We have given detailed NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Questions and Answers come in handy for quickly completing your homework.

Shemushi Sanskrit Class 9 Solutions Chapter 7 प्रत्यभिज्ञानम्

Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत –

(क) क: उमावेषमिवाश्रितः भवति?
(ख) कस्याः अभिभाषणकौतूहलं महत् भवति?
(ग) अस्माकं कुले किमनुचितम्?
(घ) कः दर्पप्रशमनं कर्तुमिच्छति?
(ङ) कः अशस्त्रः आसीत्?
(च) कया गोग्रहणम् अभवत्?
(छ) कः ग्रहणं गतः आसीत्?
उत्तर:
(क) हरः
(ख) बृहन्नलायाः
(ग) आत्मस्तवम्
(घ) राजा
(ङ) अभिमन्युः
(च) दिष्ट्या
(छ) अभिमन्युः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) भटः कस्य ग्रहणम् अकरोत्?
(ख) अभिमन्युः कथं गृहीतः आसीत्?
(ग) कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
(घ) अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?
(ङ) कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?
उत्तर:
(क) भटः अभिमन्योः (सौभद्रस्य) ग्रहणम् अकरोत्।
(ख) अभिमन्युः वञ्चयित्वा गृहीतः आसीत्।
(ग) अभिमन्यु वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति।
(घ) अभिमन्युः स्वग्रहणे अनेन आत्मानं वाञ्चितम् इवः अनुभवति यतः सः अशस्त्रः वञ्चयित्वा गृहीतः।
(ङ) अभिमन्युः गोग्रहणं सुखान्तं मन्यते यतः अनेनैव तस्य पितरः दर्शिताः।

प्रश्न 3.
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

(क) भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा)
(ख) कथं कथं! अभिमन्यु माहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्)
(ग) कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता)
(घ) धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्। (अन्धविश्वास: शौर्यम्, उत्साह:)
(ङ) बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति। (आत्मविश्वासः, निराशा, वाक्संयमः)
(च) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः। (क्षमा, हर्षः, धैर्यम्)
उत्तर:
(क) विस्मयः
(ख) स्वामिमानः
(ग) क्रोधः
(घ) शौर्यम्
(ङ) आत्मविश्वासः
(च) हर्षः ङ्के

प्रश्न 4.
यथास्थान रिक्तस्थानपति कुसत –
(क) खलु + एषः = ……………
(ख) बल + ………… + अपि = बलाधिकेनापि
(ग) विभाति + उमावेषम् + इव + आश्रितः + …………= विभात्युमावेषम्
………….. + एनम् = वाचालयत्वेनम्
(ङ) रुष्यति + एष = ………………..
(च) त्वमेव + एनम् = …………….
(छ) यातु + ………….. = यात्विति
(ज) …………. + इति = धनञ्जयायेति
उत्तर:
(क) खल्वेषः
(ख) अधिकेन
(ग) इवाश्रितः
(घ) वाचालयतु
(ङ) रुष्यत्येष
(च) त्वमेवैनम्
(छ) इति
(ज) धनञ्जयाय

प्रश्न 5.
अधोलिखितानि वचनानि कः कं प्रति कथयति –
यथा – कः – कं प्रति
आर्य, अभिभाषणकौतूहलं में महत् – बृहन्नला – भीमसेनम्
(क) कथमिदानीं सावज्ञमिव मां हस्यते ……………. ………………
(ख) अशस्त्रेणेत्यभिधीयताम् ……………. ………………
(ग) पूज्यतमस्य क्रियतां पूजा ……………. ………………
(घ) पुत्र! कोऽयं मध्यमो नाम ……………. ………………
(ङ) शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते ……………. ………………
उत्तर:
(क) कथमिदानी सावमिव मा हस्यते – अभिमन्युःभीमसेनम्
(ख) अशस्त्रेणेत्यभिधीयताम् – अभिमन्युःभीमार्जनौ
(ग) पूज्यतमस्य क्रियतां पूजा – उत्तरःराजानाम्
(घ) पुत्र! कोऽयं मध्यमो नाम – राजाअभिमन्युम्
(ङ) शातं पापम्! धनुस्तु दुर्बलेः एव गाते – भीमसेनःअभिमन्युम्

