Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Term 2 Set 2 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 2 with Solutions
समयः : होरात्रयम्
सम्पूर्णाङ्काः : 40
प्रश्नपत्रस्वरूपम :
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति।
- अस्य प्रश्नपत्रस्य पठनाय 20 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
- उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् एवं लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
(वर्णनात्मकाः प्रश्नाः)
अपठित-अवबोधनम् (40 अङ्काः)
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (10)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
गङ्गाम् उभयतः विविधैः वृक्षैः सुशोभिताः ग्रामाः आसन्। तत्र एकस्मात् ग्रामात् बहिः वृक्षस्य अध: एक जीर्णः कूपः आसीत्। तस्मिन् कूपे मण्डूकानाम् अधिपतिः गङ्गदत्तः परिजनैः सह निवसति स्म। सः गङ्गदत्तः परिश्रमं विनैव प्रभुत्वं प्राप्नोत्। अतः गर्वितः अभवत्। तस्य दुर्व्यवहारेण केचन प्रमुखाः मण्डूकाः, रुष्टाः जाताः। ते गङ्गदत्तम् अधि कारेण हीनं कृत्वा कूपात् बहिः कर्तुम् उद्यताः अभवन्। तद् ज्ञात्वा गङ्गदत्तः विषादम् अनुभवति स्म। ‘शत्रूणां नाशः कथं भवेत्’ इति एकान्ते चाटुकारैः सह मन्त्रणाम् अकरोत्। एकः नष्टबुद्धिः नाम मण्डूकः नत्वा अकथयत् – ‘नीतिं विना किमपि न सिद्धयति, शत्रुः शत्रुणा नाशयतिः इति नीतिः। एतेषां शत्रूणां नाशाय सर्पः सहायकः भविष्यति। सः वृक्षस्य कोटरे निवसति एवं संघर्षः विनैव शत्रुनाशः भविष्यति।
(अ) एकपदेन उत्तरत। (केवलं प्रश्न-द्वयम्) (1 × 2 = 2)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) जीर्णः कूपः कस्य अधः आसीत् ?
उत्तरः
वृक्षस्य
(ii) मण्डूकानाम् अधिपति कः आसीत् ?
उत्तरः
गङ्गदत्तः
(iii) सर्पः कुत्र निवसति स्म?
उत्तरः
वृक्षस्य कोटरे
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्न-द्वयम्) (2 × 2 = 4)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) ग्रामाः कुत्र आसन्?
उत्तरः
ग्रामाः गङ्गाम् उभयतः आसन्।
(ii) गंगदत्तः किमर्थं गर्वितः आसीत् ?
उत्तरः
गंगदत्तः परिश्रमं विनैव प्रभुत्वं प्राप्नोत् इति गर्वितः अभवत्।
(iii) गंगदत्तः चटुकारैः सह किमर्थ मन्त्रणाम् अकरोत्?
उत्तरः
गंगदत्तः शत्रूणां नाशं कथं भवेत् इति, मन्त्रणाम् अकरोत्।
(इ) अस्य अनुच्छेदस्य कृते कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (द्वित्रिशष्दात्मक-वाक्यम्) (1)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तरः
शीर्षक:-गंगदत्तस्य मंत्रिणा ………………….
(ई) यथानिर्देशम् उत्तरत। (केवलं प्रश्न-त्रयम्) (एकपदेन) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘प्रसन्नाः’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(क) अप्रसन्नाः
(ख) रुष्टाः
(ग) जाताः
उत्तरः
(ख) रुष्टाः
(ii) ‘जीर्णः कूपः’ इति अनयोः पदयोः किं विशेष्यपदम् ?
(क) जीर्णः
(ख) एकः
(ग) कूपः
उत्तरः
(ग) कूपः
(iii) ‘निवसति स्म’ इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
(क) परिजनैः
(ख) गङ्गदत्तः
(ग) सह
उत्तरः
(ख) गङ्गदत्तः
(iv) ‘स्वामी’ इत्यस्य पदस्य किं पर्यायपदम् प्रयुक्तम्?
