We have given detailed NCERT Solutions for Class 9 Sanskrit come in handy for quickly completing your homework.

CBSE Class 9 Sanskrit Sample Paper Set 2

समयः होरात्रयम्
पूर्णाङ्काः 80

निर्देशा:

  1. प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
    • खण्डः (क) अपठित-अवबोधनम् – (10 अङ्काः)
    • खण्डः (ख) रचनात्मकं-कार्यम्। – (15 अङ्काः)
    • खण्डः (ग) अनुप्रयुक्त-व्याकरणम् – (25 अङ्काः)
    • खण्डः (घ) पठित-अवबोधनम् – (30 अङ्काः)
  2. सर्व प्रश्नाः अनिवार्याः।
  3. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
  4. प्रश्नसंख्या अवश्यं लेखनीया।
  5. उत्तराणि संस्कृतेन एव लेखनीयानि।

खण्डः ‘क’
अपठित-अवबोधनम् (10 अङ्काः)

प्रश्न 1.
अधोलिखितम् अनुच्छेदम् पठित्वा प्रश्नानाम् उत्तराणि लिखत-

शिक्षायाः महत्त्वं सर्वेषां एव विदितम्। शिक्षामन्तरेण न केषामपि सत्कार्यप्रवृत्तिः सम्भवति। जनः कर्तव्याकर्तव्ययो विवेकं कर्तुं शिक्षया एव समर्थो भवति। शिक्षा विना जनोऽन्धवत् एव कार्येषु प्रवर्तते। शिक्षाविहीनो मूर्खः नाद्रियते लोकैः। धनार्जनाय न क्षमते कुटुम्बभरणाय स्वोदरदरीपूर्तये वा। शिक्षाविहीनः नरः पशुतुल्यो भवति। वस्तुतः मनुष्यस्य जीवनं शिक्षा विना निरर्थकमेव अस्ति। मनुष्यस्य शोभा तु शिक्षया एव भवति। शिक्षा मनुष्यस्य रक्षा पदे-पदे माता इव च हितकार्ये नियुक्तं पिता इव करोति।

प्रश्ना:
I. एकपदेन उत्तरत- (2 × 1 = 2)
(i) शिक्षाविहीनः नरः कीदृशः भवति?
(ii) सत्कार्यप्रवृतिः कथं भवति?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) शिक्षा मनुष्येभ्यः किं किं करोति?
(ii) जनः शिक्षया किं किं कर्तुम् समर्थः भवति?

III. निर्देशानुसारम् उत्तरत- (1 × 3 = 3)
(i) ‘शिक्षाविहीनः नरः पशुतुल्यो भवति।’ अत्र कर्तृपदं किम्?
(क) शिक्षाविहीनः
(ख) नरः
(ग) पशु
(घ) पशुतुल्यः

(ii) ‘सार्थकम्’ इति पदस्य विपरीतार्थकम् किम्?
(क) निरर्थकम्
(ख) निरर्थकमेव
(ग) समर्थः
(घ) जीवनम्

(iii) ‘शिक्षाविहीनो’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) लोकैः
(ख) मूर्खः
(ग) शिक्षा
(घ) नाद्रियते

IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत- (1 × 1 = 1)

खण्डः ‘ख’
रचनात्मकम्-कार्यम् (15 अङ्काः)

प्रश्न 2.
निजभ्रातुः विवाहे सम्मिलितार्थे प्राचार्य प्रति अधोलिखिते अवकाशपत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत- (½ × 10 = 5)

_____(i)_____
श्रीमन्तः प्रधानाचार्यमहोदयाः
राजकीयः सर्वोदयः विद्यालयः
हरिनगरम्, दिल्ली।

विषयः अवकाशप्रदानार्थम् _____(ii)_____!
_____(iii)_____
सविनयं _____(iv)_____ इदमस्ति यत् अहं _____(v)_____ विद्यालये नवम् _____(vi)_____ छात्रोऽस्मि। _____(vii) _____ मम भ्रातुः विवाहः अस्ति। अतः अहम् अद्य विद्यालयम् आगन्तुम् न _____(viii)_____। कृपया माम् _____(ix)_____ अवकाशं स्वीकृत्य _____(x)_____ भवन्तः।

सधन्यवादः।
भवतः
आज्ञाकारी शिष्यः
विष्णुः
नवम कक्षा
दिनाङ्कः _____

मञ्जूषा – कक्षायाः, अद्य, अनुग्रहीष्यन्ति, सेवायाम्, महोदयाः, निवेदनम्, भवतः, शक्नोमि, एकदिवसस्य, आवेदनपत्रम्

प्रश्न 3.
चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि संस्कृते लिखत। (1 × 5 = 5)
CBSE Class 9 Sanskrit Sample Paper Set 2 Q3

