MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided शिशुलालनम् Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well. https://ncertmcq.com/mcq-questions-for-class-10-sanskrit-with-answers/

Students can also read NCERT Solutions for Class 10 Sanskrit Chapter 4 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखांकितपदानि आधृत्य विकल्पेभ्यः उचितं पदं चित्वा प्रश्ननिर्माणं कुरुत

Class 10 Sanskrit Chapter 4 MCQ Question 1.
रामस्य समीपम् उपसृत्य प्रणम्य च।
(i) कम्
(ii) कस्य
(iii) काम्
(iv) कया

Answer

Answer: (ii) कस्य


Sanskrit Class 10 Chapter 4 MCQ Question 2.
रामाय कुशलवयोः कण्ठश्लेषस्य स्पर्शः हृदयग्राही आसीत्?
(i) कीदृशः
(ii) कीदृशी
(iii) कीदृशम्
(iv) किम्

Answer

Answer: (i) कीदृशः


Sanskrit Chapter 4 Class 10 MCQ Question 3.
धिङ् माम् एवं भूतम्।
(i) कम्
(ii) काम्
(iii) किम्
(iv) केषाम्

Answer

Answer: (i) कम्


MCQ Questions For Class 10 Sanskrit Chapter 4 Question 4.
तस्या द्वे नाम्नी।
(i) के
(ii) कयोः
(iii) कति
(iv) किम्

Answer

Answer: (iii) कति


Class 10 Sanskrit Chapter 4 MCQ Questions Question 5.
लवः कुशः च भ्रातरौ आस्ताम्।
(i) कः
(ii) कौ
(iii) कीदृशौ
(iv) के

Answer

Answer: (ii) कौ


Sanskrit MCQ Class 10 Question 6.
अपूर्वं खलु नामधेयम्।
(i) कम्
(ii) काम्
(iii) कीदृशं
(iv) कीदृशः

Answer

Answer: (iii) कीदृशं


Class 10 Sanskrit MCQ Questions Question 7.
अतिदीर्घः प्रवासोऽयं दारुणश्च।
(i) कः
(ii) कम्
(iii) कीदृशः
(iv) कीदृशं

Answer

Answer: (iii) कीदृशः


Class 10 Sanskrit Chapter 2 MCQ With Answers Question 8.
बालंभावात् हिमकरः पशुपति-मस्तके विराजते।
(i) कः
(ii) के
(iii) कुत्र
(iv) कस्मिन्

Answer

Answer: (iii) कुत्र


MCQ Questions For Class 10 Sanskrit Chapter 1 Shemushi Question 9.
अहमत्रभवतोः जनक नामतो वेदितुमिच्छामि।
(i) किम्
(ii) कम्
(iii) काम्
(iv) कः

Answer

Answer: (iii) काम्


Sanskrit Class 10 MCQ Questions Question 10.
समरूपः शरीरसन्निवेशः।।
(i) किम्
(ii) कीदृशं
(iii) कीदृशः
(iv) कः

Answer

Answer: (iii) कीदृशः


Sanskrit MCQ Questions Pdf Class 10 Question 11.
न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।
(i) कुत्र
(ii) के
(iii) कस्मिन्
(iv) कीदृशे

Answer

Answer: (i) कुत्र


Question 12.
अपूर्वोऽयं मानवानां सरस्वत्यवतारः।
(i) कान्
(ii) किम्
(iii) केषाम्
(iv) काम्

Answer

Answer: (iii) केषाम्


Question 13.
तपोवनवासिनो देवीति नाम्नाह्वयन्ति।
(i) क:
(ii) के
(iii) केन
(iv) काः

Answer

Answer: (ii) के


Question 14.
मयापि सम्माननीय एव मुनिनियोगः।
(i) केन
(ii) कया
(iii) के
(iv) का

Answer

Answer: (i) केन


Question 15.
अङ्कव्यवहितम् अध्यास्यतां सिंहासनम्।
(i) किम्
(ii) कम्
(iii) कुत्र
(iv) कीदृशम्

