.
अनुच्छेदे ‘वृक्षम्’ इत्यस्य पदस्य कः पर्यायः आगतः?

Answer

Answer: पादपम्


Question 7.
‘एतत् आकर्ण्य जीमूतवाहनः अचिन्तयत!।’ अत्र कर्तृपदं किम्?

Answer

Answer: जीमूतवाहनः


Question 8.
अनुच्छेदे ‘गत्वा’ इति पदस्य कः विपर्ययः लिखितः?

Answer

Answer: आगत्य


Question 9.
श्रुत्वा’ ‘इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: आकर्ण्य


अथ पित्रा ‘तथा’ इति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति। एवं वादिनि जीमूतवाहने “त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोः उदभूत्। क्षणेन च स कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्य
जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।

Question 1.
कः कल्पतरुम् उपगम्य उवाच?

Answer

Answer: जीमूतवाहनः


Question 2.
क्षणेन सः कल्पतरुः किम् अवर्षत्?

Answer

Answer: वसूनि


Question 3.
सः पृथिवी कीदृशीम् पश्यति?

Answer

Answer: अदरिद्राम्


Question 4.
जीमूतवाहने एवं वादिनि कीदृशी/का वाक् तस्मात् तरोः उदभूत्?

Answer

Answer: जीमूतवाहने एवं वादिनि “त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोः उदभूत्।


Question 5.
जीमूतवाहनस्य सर्वजीवानुकम्पया किं अभवत्?

Answer

Answer: जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।


Question 6.
‘अभीष्टाः कामाः’ अनयोः पदयोः विशेष्यपदं किमस्ति?

Answer

Answer: कामाः


Question 7.
अनुच्छेदे ‘वृक्षात्’ इत्यस्य पदस्य कः पर्यायः आगतः?

Answer

Answer: तरोः


Question 8.
अनुच्छेदे ‘अवर्षत्’ इति क्रियापदस्य कर्तृपदं किमत्र प्रयुक्तम्?

Answer

Answer: कल्पतरुः


Question 9.
‘अकथयत्’ इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: उवाच


निम्नवाक्यानि घटनाक्रमानुसारं पुनर्लिखत

1. (i) कञ्चनपुरस्य नगरस्य राजा जीमूतकेतुः आसीत्।
(ii) एकदा तस्य नृपस्य मन्त्रिणः कथितवन्तः।।
(iii) हे युवराज! अयं कामदः कल्पतरुः सर्वैः पूज्यः वर्तते।
(iv) नृपस्य पुत्रः जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।
(v) एकदा सः पितरम् उपगम्य अवदत्-हे पितः! अहम् एतं कल्पतरुं परोपकाराय आराधयामि।
(vi) नृपः सचिवानां परामर्शेण पुत्रं यौवराज्येऽभिषिक्तवान्।
(vii) अस्मिन् अनुकूले स्थिते शक्रोऽपि अस्मान् बाधितुं न शक्यते।
(viii) तस्य गृहोद्याने कुलक्रमागतः एकः कल्पतरुः स्थितः आसीत्।

Answer

Answer:
(i) कञ्चनपुरस्य नगरस्य राजा जीमूतकेतुः आसीत्।
(ii) तस्य गृहोद्याने कुलक्रमागतः एकः कल्पतरुः स्थितः आसीत्।
(iii) नृपस्य पुत्रः जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।
(iv) नृपः सचिवानां परामर्शण पुत्रं यौवराज्येऽभिषिक्तवान्।
(v) एकदा तस्य नृपस्य मन्त्रिणः कथितवन्तः।
(vi) हे युवराज! अयं कामदः कल्पतरुः सर्वैः पूज्यः वर्तते।
(vii) अस्मिन् अनुकूले स्थिते शक्रोऽपि अस्मान् बाधितुं न शक्यते।
(viii) एकदा सः पितरम् उपगम्य अवदत्-हे पितः! अहम् एतं कल्पतरुं परोपकाराय आराधयामि।