मञ्जूषा – शोभनैः चित्रैः, अलंकुर्वन्ति, स्फोटकपदार्थान्, दीपावल्याः रात्रौ, बालकानाम् कृते, आग्नेयक्रीडनकैः, दीपान्, वरदान रूपः, सर्वे सदस्याः।

अथवा

मञ्जूषायाः सहायतया ‘अस्माकं विद्यालयः’ इति विषयम् अधिकृत्य पञ्च वाक्यानि लिखत।

मञ्जूषा – छात्राः, कक्षा, वर्गः, अध्यापिका, कृष्णफलके, सुधाखण्डः, पुस्तकानि, आसनानि, विद्युत-दीपाः, जलपात्रम्, पाठयन्ति, रक्षति, स्नेह, उपरि, हरीतिमा।

प्रश्न 4.
अधोलिखितानाम् वाक्यानाम् संस्कृतेन अनुवादः कुरुत- (1 × 5 = 5)

  1. छात्र पुस्तक पढ़ने के लिए पुस्तकालय जाते हैं।
  2. सीता राम की पत्नी थी।
  3. हम सब वाटिका में गेंद से खेलते हैं।
  4. महिलाएँ सेवकों को वस्त्र देती हैं।
  5. धर्म से हीन जीवन को धिक्कार है।

खण्डः ‘ग’
अनुप्रयुक्त-व्याकरणम् (25 अङ्काः)

प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्कितपदानाम् समुचितं सन्धि विच्छेदं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
(i) सदाचारः सर्वैः सेवनीयः।
(क) सदा + आचारः
(ख) सत् + आचारः
(ग) सदा + चारः
(घ) सताम् + आचारः

(ii) भज गोविन्दम् + भज गोविन्दम्।
(क) गोविन्दङ्भज
(ख) गोविन्दम्भज
(ग) गोविन्दन्भज
(घ) गोविन्दभज

(ii) इदानीं ग्रीष्म + ऋतुः अस्ति।
(क) ग्रीष्म: + तु
(ख) ग्रीष्मर्तुः
(ग) ग्रीष्मतुः
(घ) ग्रीष्मार्तुः

(iv) कविर्मनीषी परिभूः स्वयंभूः।
(क) कविर + मनीषी
(ख) कवी + मनीषी
(ग) कविर्मनि + ईशी
(घ) कविः + मनीषी

प्रश्न 6.
उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत। (1 × 4 = 4)
(i) श्रीरामः ____________ पुत्रः अस्ति।
(क) राजस्य
(ख) राज्ञः
(ग) राजा
(घ) राजस्य

(ii) अहं ____________ एकं रूप्यकं यच्छामि।
(क) तम्
(ख) तेन
(ग) तस्मै
(घ) तस्मात्

(iii) सा ____________ नमति।
(क) पिता
(ख) पितरम्
(ग) पितुः
(घ) पित्रे

(iv) ____________ दत्तं क्षीरं मधुरमस्ति।
(क) अहम्
(ख) मयि
(ग) मम
(घ) मया

प्रश्न 7.
उचितधातुरूपाणि चित्वा रिक्त-स्थानानि पूरयत। (1 × 4 = 4)
(i) ते एकं सुन्दरं चित्रम् ____________।
(क) लभते
(ख) लभसे
(ग) लभे
(घ) लभेते

(ii) महिलाः जलम् ____________।
(क) आनयथः
(ख) आनयन्ति
(ग) आनयामि
(घ) आनयति

(iii) जनाः देवम् ____________।
(क) नस्यति
(ख) नस्यन्ति
(ग) नस्यथ
(घ) नस्यावः

(iv) त्वं सायं कुत्र ____________।
(क) गमिष्यति
(ख) गच्छति
(ग) गमिष्यसि
(घ) गच्छथः

प्रश्न 8.
प्रदत्तविकल्पेभ्यः उचितपदं चित्वा रिक्तस्थानानि पूरयत। (1 × 4 = 4)
(i) अनया ____________ किं प्रयोजनम् अस्ति।
(क) वार्ता
(ख) वार्तया
(ग) वार्ताः
(घ) वार्तेन

(ii) ____________ फलानि रोचन्ते।
(क) शिशुः
(ख) शिशोः
(ग) शिशुभ्यः
(घ) शिशुना

(iii) कपयः ____________ उपरि क्रीडन्ति।
(क) वृक्षे
(ख) वृक्षात्
(ग) वृक्षं
(घ) वृक्षस्य

(iv) ____________ परितः वृक्षाः सन्ति।
(क) विद्यालयस्य
(ख) विद्यालयः
(ग) विद्यालयं
(घ) विद्यालयाः