Answer

Answer: (iii) कुत्र


Question 16.
सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं भणति।
(i) केन
(ii) कीदृशेन
(iii) किम्
(iv) कान्

Answer

Answer: (i) केन


Question 17.
उपाध्यायदूताः अस्मान् त्वरयति।
(i) कः
(ii) काम्
(iii) किम्
(iv) कान्

Answer

Answer: (iv) कान्


गद्यांशान् पठित्वा प्रश्नान् उत्तरत

(क) (सिंहासनस्थः रामः। ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गों तापसौ कुशलवौ)
विदूषकः – इत इत आर्यो!
कुशलवौ – (रामस्य उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य?
रामः – युष्मदर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजनसमु. चतस्य कण्ठाश्लेषस्य। (परिष्वज्य) अहो हृदयग्राही स्पर्शः।
उभौ – राजासनं खल्वेतत्, न युक्तमध्यासितुम्।
रामः – सव्यवधानं न चारित्रलोपाय। तस्मादङ्क-व्यवहितमध्यास्यतां सिंहासनम्। (अङ्कमुपवेशयति)
उभौ – (अनिच्छां नाटयतः) राजन्! अलमतिदाक्षिण्येन।
रामः – अलमतिशालीनतया।

Question 1.
सिंहासने कः स्थः?

Answer

Answer: रामः


Question 2.
कुशलवौ कस्य समीपम् अगच्छतम्?

Answer

Answer: रामस्य


Question 3.
किं न युक्तम्?

Answer

Answer: अध्यासितुम्


Question 4.
कस्य स्पर्शः रामाय हृदयग्राही आसीत्?

Answer

Answer: कुशलवयोः स्पर्शः रामाय हृदयग्राही आसीत्।


Question 5.
सव्यवधानं कस्मै न भवति?

Answer

Answer: सव्यवधानं चारित्रलोपाय न भवति।


Question 6.
अत्र ‘उभौ’ शब्द: काभ्याम् प्रयुक्तः?

Answer

Answer: लवकुशाभ्याम्


Question 7.
‘पात्रम्’ इत्यर्थे कि पदम् अत्र प्रयुक्तम्?

Answer

Answer: भाजनम्


Question 8.
‘तापसौ कुशलवौ’ अत्र विशेषणपदं किम्?

Answer

Answer: तापसौ


Question 9.
नाट्यांशे ‘नत्वा’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: प्रणम्य


(ख) भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव।
व्रजति हिमकरोऽपि बालभावात्
पशुपति-मस्तक-केतकच्छदत्वम्॥

Question 1.
कः लालनीयः एव भवति?

Answer

Answer: शिशुजनः


Question 2.
किमर्थम् हिमकरः पशुपति-मस्तके विराजते?

Answer

Answer: बालभावात्


Question 3.
शिशुजनः कथं लालनीयः भवति?

Answer

Answer: वयोऽनुरोधाद्


Question 4.
हिमकरः कीदृशम् इव पशुपति-मस्तके विराजते?

Answer

Answer: हिमकरः बालभावात् पशुपति मस्तके केतकछेदत्वम् इव विराजते।


Question 5.
हिमकरे कीदृशो भावते भवति?

Answer

Answer: हिमकरे बालभावो भवति।


Question 6.
शिशुजनः’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: लालनीयः


Question 7.
‘विराजते’ इति क्रियायाः श्लोके पर्यायः कः?

Answer

Answer: व्रजति


Question 8.
अस्मात् श्लोकात् एकम् अव्यय-पदं लिखत

Answer

Answer: अपि


Question 9.
श्लोके ‘ताडनीयः’ इत्यस्य पदस्य कः विपर्ययः आगत:?

Answer

Answer: लालनीयः


(ग) रामः – एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य कर्ता?
लवः – भगवन् सहस्रदीधितिः।
रामः – कथमस्मत्समानाभिजनौ संवृत्तौ?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः – भ्रातरावावां सोदयौँ।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
लवः – आवां यमलौ।
रामः – सम्प्रति युज्यते। किं नामधेयम्?
लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम् ……
कुशः – अहमपि कुश इत्यात्मानं श्रावयामि।

Question 1.
क्षत्रियकुलस्य पितामही कौ स्तः?