(क) अधिपतिः
(ख)गङ्गदत्तः
(ग) परिजनैः
उत्तरः
(क) अधिपतिः
रचनात्मकं-कार्यम्
प्रश्न 2.
भवान् गोविन्दराजः दिल्ली नगरे निवसति। भवतः मित्रम् वरदराजः परीक्षायां सफलतायै वर्धापनं प्रदानाय मित्रं प्रति मञ्जूषापदैः रिक्त स्थानानि पूरयित्वा उत्तर पुस्तिकायां पत्रं पुनः लिखत (½ × 10 = 5)
कावेरी छात्रावास:
प्रिय (ii)…….. (i) …….
(iii) ……… तिथि: …………
अत्र कुशलं तत्रास्तु। विद्यालये नवम कक्षायाः (iv) ……… समुद्घोषितः। मया इण्टरनेट इति माध्यमेन तव परीक्षा परिण सामः (v) ……….. । अस्यां परीक्षायाम् त्वम् पञ्चनवतिः प्रतिशतम् (vi) …………… प्राप्य समुत्तीर्णः। (vii) ………. कठोर परिश्रमः सफलः जातः। त्वया न केवलम् आत्मनः अपि स्वकुटुम्बस्य अपि (viii) ……….. वर्धितम्। अहं उच्च-सफलतायै तुभ्यं हार्दिक(ix) ………. यच्छामि।
मातृ – पितृ चरणयोः प्रणामाः।
तव अभिन्न सुहृद्
(x) ………….।
[मञ्जूषा-विदितः, गोविन्दराजः, वरदाज! दिल्ली, तव, अङ्कान्, यशः, नमस्ते, वर्धापनम्, परीक्षा परिणामः]
उत्तरः
(i) दिल्ली
(ii) वरदराज!
(iii) नमस्ते
(iv) परीक्षा परिणाम:
(v) विदितः
(vi) अङ्कान्
(vii) तव
(viii) यशः
(ix) वर्धापनम्
(x) गोविन्दराजः
प्रश्न 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मंजूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
[मञ्जूषा-वृक्षः, शिखाधारी जनः, खाद्यानि, फलानि, जलपात्रम्, देवालयः, आपणम्, दृश्यम्।]
अथवा
मञ्जूषायां प्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयं अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत।
(मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
“प्रातः भ्रमणम्”
[मञ्जूषा – आलस्यं, निद्रा, अतिमहत्वम्, शुद्धवायुः, व्यायामः, रुग्णः, ऊर्जादायकः, स्वास्थ्य दृष्ट्या|]
उत्तरः
- अस्मिन चित्रे देवालस्य भव्यं दृश्यं अस्ति।
- अस्मिन् चित्रे एक साधुः एकः शिखाधारी च जनः अपि दृश्यतः।
- चित्रे फलानि खाद्यानि जलपात्रम् अपि च दृश्यन्ते।
- चित्रे अनेकानि आपणानि अपि सन्ति।
- चित्रस्य दृश्यम् अति रमणीयम् अस्ति।
अथवा
- जनाः निद्रां त्यक्त्वा आलस्यं विहाय प्रातः काले भ्रमणाय गच्छन्ति।
- प्रातःकाले भ्रमणं, व्यायामं च अति महत्त्वपूर्णम् स्वास्थ्य लाभदायकं भवति।।
- प्रात:काले भ्रमणे सर्वदा शुद्धवायुः प्राप्नोति।
- प्रातः भ्रमणं कारणेन वयं ‘अहर्निशं’ न रुग्णः भवामः।
- प्रातः भ्रमणं सर्वदा स्वास्थ्यवर्द्धकः, ऊर्जादायकः भवति।
प्रश्न 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं पञ्चवाक्यम्, रचनात्मकम्) (1 × 5 = 5)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए) (केवल पाँच वाक्य)
(i) संस्कृत देवभाषा है।
Sanskrit is a dev language.
उत्तरः
संस्कृत देवभाषा अस्ति।
(ii) यह भाषा सभी भाषाओं की जननी है।
This language is the mother of all languages.