प्रश्न 9.
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत। (1 × 4 = 4)
(i) छात्राः ____________ (पठितुम्) विद्यालयं गच्छन्ति।
(क) पठ् + तुमुन्
(ख) पठ् + क्त
(ग) पठ् + क्त्वा
(घ) पठ् + क्तुम्

(ii) सः वृक्षं ____________ पश्यति। (आ + रुह् + ल्यप्)
(क) आरोह्य
(ख) आरोहय
(ग) आरुह्य
(घ) अवरुह्य

(ii) जनाः श्रीकृष्णस्य चरितम् ____________ (श्रु + क्त्वा) गृहम् गच्छन्ति।
(क) श्रुत्वा
(ख) श्रुक्त्वा
(ग) श्रूत्वा
(घ) श्रुता

(iv) बालकः पतति ____________ (क्रीड् + शतृ)।
(क) क्रीडतः
(ख) क्रीडन्
(ग) क्रीडति
(घ) क्रीडन्तः

प्रश्न 10.
अधोलिखितवाक्येषु अङकानां स्थाने संख्यावाचक विशेषणणानि प्रयुज्य उत्तराणि उत्तरपुस्तिकायां लिखत- (1 × 3 = 3)

  1. वृक्षे ____________ (3) कोकिलाः सन्ति।
  2. मम ____________ (4) मित्राणि सन्ति।
  3. विद्यालये ____________ (500) छात्राः पठन्ति।

प्रश्न 11.
कोष्ठकात शद्धपदं चित्वा रिक्तस्थाने लिखत- (½ × 4 = 2)

  1. शिक्षकः विद्यालयात् ____________। (निर्गच्छति, निर्गच्छन्ति, निर्गच्छतः)
  2. पक्षिणः गगने ____________। (उड्डयते, उड्डयन्ते, उड्डयेते)
  3. सैनिकः शत्रून् ____________। (पराजयति, पराजयते, पराजयन्ते)
  4. गङ्गा हिमालयात् ____________ (प्रभवति, प्रभवतः, प्रभवन्ति)

खण्डः ‘घ’
पठित-अवबोधनम् (30 अङ्काः)

प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (5)

अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म। यतो हि वने एव सुरक्षितं पर्यावरणमुपलभ्यते स्म। विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति।
सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायु वितरन्ति।

प्रश्ना:
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) विविधाः विहगाः कलकूजितैः किम् ददति?
(ii) कीदृशाः ऋषयः वने निवसन्ति स्म?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
के निर्मलं जलं प्रयच्छन्ति?

III. उचितम् उत्तरं चित्वा लिखत- (1 × 3 = 3)
(i) ‘समुपहरन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सरितः
(ख) लताः
(ग) वृक्षाः लताः च
(घ) फलानि

(ii) ‘सुरक्षितं’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) पर्यावरणम्
(ख) वने
(ग) उपलभ्यते
(घ) ऋषयः

(iii) ‘खगाः’ इत्यर्थे किं पदं प्रयुक्तम्।
(क) विहगाः
(ख) पवना
(ग) वायुः
(घ) सरितः

प्रश्न 13.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत। (5)

जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा।।

प्रश्नाः
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) अस्मिन् श्लोके सम्बोधनपदम् किम्?
(ii) ‘पश्य जटायो’ इति का वदति?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
पापकर्मणा राक्षसेन्द्रेण किम् कृतम्?

III. उचितम् उत्तरं चित्वा लिखत- (1 × 3 = 3)
(i) ‘माम्’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) रावणाय
(ख) सीता
(ग) सीतायै
(घ) जटायुः

(ii) श्लोके क्रियापदम् किम् अस्ति?
(क) करुणं
(ख) अनेन
(ग) पश्य
(घ) अनाथवत्

(iii) ‘पापकर्मणा’ इति पदस्य विशेष्यपदं किम्?
(क) जटायुः
(ख) अनेन
(ग) राक्षसेन्द्रेण
(घ) आर्य

प्रश्न 14.
अधोलिखितं नाट्यांश पठित्वा प्रदत्तप्रश्नान् उत्तरत। (5)
पुरुषः – भोस्तपस्विन्! कथं माम् अवरोधं करोषि? प्रयत्नेन किं न सिद्धं भवति? कावश्यकता शिलानाम्? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।
तपोदत्तः – आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?
पुरुषः – (सोत्प्रासम्) चिन्तितं चिन्तितम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधिरोढु विश्वसिमि। समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि।
तपोदत्तः – (सव्यङ्ग्यम्) साधु साधु! आञ्जनेयमप्यतिक्रामसि!
पुरुषः – (सविमर्शम्) कोऽत्र सन्देहः? किञ्च,

प्रश्ना:
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) पुरुषः काभिः एव सेतोः निर्माणं करोति?
(ii) केन सर्वं सिद्धम् भवति?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
पुरुषः कस्मिन् न विश्वसिति?