Answer

Answer: सूर्यचन्द्रौ


Question 2.
रामस्य वंशस्य कर्ता कः?

Answer

Answer: सहस्रदीधितिः


Question 3.
लवः कस्य वन्दनायाम् आत्मानं श्रावयति?

Answer

Answer: आर्यस्य (रामस्य)


Question 4.
कुशलवयोः मध्ये कीदृशी समानता आसीत्?

Answer

Answer: कुशलवयोः मध्ये शरीरसन्निवेशस्य समानता आसीत्।


Question 5.
कुशलवौ कीदृशौ स्तः?

Answer

Answer: कुशलवौ सोदयॊ यमलौ स्तः।


Question 6.
अत्र ‘युगलौ’ इत्यर्थे किम् पदं प्रयुक्तम्?

Answer

Answer: यमलौ


Question 7.
अस्मात् गद्यांशात् ‘भानुः’ पदस्य पर्यायपदं लिखत

Answer

Answer: सहस्रदीधितिः


Question 8.
नाट्याशे ‘सौन्दर्यावलोकजनितेन’ इति विशेषणस्य विशेष्यपदं किम्?

Answer

Answer: कौतूहलेन


Question 9.
नाट्यांशे आगतस्य ‘श्रावयामि’ इति क्रियापदस्य कर्तृपद किम्?

Answer

Answer: अहम्


(घ) रामः – अहो! उदात्तरम्यः समुदाचारः।
किं नामधेयो भवतोर्गुरुः?
लवः – ननु भगवान् वाल्मीकिः।
रामः – केन सम्बन्धेन?
लवः – उपनयनोपदेशेन।
रामः – अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।
लवः – न हि जानाम्यस्य नामधेयम्। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।
रामः – अहो महात्म्यम्।
कुशः – जानाम्यहं तस्य नामधेयम्।
रामः – कथ्यताम्।
कुशः – निरनुक्रोशो नाम….
रामः – वयस्य, अपूर्वं खलु नामधेयम्।
विदूषकः – (विचिन्त्य) एवं तावत् पृच्छामि निरनुक्रोश इति क एवं भणति?
कुशः – अम्बा।
विदूषकः – किं कुपिता एवं भणति, उत प्रकृतिस्था?
कुशः – यद्यावयोर्बालभावजनितं किञ्चिदविनयं पश्यति तदा एवम् अधिक्षिपति-निरनुक्रोशस्य पुत्रौ, मा चायलम् इति।
विदूषकः – एतयोर्यदि पितर्निरनुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारको निर्भर्त्तयति।

Question 1.
कुशलवयोः गुरुः कः आसीत्?

Answer

Answer: वाल्मीकिः


Question 2.
कः लवकुशयोः ‘जनक’ नामतो वेदितुमिच्छति?

Answer

Answer: रामः


Question 3.
का रामं निरनुक्रोशः इति भणति?

Answer

Answer: अम्बा (सीता)


Question 4.
लवकुशयोः अम्बां प्रति विदुषकः किम् अकथयत्?

Answer

Answer: एतयोः यदि पितुरर्निरनक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारको निर्भर्त्सयति।


Question 5.
कुशलवयोः गुरुः कः आसीत्?

Answer

Answer: कुशलवयोः गुरुः भगवान् वाल्मीकिः आसीत्?


Question 6.
‘भगवान् वाल्मीकिः’ अत्र विशेषणपदं किम्?

Answer

Answer: भगवान्


Question 7.
‘इच्छामि’ इति क्रियायाः कर्तृपदं किम्?

Answer

Answer: अहम्


Question 8.
‘कथयति’ इति क्रियायाः गद्यांशे पर्यायः कः?

Answer

Answer: भणति


Question 9.
‘कः एवं भणति’। अत्र क्रियापदं किम्?