2. (i) पुत्रः जीमूतवाहनः कल्पतरुम् आराध्य अकथयत्।
(ii) क्षणेन सः कल्पतरुः दिवम् उत्पत्य भुवि वसूनि अवर्षत्।
(iii) हे देव! यथा पृथ्वीम् अदरिद्रां पश्यामि तथा भवान् करोतु इति।
(iv) त्वया अस्मत् पूर्वेषाम् अभीष्टाः कामाः पूरिताः तत् मम अपि एकां कामनां पूरय।
(v) तरुः जीमूतवाहनम् अवदत्-“त्वया त्यक्तः अहं गच्छामि इति”।
(vi) जीमूतवाहनस्य यशः सर्वत्र प्रथितम्।
(vii) तस्य पुत्रः जीमूतवाहनः अतीव महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।
(viii) हिमालये कञ्चनपुर नगरस्य राजा जीमूतकेतुः विद्याधरपतिः आसीत्।

Answer

Answer:
(i) हिमालये कञ्चनपुर नगरस्य राजा जीमूतकेतुः विद्याधरपतिः आसीत्।
(ii) तस्य पुत्रः जीमूतवाहनः अतीव महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।
(iii) पुत्रः जीमूतवाहनः कल्पतरुम् आराध्य अकथयत्।
(iv) हे देव! यथा पृथ्वीम् अदरिद्रां पश्यामि तथा भवान् करोतु इति।
(v) त्वया अस्मत् पूर्वेषाम् अभीष्टाः कामाः पूरिताः तत् मम अपि एकां कामनां पूरय।
(vi) तरु: जीमूतवाहनम् अवदत्-“त्वया त्यक्तः अहं गच्छामि इति”।
(vii) क्षणेन सः कल्पतरुः दिवम् उत्पत्य भुवि वसूनि अवर्षत्।
(viii) जीमूतवाहनस्य यशः सर्वत्र प्रथितम्।


निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु पर्यायमेलनम्

‘क’ वर्गः – ‘ख’ वर्ग:
(i) सानोः – प्रसिद्धम्
(ii) प्रथितम् – याचितः
(iii) वसूनि – समीपम्
(iv) अर्थितः – इन्द्रः
(v) अन्तिकम् – अनुमतः
(vi) शक्रः – धनानि
(vii) यौवराज्ये – शिखरस्य
(viii) अभ्यनुज्ञातः – युवराजपदे

Answer

Answer:
(i) शिखरस्य
(ii) प्रसिद्धम्
(iii) धनानि
(iv) याचितः
(v) समीपम्
(vi) इन्द्रः
(vii) युवराजपदे
(viii) अनुमतः


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचितं योजयत

‘क’ स्तम्भ – ‘ख’ स्तम्भ
(i) अभीष्टाः – पृथ्वीम्
(ii) अदरिद्राम् – कामम्
(iii) एकम् – राजा
(iv) प्रसन्नः – सः
(v) पूज्यः – कल्पतरुः
(vi) सर्वकामदः – कामाः
(vii) वादिनि – तरोः
(viii) तस्मात् – जीमूतवाहने

Answer

Answer:
(i) कामाः
(ii) पृथ्वीम्
(iii) कामम्
(iv) राजा
(v) सः
(vi) कल्पतरुः
(vii) जीमूतवाहने
(viii) तरोः


निम्न ‘क’ वर्गीय पदानां ‘ख’ वर्गीय पदेषु विपर्ययचयनं कुरुत

‘क’ पदानि – ‘ख’ विपर्ययाः
(क) अधः – अपूज्यः
(ख) तिरस्कृत्य – प्रतिकुले
(ग) राजा – बहिः
(घ) अकामाः – दुर्गम्य
(ङ) अनश्वरः – प्रजा
(च) प्रसन्नः – अपयशः
(छ) दानवीरः – पतित्वा
(ज) अदरिद्राम् – उपरि
(झ) उपगम्य – दरिद्राम्
(ञ) अनुकूले – मातरम्
(ट) समुत्पत्य – कामाः
(ठ) पितरम् – आराध्य
(ड) अन्तः – नश्वरः
(ढ) यशः – दुःखी
(ण) पूज्यः – कृपणः

Answer

Answer:
(क) उपरि
(ख) आराध्य
(ग) प्रजा
(घ) कामाः
(ङ) नश्वरः
(च) दु:खी
(छ) कृपणः
(ज) दरिद्राम्
(झ) दुर्गम्य
(ञ) प्रतिकुले
(ट) पतित्वा
(ठ) मातरम्
(ड) बहिः
(ढ) अपयशः
(ण) अपूज्यः।


We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 4 कल्पतरूः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit कल्पतरूः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.