III. निर्देशानुसारं शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत- (1 × 3 = 3)
(i) “न अहम् सोपानसहायतया …….।” अस्मिन् वाक्ये ‘अहम्’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) विश्वसिमि
(ख) अस्मि
(ग) करिष्यसि
(घ) चिन्तितम्

(ii) ‘हनुमन्तम्’ इति पदस्य समानार्थकपदं किम्?
(क) आञ्जनेयम्
(ख) करिष्यसि
(ग) स्थास्यन्ति
(घ) अतिक्रामसि

(iii) ‘न अहम्’ अत्र ‘अहम्’ सर्वनामपदं कस्मै प्रयुक्तम्।
(क) पुरुषाय
(ख) तपोदत्ताय
(ग) पुरुषः
(घ) तपोदत्त

(iv) ‘असिद्ध’ इति पदस्य विलोमपदं किम्?
(क) कथं
(ख) सिद्धं
(ग) माम्
(घ) किञ्च

प्रश्न 15.
(क) उचितम् पदम् चित्वा प्रश्ननिर्माण कुरुत। (1 × 2 = 2)
(i) वृत्तम् यत्नेन संरक्षेत्।
(क) कदा
(ख) कुत्र
(ग) केन
(घ) कस्मिन्

(ii) नद्यः स्वयमेव जलम् न पिबन्ति।
(क) कः
(ख) कीदृशः
(ग) कथम्
(घ) काः

(ख) रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 2 = 2)
(i) मल्लिका स्वपतिं चतुरतमं मन्यते।
(ii) ग्रामे निर्धना वृद्धा आसीत्।

प्रश्न 16.
अधोलिखितश्लोकयोः अन्वयं मञ्जूषातः समुचितपदानि चित्वा पूरयत। (½ × 8 = 4)

(क) गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।

अन्वयः – गुणज्ञेषु गुणः _____(i)_____ भवन्ति, ते _____(ii)_____ प्राप्य दोषाः भवन्ति। आस्वाद्यतोयाः _____(iii)_____ प्रवहन्ति, समुद्रम् _____(iv)_____ अपेयाः भवन्ति।

(ख) यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।

अन्वयः – यो स्वामिनः _____(i)_____ पुत्रप्रीत्या पोषयति। _____(ii)_____ गृहे रक्षानियोगकारणत् मया _____(iii)_____ अपि _____(iv)_____ भ्रष्टव्यम्।

अथवा

अधोलिखितस्य श्लोकस्य भावार्थम् मञ्जूषातः उचितपदानि चित्वा पूरयत- (1 × 4 = 4)

सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना।।

भावार्थ: – यदा रावणः सीताम् अपाहरत् तदा _____(i)_____ करुणा _____(ii)_____ रुदन्ती विशालनयने सुदुःखिता _____(iii)_____ वृक्षस्थितं _____(iv)_____ अपश्यत्।

मञ्जूषा – सीता, जटायु, वाचः, अरण्ये

प्रश्न 17.
अधोलिखित वाक्यानि कथाक्रमेण संयोज्य लिखत- (½ × 8 = 4)

  1. तस्य गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्।
  2. कस्मिंश्चिद् अधिष्ठाने जीर्णधनः नाम वणिक्पुत्रः आसीत्।
  3. ततः ‘न्यायाधिकारिणः विहस्य’ तौ द्वावपि संबोध्य तुला-शिशुप्रदानेन तोषितवन्तः।
  4. एवं विवदमानौ तौ राजकुलं गतौ।
  5. “नास्ति सा, त्वदीया तुला मूषकैः भक्षिता।”
  6. सः वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य सत्वरं गृहम् आगतः।
  7. “यथा श्येनः बालं न नयति तथा मूषकाः अपि लौहघटितां तुला न भक्षयन्ति।”
  8. “कुत्र मे शिशुः यः त्वया सह नदीं गतः?”

प्रश्न 18.
प्रसङ्गानुसारं रेखांकितपदयोः उचितम् अर्थं चित्वा लिखत। (1 × 3 = 3)
(i) दिष्ट्या गोग्रहणं स्वन्तं अभवत्।
(क) भाग्येन
(ख) दृष्ट्वा
(ग) दृष्टिः
(घ) अपश्यत्

(ii) भवान् शंकाम् व्यपनयतु।
(क) व्यपहरत्
(ख) आनयतु
(ग) नयतु
(घ) दूरीकरोतु

(iii) सरसाः रसालाः वसन्ते लसन्ति।
(क) रसाः
(ख) भ्रमराः
(ग) आम्राणि
(घ) कोकिलाः