Answer

Answer: भणति


(ङ) रामः – (स्वगतम्) धिङ् मावेवं भूतम्। सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं मन्युगभैरक्षरैर्निर्भर्त्सयति। (सवाष्पमवलोकयति)
रामः – अतिदीर्घः प्रवासोऽयं दारुणश्च। (विदूषकमवलोक्य जनान्तिकम्) कुतूहलेनाविष्टो मातरमनयो मतो वेदितुमिच्छामि। न युक्तं च स्त्रीगतमनुयोक्तुम्, विशेषतस्तपोवने। तत् कोऽत्राभ्युपायः?
विदूषकः – (जनान्तिकम्) अहं पुनः पृच्छामि। (प्रकाशम्) किं नामधेया युवयोर्जननी?
लवः – तस्याः द्वे नामनी। विदूषकः – कथमिव?
लवः – तपोवनवासिनो देवीति नाम्नाह्वयन्ति, भगवान् वालमीकिर्वधूरिति।
रामः – अपि च इतस्तावद् वयस्य! मुहूर्त्तमात्रम्।
विदूषकः – (उपसृत्य) आज्ञापयतु भवान्।
रामः – अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?
(नेपथ्ये)
इयती वेला सञ्जाता रामायणगानस्य नियोगः किमर्थं न विधीयते?
उभौ – राजन्! उपाध्यायदूतोऽस्मान् त्वरयति।
रामः – मयामि सम्माननीय एव मुनिनियोगः। तथाहि

Question 1.
कुशलवयोः मातरं तपोवनवासिनः केन नाम्ना आह्वयन्ति?

Answer

Answer: देवी


Question 2.
अयं प्रवासः कीदृशः आसीत्?

Answer

Answer: अतिदीर्घः/दारुणः


Question 3.
रामः सीतां केन विशेषणेन स्मरति?

Answer

Answer: तपस्विनी


Question 4.
सा तपस्विनी केन अपराधेन कम् मन्युग8; अक्षरैः निर्भर्त्सयति?

Answer

Answer: सा तपस्विनी रामेण कृतेन अपराधेन स्वापत्यम् मन्युगभैः अक्षरैः निर्भर्त्सयति।


Question 5.
रामस्य कुमारयोश्च कुटुम्बवृत्तान्तः कीदृशः?

Answer

Answer: रामस्य कुमारयोश्च कुटुम्बवृत्तान्तः सर्वथा समरूपः।


Question 6.
‘दृष्ट्वा’ इत्यर्थे किम् पदम् अत्र प्रयुक्तम्?

Answer

Answer: विलोक्य


Question 7.
‘समयः’ इत्यस्य कः पर्यायः अत्र लिखितः?

Answer

Answer: वेला


Question 8.
‘समरूपः कुटुम्बवृतान्तः’ अनयोः पदयोः विशेषणपदं किम्?

Answer

Answer: समरूपः


Question 9.
नाट्यांशे ‘विधीयते’ इति क्रियापदस्य कर्तृपदं किम् अस्ति?

Answer

Answer: नियोगः


(च) भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर्
गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्।
कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं,
पुनाति श्रोतारं रमयति च सोऽयं परिकरः॥

Question 1.
श्लोक-रचनायाः कविः कः अस्ति?

Answer

Answer: वाल्मीकिः


Question 2.
अयं सन्दर्भः कुत्र प्रथमं अवतीर्ण:?

Answer

Answer: गिराम्


Question 3.
इयं कथा कीदृशी वर्तते?

Answer

Answer: श्लाघ्या


Question 4.
इयं कथा कस्मात् सम्बन्धितः?

Answer

Answer: इय कथा सरसिरुहनाभात् सम्बन्धितः।


Question 5.
इयं कथा श्रोतारं प्रति किं करोति?

Answer

Answer: दयं कथा श्रोतारं पुनाति रमयति च।


Question 6.
‘वाणीम्’ पदस्य पर्यायपदं गद्यांशे किं अस्ति?

Answer

Answer: (ग) गिराम्


Question 7.
‘श्लाघ्या कथा’ अत्र विशेषणपदं किम्?

Answer

Answer: (ग) श्लाघ्या


Question 8.
‘रमयति’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: (ख) अयं परिकरः


Question 9.
श्लोके ‘वक्तारम्’ इति पदस्य विपर्ययपदं किमस्ति?