प्रश्न 6.
(अ) अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

(क) वाचालयतु एनम् आर्य:।
(ख) किमर्थं तेन पदातिना गृहीतः।
(ग), कथं न माम् अभिवादयसि।
(घ) मम तु भुजी एवं प्रहरणम्।
(ङ) अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?
उत्तर:
(क) अभिमन्यवे
(ख) भीमसेनाय
(ग) राज्ञे
(घ) भीमसेनाय
(ङ) भटाय

प्रश्न 7.
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

(क) पार्थं पितरम् मातुलं ………..च उद्दिश्य कृतास्त्रस्य तरुणस्य ………… युक्तः।
(ख) कण्ठश्लिष्टेन ……….. जरासन्धं योक्त्रयित्वा तत् असह्य …………. कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।
(ग) रुष्यता …………. रमे। ते क्षेपेण न रुष्यामि, कि ……….. अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः ………….. बाहुभ्याम् आहृतम् (माम्) ………… बाहुभ्याम एव नेष्यति।
उत्तर:
(क) पार्थ पितरम् मातुलं जनार्दनं च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
(ख) कण्ठश्लिष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं कर्म कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।
(ग) रुष्यता भवता रमे। ते क्षेपेण न रुष्यामि, किं उक्त्वा अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम् आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति।

प्रश्न 7.
(अ) अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि – उपसर्गः
यथा- आसाद्य – आ
(क) अवतारितः – ………………
(ख) विभाति – ………………
(ग) अभिभाषय – ………………
(घ) उद्भूताः – ………………
(ङ) उत्सिक्तः – ………………
(च) प्रहरन्ति – ………………
(छ) उपसर्पतु – ………………
(ज) परिरक्षिताः – ………………
(झ) प्रणमति – ………………
उत्तर:
(क) – अव
(ख) – वि
(ग) – अभि
(घ) – उत्
(ङ) – उत्
(च) – प्र
(छ) – उप
(ज) – परि
(झ) – प्र

Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Additional Important Questions and Answers

अतिरिक्त कार्यम् 

प्रश्न  1.
गद्यांशम् पठित्वा प्रश्नानाम् उतराणि लिखत –

1. भटः – जयतु महाराजः।
राजा – अपूर्व इव ते हर्षो ब्रूहि केनासि विस्मितः?
भटः – अश्रद्धेयं प्रियं प्राप्त सौभद्रो ग्रहणं गतः।।
राजा – कथमिदानी गृहीतः?
भटः – रथमासाद्य निश्शङ्क बाहुभ्यामवतारितः।
राजा – केन? भटः यः किल एष नरेन्द्रेण विनियुक्तो महानसे (अभिमन्युमुद्दिश्य) इत इतः कुमारः।
अभिमन्युः – भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
बृहनला – इत इत: कुमारः।।
अभिमन्युः – अये! अयमपरः कः विभात्युमावेषमिवाश्रितो हरः।
बृहन्नला – आर्य, अभिभाषणकौतूहल मे महत्। वाचालयत्वेनमार्यः।
बल्लभः – (अपवार्य) बाढम् (प्रकाशम् ) अभिमन्यो।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. क: गृहीत?
  2. अयमपरः कः? इति कः वदति।
  3. क: ग्रहणं गतः?

उत्तर:

  1. अभिमन्युः
  2. अभिमन्युः
  3. सौभद्रम्

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. अभिमन्युः कथं गृहीतः?
  2. सौभद्रः कथम् गृहीतः?

उत्तर:

  1. अभिमन्युः वञ्चयित्वा गृहीतः आसीत्।
  2. रथमासाद्य निश्शंङ्कः बाहुभ्याम् अवतारितः।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. कौतूहलम्’ अस्य पदस्य विशेषणपदं किम् अत्र नाट्यांशे?
  2. नाट्यांशेऽस्मिन् ‘अप्रकाशम्’ इति पदस्य विलोमपदं किम् अत्र?
  3. ‘अस्मि’ इति क्रियापदस्य कर्तृपदं किम् अत्र?
  4. अत्र ‘शोभते’ इति अर्थे किं पदं प्रयुक्तम्?