उत्तरः
इयं भाषा सर्वासां भाषाणां जननी अस्ति।
(iii) इस भाषा में अनेक ग्रंथ है।
There are many texts in this languages.
उत्तरः
अस्याम् भाषायाम् अनेके ग्रंथाः सन्ति।
(iv) कल मैं मुम्बई जाऊँगा।
Tomorrow I will go to Mumbai.
उत्तरः
श्वः अहम् मुम्बई नगरम् गमिष्यामि।
(v) तुम सब पत्र लिखो।
All of write your letters.
उत्तरः
यूयम् पत्रम् लिखत।
(vi) क्या हम लोगों को संस्कृत पढ़ना चाहिए ?
Should we read Sanskrit ?
उत्तरः
किम् वयम् संस्कृतं पठेम?
(vii) तुम किससे डरते हो ?
What are you afraid of ?
उत्तरः
त्वम् कस्मात् त्रस्यसि?
पठित-अवबोधनम्
प्रश्न 5.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्
उत्तराणि संस्कृतेन लिखत(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
अग्रिम दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्। न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्। सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत् । ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्। अन्येषुः तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ । तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः कोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्ग निकषा वर्तते। आदिश्यतां किं करणीयमिति । न्यायाधीशः आरक्षिणम् अभियुक्तं च तद् शवं न्यायालये आनेतुमादिष्टवान्।
(अ) एकपदेन उत्तरत। (केवलं प्रश्न द्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) न्यायाधीशः कः आसीत् ?
उत्तरः
बंकिमचन्द्र
(ii) कस्य अभावात् न्यायाधीशः निर्णेतुं नाशक्नोत् ?
उत्तरः
प्रमाणाभावात्
(iii) न्यायालये कः समागत्य न्यवेदयत् ?
उत्तरः
कर्मचारी।
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) न्यायाधीशः कौ शवं न्यायालये आनेतुमादिष्टवान्?
उत्तरः
न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्।
(ii) तत्रत्यः कर्मचारी समागत्य किं न्यवेदयत्?
उत्तरः
तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः कोशाद्वयान्तराले कश्चिज्जनः केनापि हतः।
(iii) आरक्षी कं न्यायालयं नीतवान्?
उत्तरः
अग्रिमे दिने आरक्षी तम् अभियुक्तं चौर्याभियोगे न्यायालयं नीतवान्।
प्रश्न 6.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
मृगा मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिः तुरगास्तुरङ्गः।
मूर्खाश्च मूखैः सुधियः सुधीभिः
समान-शील-व्यसनेषु सख्यम्॥
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) मृगैः के अनुप्रजन्ति?
उत्तरः
मृगाः
(ii) गावः काभिः पश्चात् गच्छन्ति?
उत्तरः
गोभिः
(iii) मूर्खा: कैः अनुव्रजन्ति?
उत्तरः
मूर्खः
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) सुधियः सख्यं कैः सह भवति?
उत्तरः
सुधियः सख्यं सुधीभिः सह भवति।
(ii) अश्वाः कैः सह गच्छन्ति?
उत्तरः
अश्वाः तुरंगैः सह गच्छन्ति।
(iii) सख्यम् केषु भवति?
उत्तरः
सख्यम् समान-शील व्यसनेषु भवति।
प्रश्न 7.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
बकः – अरे! अरे! मां विहाय कथमन्यः कोऽपि राजा भवितुमर्हति। अहं तु शीतले जले बहुकालपर्यन्तम् अविचल: ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि, योजनां निर्मीय च स्वसभायां विविधपदमलंकुर्वाणैः जन्तुभिश्च मिलित्वा रक्षोपायान् क्रियान्वितान् कारयिष्यामि, अतः अहमेव वनराजपदप्राप्तये योग्यः।
मयूरः- (वृक्षोपरितः-अट्टासपूर्वकम्) विरम विरम आत्मश्लाघायाः किं न जानासि यत्-जानासि यत्)
यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव।।
को न जानाति तव ध्यानावस्थाम्। ‘स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम्।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) नदीमध्यास्थितः कः?