Answer

Answer: (क) श्रोतारम्


(छ) वयस्य! अपूर्वोऽयं मानवानां सरस्वत्यवतारः, तदहं सुहृज्जनसाधारणं श्रोतुमिच्छामि। सन्निधीयन्तां
सभासदः, प्रेष्यतामस्मदन्तिकं सौमित्रिः, अहमप्येतयोश्चिरासनपरिखेदं विहरणं कृत्वा अपनयामि।

Question 1.
कः सुहृज्जनसाधारणं श्रोतुम् इच्छति?

Answer

Answer: रामः


Question 2.
रामः कम् अन्तिकं प्रेषयितुम् अकथयत्?

Answer

Answer: सौमित्रिम्


Question 3.
के सन्निधीयन्ताम्?

Answer

Answer: सभासदः


Question 4.
सरस्वत्यवतारः कीदृशः अस्ति?

Answer

Answer: सरस्वत्यवतारः अपूर्वः अस्ति।


Question 5.
रामः किं विहरणं कृत्वा अपनयितुम् इच्छति?

Answer

Answer: रामः चिरासन परिखेदं विहरणं कृत्वा अपनयितुम इच्छति।


Question 6.
अत्र ‘सौमित्रिः’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: लक्ष्मणाय


Question 7.
‘अहमप्येतयोश्चिरासनपरिखेदं’ अस्मिन् पदे अव्ययपदं किम्?

Answer

Answer: अपि


Question 8.
‘अपनयामि’ इति क्रियायाः कर्तृपदं किम्?

Answer

Answer: अहम्


Question 9.
‘सदस्याः’ इत्यस्य पदस्य कः पर्यायः अनुच्छेदे लिखितः?

Answer

Answer: सभासदः


वाक्येषु रेखाङ्कितपदानां स्थाने प्रश्नवाचकं पदं प्रयुज्य प्रश्ननिर्माणं कुरुत

(क) अहम् सुहज्जनसाधारणं श्रोतुम् इच्छामि।
(ख) चन्द्रः शिवस्य शेखरे चूडामणिः इव शोभते।
(ग) एवमेव भवन्तौ गायताम्।
(घ) श्रोतारः आनन्दिताः भवन्ति।
(ङ) सा धरायां प्रथमवारमेव अवतरितवती।
(च) तयोः उपनयनसंस्कारं भगवान् वाल्मीकिः अकरोत्।
(छ) अहम् तस्य नामधेयम् जानामि।

Answer

Answer:
(क) अहम् कम् श्रोतुम् इच्छामि?
(ख) चन्द्रः कस्य शेखरे चूड़ामणिः इव शोभते?
(ग) एवमेव को गायताम्?
(घ) श्रोतारः कीदृशाः भवन्ति?
(ङ) सा कस्याम/कुत्र प्रथमवारमेव अवतरितवती?
(च) तयोः किम्/कम् भगवान् वाल्मीकिः अकरोत्?
(च) कः तस्य नामधेयम् जानामि?


अधोलिखितश्लोकानाम् अन्वयं मञ्जूषातः उचितं पदं चित्वा पूरयत

(क) भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव।
व्रजति हिमकरोऽपि बालभावात्
पशुपति-मस्तक-केतकच्छदत्वम् ।।

अन्वयः- (i) …………….. अपि वयोऽनुरोधात् (ii) ……………. लालनीयः एवं भवति। बालभावात् हि (iii) …………… अपि पशुपति (iv) ……………. केतकच्छदत्वम् व्रजति।
मञ्जूषा- गुणमहताम्, मस्तक, हिमकरः, शिशुजनः

Answer

Answer:
(i) गुणमहताम्
(ii) शिशुजनः
(iii) हिमकरः
(iv) मस्तक


(ख) भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर्
गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्।
कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं,
पुनाति श्रोतारं रमयति च सोऽयं परिकरः॥