उत्तर:

  1. महत्
  2. प्रकाशम्
  3. अहम् (अभिमन्युः)
  4. विभाति

2. अभिमन्युः – कथं कथम्। अभिमन्यु माहम्। भोः। किमत्र विराटनगरे क्षत्रियवंशोभूता नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः। अतएव तिरस्क्रियते।
बृहन्नला – अभिमन्यो! सुखमास्ते ते जननी?
अभिमन्युः – कथं कथम्? जननी नाम? किं भवान् मे पिता अथवा पितृव्यः? कथं मां पितृवदाक्रम्य स्वीगतां कथां पृच्छसे?
बृहन्नला – अभिमन्यो! अपि कुशली देवकीपुत्रः केशवः?
अभिमन्युः – कथं कथम्? तत्रभवन्तमपि नाम्ना। अथ किम् अथ किम्? (बृहन्नला वल्लभौ परस्परमवलोकयतः)
अभिमन्युः – कथमिदानी सावज्ञमिव मां हस्यते? न खलु किञ्चित्। पार्थ पितरमहिश्य मातुलं च जनार्दनम्। तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. सुखमास्ते ते जननी? इति कः कथयति?
  2. केशवः कस्याः पुत्रः आसीत्?
  3. कः तिरस्क्रियते?

उत्तर:

  1. बृहन्नला
  2. (देवकी) देवक्याः
  3. अभिमन्युः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. अभिमन्युः किमर्थम् तिरस्क्रियते?
  2. बृहन्नला अभिमन्युम् किं पृच्छति?

उत्तर:

  1. अभिमन्युः शत्रुवशं गतः अतएव तिरस्क्रियते।
  2. बृहन्नला अभिमन्युम् प्रच्छति-अभिमन्यो! सुखमास्ते ते जननी।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. नाट्यांशे ‘अर्जुन’ इति पदस्य पर्यायपदं किम् प्रयुक्तम्?
  2. अत्र ‘जनकः’ इति पदस्य विपर्ययपदं किम्?
  3. ‘पृच्छसे’ इति क्रियापदस्य कर्तृपदम् अत्र किम्?
  4. अस्मिन् नाट्यांशे ‘माता’ इति पदस्य पर्यायपदं किं आगतम्?

उत्तर:

  1. पार्थ
  2. जननी
  3. त्वम्
  4. जननी

3. अभिमन्युः – अलं स्वच्छन्दप्रलापेन। अस्माकं कुले आत्मस्तवं कर्तुमनुचितम्। रणभूमौ हतेषु शरान् पश्य, मदृते अन्यत् नाम न भविष्यति।।
बृहन्नला – एवं वाक्यशौण्डीर्यम्। किमर्थं तेन पदातिना गृहीतः?
अभिमन्युः – अशस्व मामभिगतः। पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशोषु मावृशाः न प्रहरन्ति। अतः अशस्वोऽयं मां वञ्चयित्वा गृहीतवान्। राजा त्वर्यतां त्वर्यतामभिमन्युः।
बृहन्नला – इत इतः कुमारः। एष महाराजः। उपसर्पतु कुमारः।
अभिमन्युः – आः। कस्य महाराजः? राजा – एहोहि पुत्र! कथं न मामभिवादयसि? (आत्मगतम्) अहो! उत्सिवतः खल्वयं क्षत्रियकुमारः। अहमस्य दर्पप्रशमनं करोमि। (प्रकाशम् ) अथ केनायं गृहीतः?
भीमसेनः – महाराज! मया।
अभिमन्युः – अशस्त्रेणेत्यभिधीयताम्
भीमसेनः – शान्त पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम तु भुजी एव प्रहरणम्।
अभिमन्युः – मा तावद् भोः! किं भवान् मध्यमः तातः यः तस्य सदृशं वचः वदति।
भगवान् – पुत्र! कोऽयं मध्यमो नाम?