उत्तरः
बकः
(ii) ‘विरम विरम आत्मश्लाघायाः’ इति कः कथयति?
उत्तरः
मयूरः
(iii) वराकान् मीनान् छलेन कः भक्षयति?
उत्तरः
बकः
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) वृक्षोपरितः कः कीदृशं कथयति?
उत्तरः
मयूरः वृक्षोपरितः अट्टहासपूर्वकं कथयति।
(ii) ध्यानावस्थाम् कः तिष्ठति?
उत्तरः
ध्यानावस्थां वकः तिष्ठति।
(iii) मीनान् क्रूरतया कः भक्षयति ?
उत्तरः
स्थितप्रज्ञ इति व्याजेन वराकान् मीनान् बकः क्रूरतया भक्षयति।
प्रश्न 8.
मञ्जूषातः समुचित पदानि चित्वा अधोलिखित श्लोकस्यः अन्वयं पूरयत- (½ × 4 = 2)
(मंजूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा कीजिए।)
उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः॥
अन्वयः- (i) ……… अपि उदीरितः अर्थः …….गृह्यते, बोधिताः हयाः च (ii) ……. च (भारम्) वहन्ति। (iii) ……… जनः अनुक्तम् अपि ऊहति। (iv)…….. परेङ्गितज्ञानफलाः हि (भवन्ति)।
[मञ्जूषा-पाण्डितः, बुद्धयः, नागाः पशुना]
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मंजूषा की सहायता से श्लोक के भावार्थ से रिक्तस्थानों को पूरा करके पुनः लिखिए।)
वयोबलशरीराणि देशकालाशनानि च।
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते॥
भावार्थ:- (i) ……….. अत्र वैशिष्ट्यम् प्रकाशितम् यत् यथा फलच्छाया-समन्वितः (ii) ……… सेवनीयः भवति। (iii) ………. भाग्यात् महावृक्षे फलं नास्ति तदा वृक्षस्य। (iv) ………. केन निवारणं क्रियते।
[मञ्जूषा-यदि, छायायाः, छाया, महावृक्षः]
उत्तरः
(i) पशुना
(ii) नागाः
(iii) पण्डितः
(iv) बुद्धयः
अथवा
(i) छायायाः
(ii) महावृक्षः
(iii) यदि
(iv) छाया
प्रश्न 9.
अधोलिखित-कथांश समुचितक्रमेण लिखत (½ × 8 = 4)
(निम्नलिखित कथाशं को समुचित क्रम में लिखिए।)
(i) सः अर्थकार्येन पदातिरेव प्राचलत्।
(ii) आरक्षी एव चौरः आसीत् परं अतिथिं चौरं मत्वा सर्वे अभर्त्सयन्।
(iii) एकः निर्धनः जनः किञ्चिद् धनम् अर्जितवान्।
(iv) न्यायाधीशः शवम् आनेतुम् आदिष्टवान्।
(v) न्यायाधीशः उभाभ्यां विवरणं श्रुतवान्।
(vi) तस्य पुत्रः रुग्णः अभवत्।
(vii) मार्गे रात्रिः अभवत् गृही च तस्मै आश्रयं प्रायच्छत्।
(viii) न्यायाधीशः आरक्षिणे कारादण्डम् आदिशति।
उत्तरः
(ii) एकः निर्धनः जनः किञ्चित् धनम् अर्जितवान्।
(vi) तस्य पुत्र रुग्णः अभवत्।
(i) सः अर्थकार्येन पदातिरेव प्राचलत्।
(vii) मार्गे रात्रिः अभवत् गृही च तस्मै आश्रयं प्रायच्छत्।
(ii) आरक्षी एव चौरः आसीत् परं अतिथिं चौरं मत्वा सर्वे अभर्त्सयन्।
(v) न्यायाधीशः उभाम्यां विवरणं श्रुतवान्।
(iv) न्यायाधीशः शवम् आनेतुम् आदिष्टवान्।
(vii) न्यायाधीशः आरक्षिणे कारादण्डम् आदिशति।