अन्वयः-भवन्तौ (i) ……………. पुराणः व्रतनिधिः कविः अपि, वसुमतीम् प्रथमं अवतीर्णः (ii) …………… अयं सन्दर्भः सरसिरुहनाभस्य च इयं (iii) ……………. कथा, सः च सोऽयं परिकरः नियतं (iv) ……………… पुनाति रमयति च।
मञ्जूषा- श्रोतारं, श्लाघ्या, गायन्तौ, गिराम्

Answer

Answer:
(i) गायन्तौ
(ii) गिराम्
(iii) श्लाघ्या
(iv) श्रोतारं


अधोलिखितश्लोकानाम् भावयुक्तं पदं मञ्जूषातः चित्वा पूरयत

(क) भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव।
व्रजति हिमकरोऽपि बालभावात्
पशुपति-मस्तक-केतकच्छदत्वम्॥

भाव:- बालकः स्व स्वाभावात् (i) ………….. जनैः अपि तथैव (ii) ………….. भवति. यथा केतकी (iii) …………….. इव चन्द्रः बालभावत्वेन भगवतः शिवस्य (iv) ……………… चुडामणि इव शोभते।
मञ्जूषा- शेखर, लालनीयः, वयोवृद्धैः, पुष्पाणि

Answer

Answer:
(i) वयोवृद्धैः
(ii) लालनीयः
(iii) पुष्पाणि
(iv) शेखर


(ख) भवन्तो गायन्तौ कविरपि पुराणो व्रतनिधिर्
गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्।
कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं,
पुनाति श्रोतारं रमयति च सोऽयं परिकरः॥

भावः- श्रीरामः (i) ………….. वदति यत् भवन्तौ या (ii) ………… गातुम् इच्छतः सा तं व्रतनिधिः पुराणः (iii) ……………. भगवान् वाल्मीकिः रचितवान्। अतः सा धरायां प्रथमवारमेव अवतरितवती। इयं कथा कमलनाभि-भगवतः (iv) ……………. कथा वर्तते अतः श्रोतारं पुनाति आनन्दितं च करोति। एवमेव भवन्तौ गायताम्।
मञ्जूषा- विष्णोः, कुशलवौ, कविः, कथा

Answer

Answer:
(i) कुशलवी
(ii) कथा
(iii) कविः
(iv) विष्णोः


अधोलिखितवाक्यानि घटनाक्रमानुसारं पुनर्लिखत

I. (क) रामः लवकुशौ आसनार्धम् उपवेशयति।
(ख) सिंहासनारूढः रामः लवकुशयोः सौन्दर्य दृष्ट्वा आकृष्टः भवति।
(ग) आवाम् यमलौ।
(घ) तव माता किं कुपिता एवं भणति।
(ङ) अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।
(च) समरूपः शरीरसन्निवेश:/वयसस्तु न किञ्चिदन्तरम्।
(छ) तस्याः द्वे नामनी।
(ज) मम पिता नाम निरनुक्रोशः।

Answer

Answer:
(क) सिंहासनारूढः रामः लवकुशयोः सौन्दर्य दृष्ट्वा आकृष्टः भवति।
(ख) रामः लवकुशौ आसनार्धम् उपवेशयति।
(ग) समरूपः शरीरसन्निवेश:/वयसस्तु न किञ्चिदन्तरम्।
(घ) आवाम् यमलौ।
(ङ) अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।
(च) मम पिता नाम निरनुक्रोशः।
(छ) तव माता किं कुपिता एवं भणति।
(ज) तस्याः द्वे नामनी।


II. (क) धिङ् मावेवंभूतम्। सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेव निर्भर्त्सयति।
(ख) उपनयनोपदेशेन।
(ग) जानाम्यहं तस्य नामधेयम्।
(घ) अहम् अपि कुश इत्यात्मानं श्रावयामि।
(ङ) अहो हृदयग्राही स्पर्शः।
(च) मनु भगवान् वाल्मीकिः।
(छ) युष्मदर्शनात् कुशलमिव।
(ज) आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि।