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. अभिमन्युः रणभूमौ कथं गृहीतः?
  2. कस्य कुले आत्मस्तवं अनुचितम् अस्ति?
  3. अभिमन्युः कथम् गृहीत:?

उत्तर:

  1. वञ्चयित्वा
  2. अभिमन्योः (अभिमन्युकुले)
  3. पदातिना

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. अशस्त्रेषु कीदृशाः जनाः न प्रहरन्ति?
  2. धनुस्तु कैः एव गृह्यते?

उत्तर:

  1. अशस्त्रेषु अभिमन्योः सदृशाः न प्रहरन्ति।
  2. धनुस्तु दुर्बलैः एव गृह्यते।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र नाट्यांशे ‘क्षत्रियकुमारः’ इति पदस्य विशेषणपदं किम्?
  2. ‘करोमि’ इति क्रियापदस्य कर्ता कः अत्र?
  3. नाट्यांशे ‘प्रकाशम्’ इति विपर्ययपद नाट्यांशे किम् आगतम्?
  4. अस्मिन् नाट्यांशे ‘सबलैः’ इति पदस्य विपर्ययपदं किम् प्रयुक्तम्?

उत्तर:

  1. अयं
  2. अहम्
  3. आत्मगतम्
  4. दुर्बलैः

4. अभिमन्युः – यद्यहमनुग्राम:
पादयोः समुदाचारः क्रियतां निग्रहोचितः।
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति॥
(ततः प्रविशत्युत्तर)
उत्तरः – तात! अभिवादये!
राजा – आयुष्मान् भव पुत्र। पूजिताः कृतकर्माणो योधपुरुषाः।
उत्तरः – पूज्यतमस्य क्रियतां पूजा।
राजा – पुत्र! कस्मै?
उत्तरः – इहात्रभवते धनञ्जयाय।
कथं धनञ्जयायेति?
उत्तरः अथ किम् श्मशानाद्धनुरादाय तूणीराक्षयसायके । नपा भीष्मादयो भग्ना वयं च परिरक्षिताः
राजा – एवमेतत्।
उत्तरः – व्यपनयतु भवाञ्छङ्काम्। अयमेव अस्ति धनुर्धरः धनञ्जयः।

(i) एकपदेन उत्तरत (केवल प्रश्नद्वयमेव)

  1. ततः कः प्रविशति?
  2. क: बाहुभ्यामेव नेष्यति?
  3. धनञ्जयः कः आसीत्

उत्तर:

  1. उत्तरः
  2. भीमः
  3. धनुर्धरः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. पूज्यतमः धनुर्धरः कः अस्ति?
  2. भीमः काभ्यामेव नेष्यति।

उत्तर:

  1. पूज्यतमः धनुर्धरः (अर्जुन:) धनञ्जयः अस्ति।
  2. भीमः बाहुभ्यामेव नेष्यति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र ‘अभिवादये’ इति क्रियापदस्य कर्तृपदं किम्?
  2. नाट्यांशे अत्र ‘भीमः’ इति कर्तृपदस्य क्रियापदकिम्?
  3. ‘धनञ्जयः’ इति पदस्य विशेषणपदं किम् अत्र?
  4. ‘धनञ्जयः’ इति पदं कस्मै प्रयुक्तम् अस्मिन् नाट्यांशे?

उत्तर:

  1. अहम् (उत्तरः)
  2. नेष्यति
  3. धनुर्धरः
  4. अर्जुनाय

प्रश्न 2.
निम्नवाक्येषु रेखांकित पदानाम् स्थानेषु प्रश्नवाचक पदं लिखत –

प्रश्न 1.
सौभद्रो ग्रहणं गतः।
(क) क:
(ख) किम्
(ग) कस्य
(घ) केन
उत्तर:
(क) क:

प्रश्न 2.
किमत्र विराटनगरे नीचैः अपि नामभिः अभिभाष्यन्ते।
(क) के
(ख) कुत्र
(ग) कस्मिन्
(घ) कया
उत्तर:
(ख) कुत्र