Answer

Answer:
(क) युष्मदर्शनात् कुशलमिव।
(ख) अहो हृदयग्राही स्पर्शः।
(ग) आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि।
(घ) अहम् अपि कुश इत्यात्मानं श्रावयामि।
(ङ) मनु भगवान् वाल्मीकिः।
(च) उपनयनोपदेशेन।
(छ) जानाम्यहं तस्य नामधेयम्।
(ज) धिङ् मावेवंभूतम्। सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं निर्भर्त्सयति।


अधोलिखितपदानां तेषाम् पर्यायपदैः च मेलनं कुरुतपदानि पर्यायपदानि

पदानि – पर्यायपदानि
(क) यमलौ – हिमकरः
(ख) सूर्यः – उपाध्यायः
(ग) चन्द्रः – बालः
(घ) गुरुः – आर्यः
(ङ) वयः – पुत्रौ
(च) शिशुजनः – देवी
(छ) पशुपतिः – शङ्करः
(ज) भणति – युगलौ
(झ) रामः – भास्करः
(ञ) दारको – आयुः
(ट) सीता – क्रोऽम्
(ठ) अङ्कम् – जननी
(ड) प्रतिवचनम् – विचार्य
(ढ) विचिन्त्य – उत्तरम्
(ण) अम्बा – शिष्टाचारः
(त) समुदाचारः – कथयति

Answer

Answer:
पदानि – पर्यायपदानि
(क) यमलौ – युगलौ
(ख) सूर्यः – भास्करः
(ग) चन्द्रः – हिमकरः
(घ) गुरुः – उपाध्यायः
(ङ) वयः – आयुः
(च) शिशुजनः – बाल:
(छ) पशुपतिः – शङ्कराः
(ज) भणति – कथयति
(झ) रामः – आर्यः
(ञ) दारको – पुत्रौ
(ट) सीता – देवी
(ठ) अङ्कम् – क्रोऽम्
(ड) प्रतिवचनम् – उत्तरम्
(ढ) विचिन्त्य – विचार्य
(ण) अम्बा – जननी
(त) समुदाचारः – शिष्टाचारः


(अ) विशेषण-विशेष्यपदानि योजयत

विशेषणपदानि – विशेष्यपदानि
(क) अलमति – (i) वनम्
(ख) निरनुक्रोशो – (ii) पुस्तकालयम्
(ग) सुन्दरम् – (iii) पर्यटकाः
(घ) बृहत्तमम् – (iv) नाम
(ङ) अधिका – (v) दाक्षिण्येन
(च) वैदेशिकाः – (vi) उष्णता

Answer

Answer:
(क) अलमति – (v) दाक्षिण्येन
(ख) निरनुक्रोशो – (iv) नाम
(ग) सुन्दरम् – (i) वनम्
(घ) बृहत्तमम् – (ii) पुस्तकालयम्
(ङ) अधिका – (vi) उष्णता
(च) वैदेशिकाः – (iii) पर्यटकाः


(आ) संस्कृतेन वाक्यप्रयोगं कुरुत

MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers 1

Answer

Answer:
(क) सर्वे बालकाः क्रीडन्ति।
(ख) सुन्दर्यः बालिकाः यत्र यास्यन्ति।
(ग) मायानि मित्रं त्यजेत्।
(घ) मनुष्याणां शरीरस्थः महान् रिपुः आलस्यम्।


अधोलिखितपदानां तेषाम् विपर्ययपदानि सह मेलनं कुरुत

पदानि – विपर्ययपदानि
(क) विचार्य उत्तरम्
(ख) प्रश्नम् – ग्राही
(ग) सरलताम् – सहृदयः
(घ) निर्दयः – निशाकरः
(ङ) दिनकरः – आगच्छतः
(च) निर्गच्छतः – कठिन
(छ) त्यागी – मित्रम्
(ज) रिपुः – अविचार्य

Answer

Answer:
पदानि – विपर्ययपदानि
(क) विचार्य – अविचार्य
(ख) प्रश्नम् – उत्तरम्
(ग) सरलताम् – कठिनताम्
(घ) निर्दयः – सहृदयः
(ङ) दिनकरः – निशाकरः
(च) निर्गच्छतः – आगच्छतः
(छ) त्यागी – ग्राही
(ज) रिपुः – मित्रम्


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit शिशुलालनम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.