प्रश्न 3.
क्षत्रियवंशोभृताः नीचैः अपि नामभिः।
(क) केषाम्
(ख) कीदृशाः
(ग) काः
(घ) कुत्र
उत्तर:
(ख) कीदृशाः

प्रश्न 4.
अहम् शत्रुवशं गतः।
(क) कम्
(ख) क:
(ग) किम्
(घ) कुत्र
उत्तर:
(ख) क:

प्रश्न 5.
सुखमास्ते ते जननी।
(क) कस्य
(ख) कम्
(ग) कुत्र
(घ) कया
उत्तर:
(क) कस्य

प्रश्न 6.
अलं स्वच्छन्दप्रलापन
(क) कथम्
(ख) कदा
(ग) केन
(घ) कया
उत्तर:
(ग) केन

प्रश्न 7.
रणभूमौ हतेषु शरान् पश्य।
(क) को
(ख) कुत्र
(ग) कस्मै
(घ) कदा
उत्तर:
(ख) कुत्र

प्रश्न 8.
तेन पदातिना गृहीतः।।
(क) कया
(ख) केन
(ग) कुत्र
(घ) कम्
उत्तर:
(ख) केन

प्रश्न 9.
अशस्त्रेषु मादृशाः न प्रहरन्ति।
(क) केषाम्
(ख) कीदृशाः
(ग) कः
(घ) कस्य
उत्तर:
(ख) कीदृशाः

प्रश्न 10.
मां वञ्चयित्वा गृहीतवान्।
(क) काम्
(ख) कथम्
(ग) कः
(घ) केन
उत्तर:
(ख) कथम्

प्रश्न 11.
उत्सिक्तः खलु अयं क्षत्रियकुमारः
(क) कीदृशः
(ख) कम्
(ग) कः
(घ) किम्
उत्तर:
(ग) कः

प्रश्न 12.
उत्सिक्तः खलु अयं क्षत्रियकुमारः।
(क) कः
(ख) कम्
(ग) कथम्
(घ) कीदृशः
उत्तर:
(घ) कीदृशः

प्रश्न 13.
मम तु भुजों एव प्रहरणम्।
(क) कम्
(ख) कस्य
(ग) कथम्
(घ) किम्
उत्तर:
(ख) कस्य

प्रश्न 14.
मम तु भुजौ एव प्रहरणम्
(क) किम्
(ख) कम्
(ग) कथम्
(घ) कस्य
उत्तर:
(क) किम्

प्रश्न 15.
भीमः बाहुभ्याम् एव नेष्यति।
(क) काभ्याम्
(ख) कैः
(ग) कथम्
(घ) कः
उत्तर:
(क) काभ्याम्

प्रश्न 16.
वयं च परिरक्षिताः।
(क) कीदृशाः
(ख) के
(ग) कथम्
(घ) कस्य
उत्तर:
(ख) के

प्रश्न 17.
अयमेव अस्ति धनुर्धरः धनञ्जयः।
(क) कः
(ख) कीदृशः
(ग) कथम्
(घ) कस्य
उत्तर:
(ख) कीदृशः

प्रश्न 18.
क्रमेण सर्वान् प्रणमति।
(क) काभ्याम्
(ख) कम्
(ग) कथम्
(घ) कस्य
उत्तर:
(ग) कान्

प्रश्न 19.
सर्वे च तम् आलिङ्गन्ति।
(क) काम्
(ख) कम्
(ग) कथम्
(घ) कस्य
उत्तर:
(ख) कम्

प्रश्न 20.
वयं च परिरक्षिताः
(क) के
(ख) कीदृशाः
(ग) कीदृशी
(घ) कीदृशः
उत्तर:
(ख) कीदृशाः

प्रश्न 21.
अयमेवस्ति धनुर्धरः धनञ्जयः
(क) कीदृशः
(ख) किम्
(ग) कः
(घ) कम्
उत्तर:
(ग) कः

प्रश्न 22.
अभिमन्युः क्रमेण सर्वान् प्रणमति।
(क) कान्
(ख) किम्
(ग) कम्
(घ) कः
उत्तर:
(क) कान्

प्रश्न 3.
श्लोकस्य अन्वयं लेखनम् –

1. पादयोः समुदाचारः क्रियतां निग्रहोचितः।
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति ।।
अन्वयः- पादयोः

  1. …………… उचितः
  2. ………….. क्रियताम्
  3. ……….. आहतम् (माम्)
  4. ……… बाहुभ्याम् एव नेष्यति।

मञ्जूषा – समुदाचारः, निग्रहः, भीमः, बाहुभ्याम् |
उत्तर:

  1. निग्रहः,
  2. समुदाचारः,
  3. बाहुभ्याम्.
  4. भीम:

2. श्मशानाद्धनुरादाय तूणीराक्षयसायके।
नृपा भीष्मावयो भग्ना वयं च परिरक्षिताः।।
अन्वयः-

  1. ……… धनु:
  2. ………. आदाय
  3. ………. नृपाः
  4. ………. वयं च परिरक्षिताः।

मञ्जूषा – तूणीराक्षयः, श्मशानात्, भग्नाः, भीष्मादयः
उत्तर:

  1. श्मशानात्,
  2. तूणीराक्षयः,
  3. भीष्मादयः,
  4. भग्नाः

3. पार्थ पितरमुद्दिश्य मातुलं च जनार्दनम् ।
तरुणस्य कृतास्वस्य युक्तो युद्धपराजयः
अन्वयः-पार्थ

  1. ……….. मातलं
  2. ……….. च
  3. ………. कत:
  4. ………….. तरुणस्य यद्धपराजयः युक्तः।

मञ्जूषाः – जनार्दनं, अस्त्रस्य, उद्दिश्य, पितरं
उत्तर:

  1. पितरं
  2. जनार्दनं
  3. उद्दिश्य
  4. अस्त्रस्य

4. योकायित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना।
असह्य कर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम्

अन्वयः कण्ठश्लिष्टेन

  1. …….. जरासन्धं
  2. ………… तत्
  3. ……… कर्म
  4. ………..(भीमेन) कृष्णः अतदर्हतां नीतः।

मञ्जूषाः – कृत्वा, बाहुना, योकायित्वा, असह्यं ।
उत्तर:

  1. बाहुना
  2. योक्त्रयित्वा
  3. असह्यं
  4. कृत्वा

5. न ते क्षेपेण रुष्यामि, रुष्यता भवता रमे।
किमुक्त्वा नापराद्धोऽहं, कथं तिष्ठति यात्विति
अन्वयः – रुष्यता

  1. …………. रमे। ते
  2. ………… न रुष्यामि
  3. ……… उक्त्वा अहं नापराद्धः
  4. ………… (भवान्) तिष्ठति यातु इति।

मञ्जूषाः – क्षेपेण, कथं, किम्, भवता |
उत्तर:

  1. भवता
  2. क्षेपेण
  3. किम्
  4. कथं

प्रश्न 4.
निम्नवाक्यानि घटनाक्रमानुसारं पुनर्लिखत –

प्रश्न 1.

  1. विरारपुत्रः उत्तरः बृहन्नला (अर्जुनम्) सारथिं मत्वा कौरवेभ्यः युद्धस्य गच्छति।
  2. दुर्योधनादयः कौरवाः राज्ञः विराटस्य धेनू: अपाहरन्।
  3. अतः सः ताभ्यां सहे उग्रतार्पूवकं वार्ता करोति।
  4. अन्ते राजपुत्रः उत्तरः आगत्य तयोः रहस्योद्घाटनं करोति।
  5. युद्धे कौरवाणां पराजयो भवति।
  6. कौरवपक्षे अभिमन्युः युद्धम् करोति।
  7. अभिमन्युः अर्जुन भीमसेनं च न ज्ञायते।
  8. वल्लभ वेषधारी भीमसेनः रणभूमौ अभिमन्यु ग्रहीतवान्।

उत्तर:

  1. दुर्योधनादयः कौरवाः राज्ञः विराटस्य धेनू: अपाहरन्।
  2. कौरवपक्षे अभिमन्युः युद्धम् करोति।
  3. विराटपुत्रः उत्तरः बृहन्नला (अर्जुनम) सारथिं मत्वा कौरवेभ्यः युद्धस्य गच्छति।
  4. युद्धे कौरवाणां पराजयो भवति।
  5. वल्लभ वेषधारी भीमसेनः रणभूमौ अभिमन्यु ग्रहीतवान्।
  6. अभिमन्युः अर्जुनं भीमसेनं च न ज्ञायते।
  7. अतः सः ताभ्यां सहे उग्रतार्पूवक वार्ता करोति।
  8. अन्ते राजपुत्रः उत्तरः आगत्य तयोः रहस्योद्घाटनं करोति।

प्रश्न 2.

  1. अर्जुनः भीमसेनः च तम् अभिमन्यु नृपस्य समीपे आनयतः।
  2. राजपुत्रस्य उत्तरस्य उत्तरेण तयोः रहस्योद्घाटनम् अभवत्।
  3. अभिमन्युः नृपं. भीमम् अर्जुनं च प्रणामं न अकरोत्।
  4. दुर्योधनादयः कौरवाः राज्ञः विराटस्य गाः अपाहरन्।
  5. विराटपुत्र: उत्तरः बृहन्नला सारधिं कृत्वा कौरवेभ्यः युद्धाय गच्छति।
  6. तौ अभिमन्यु नुपस्य समीपे प्रस्तुतवन्तौ।
  7. कौरवाणां पक्षतः अभिमन्युः युद्धम् अकरोत्।
  8. अभिमन्युः तौ न अजानत्।

उत्तर:

  1. दुर्योधनादयः कौरवाः राज्ञः विराटस्य गाः अपाहरन्।
  2. कौरवाणां पक्षतः अभिमन्युः युद्धम् अकरोत्।
  3. विराटपुत्र: उत्तरः बृहन्नलां सारधि कृत्वा कौरवेभ्यः युद्धाय गच्छति।
  4. अर्जुनः भीमसेनः च तम् अभिमन्यु नृपस्य समीपे आनयतः।
  5. तौ अभिमन्यु नुपस्य समीपे प्रस्तुतवन्तौ।
  6. अभिमन्युः तो न अजानत्।
  7. अभिमन्युः नृपं, भीमम् अर्जुनं च प्रणाम न अकरोत्।
  8. राजपुत्रस्य उत्तरस्य उत्तरेण तयोः रहस्योद्घाटनम् अभवत्।

प्रश्न 5.
निम्न ‘क’ वर्गीय पदायं ‘ख’ वर्गीय पदेषु पर्यायपदानि चीयताम् –

‘क’ पदानि – ‘ख’ पर्यायपदानि

  1. सौभद्रः – हर्षः
  2. प्रकाशम् – शोभते
  3. जनार्दनम्- पितुःभ्राता
  4. प्रलापेन – अभिमन्युः
  5. प्रसन्नता – प्रकटरूपेण
  6. विभाति – वीरता
  7. पितृव्यः – श्रीकृष्णम्
  8. मतृदे – अनर्गलभाषणेन
  9. शौण्डीर्यम् – त्यजतु
  10. समीपं गच्छतु – अर्जुनाय
  11. त्वयंताम् – मां बिना
  12. दूरीकरोतु – उपसर्पतु
  13. धनञ्जनाय – व्यपनयतु
  14. दर्पः – घमण्डः

उत्तर:

  1.  – अभिमन्युः
  2.  – प्रकटरूपेण
  3.  – श्रीकृष्णम्
  4.  – अनर्गलभाषणेन
  5.  – हर्षः
  6.  – शोभते
  7.  – पितुःभ्राता
  8.  – मां बिना
  9.  – वीरता
  10.  – उपसर्पतु
  11.  – उपसर्पतु
  12.  – व्यपनपतु.
  13.  – अर्जुनाय
  14.  – घमण्डः